कीरेषु श्वपचो राज्यं वर्षाण्य् अष्टौ चकार ह । आर्यवृत्तम् अशेषेण तावत्कालं बभार ह
यदृच्छयैकदाथासाव् अतिष्ठत् त्यक्तभूषणः । अतमस्तारकेन्द्वर्कतेजोऽम्बुदम् इवाम्बरम्
बह्व् अमन्यत नो हारकेयूरवसनाद्य् असौ । प्रभुताबृंहितं चेतो नाहार्यम् अभिनन्दति
एक एवाजिरं बाह्यं तादृग्वेषस् स निर्ययौ । मुख्याङ्गनान् नभोभागाद् अन्तं गच्छन्न् इवांशुमान्
तत्रापश्यद् घनश्यामं पीनं श्वपचपेटकम् । गायन् मृदु वसन्तोत्थं कोकिलानाम् इव व्रजम्
धुनानं झल्लरीतन्त्रीं करपल्लवलीलया । मधुरेहं रणद्रेफाम् अलिश्रेणीम् इव द्रुमः
अथ तस्मात् समुत्तस्थौ जरावान् रक्तलोचनः । काचशृङ्गं हिमापूर्णम् इव श्वपचनायकः
ज्यो कटञ्जेति सहसा वदन् कीरमहीपतेः । वल्ल्यां काकम् इवानन्दाज् जान्वग्रे ऽयोजयत् करम्
उवाचेदं च कीरेशं हे बन्धो भोः कटञ्जक । क्व नु स्थितो ऽसि दिष्ट्याद्य दृष्टो ऽसि चिरबान्धव
क्वासि विश्रान्तवान् कालम् एतावन्तं वनान्तरे । बन्धुवृन्दपरित्यक्तः परपुष्ट इवैककः
इह राजा भवन्तं वा कच्चिद् गेयकलाविदम् । रक्तकण्ठं मानयति रागवान् इव कोकिलम्
आपूरयति वा कच्चिद् गृहवस्त्राशनार्पणैः । मधुस् तमालविटपं फलपत्त्ररसैर् इव
दर्शनेन तवाद्याहं परां निर्वृतिम् आगतः । पद्मस् सूर्योदयेनेव चन्द्रोदय इवोदधिः
आनन्दानाम् अशेषाणां लाभानां महताम् अपि । विश्रामाणाम् अनन्तानां सीमान्तो बन्धुदर्शनम्
श्वपचे प्रवदत्य् एवं राजा तावत् तया तया । चकार तत्कालजया चेष्टयैवावधीरणम्
तावद् वातायनगताः कान्ताः प्रकृतयस् तथा । श्वपचो ऽयम् इति ज्ञात्वा म्लानताम् अलम् आययुः
पद्मास् तुषारवृष्ट्येव ग्रामास् सावग्रहा इव । दाववन्त इवाद्रीन्द्रा नागरा न विरेजिरे
नृपो ऽवधीरयाम् आस स तां स्वजनसङ्कथाम् । वृक्षाग्रगतमार्जारफेक्कारं मृगराड् इव
सत्वरं प्रविवेशान्तःपुरम् आम्लानमानवम् । राजहंस इवावर्षसीदत्सरसिजं सरः
सर्वावयवविश्रान्तां म्लानताम् अलम् आययौ । जानुस्तम्भान्तरमहारन्ध्रस्थाग्निर् इव द्रुमः
तत्रापश्यद् असौ सर्वं विषण्णवदनं जनम् । जालं कुङ्कुमपुष्पाणां भुक्तमूलम् इवाखुना
मन्त्रिणो नागरा नार्यस् ततस् ते तं महीपतिम् । नास्प्राक्षुर् अपि तिष्ठन्तं गृह एव शवं यथा
भृत्याश् चाकृतसत्कारं दूर एव तम् अत्यजन् । दुःखयुक्ता घनस्नेहा अपि बालशवं यथा
अनानन्दमुखं श्यामशरीरं श्रीविवर्जितम् । दग्धं स्थलम् इवैनं ते बह्व् अमन्यन्त नाकुलाः
धूमायमानदेहस्य परितापदशावती । नाढौकतास्य जनता पार्श्वम् अग्निगिरेर् इव
मन्दोत्साहसमुद्भूतास् तन्व्यस् सङ्घातवर्जिताः । एतदाज्ञाः परं प्रापुर् भस्मनीवाम्बुविप्रुषः
क्रूरकर्मकराकारात् सङ्गतो ऽशुभदायिनः । तस्माद् विशेषेण जना राक्षसाद् इव दुद्रुवुः
एक एव बभूवासौ जनमध्यगतो ऽपि सन् । अर्थादिगुणनिर्मुक्तः परदेश इवाध्वगः
भृशम् आरटते ऽप्य् अस्मै नालापं नागरा ददुः । मुक्ताजालयुतायापि कीचकायाध्वगा इव
अथ सर्वे वयं दीर्घं कालं श्वपचदूषिताः । प्रायश्चित्तैर् न शुद्धास् स्मः प्रविशामो हुताशनम्