प्रलपत्य् एक एवासाव् अटव्यां दुःखकर्षितः । वियूथ इव सारङ्गो विगतास्थो ऽस्रुलोचनः
दिनानि कतिचित् तत्र नीत्वा शोकपरीतधीः । जहौ स्वदेशं संशुष्कपद्मं सर इवाण्डजः
विजहार बहून् देशान् अनास्थश् चिन्तयान्वितः । प्रेर्यमाण इवान्येन वातनुन्न इवाम्बुदः
एकदा प्राप कीराणां मण्डले श्रीमतीं पुरीम् । खे ऽनूरुर् विहरञ् शून्ये सद्विमानम् इवामरः
नृत्यद्रत्नांशुकच्छन्नमार्गवृक्षलताङ्गनाम् । आगुल्फं कीर्णकुसुमां नन्दनान्तरसुन्दरीम्
सामन्तैर् ललनाभिश् च नागरैश् च निरन्तरम् । स्वर्गमार्गोपमं राजमार्गम् अस्याम् अवाप सः
मणिरत्नकृतागारं तत्र मङ्गलहस्तिनम् । ददर्शामलशैलेन्द्रम् इव सञ्चारचञ्चलम्
मृते राजनि राजार्थं विहरन्तम् इतस् ततः । रत्नज्ञम् इव रत्नोर्व्यां चिन्तामणिदिदृक्षया
तम् असौ श्वपचो नागं कौतुकोदारया दृशा । चिरम् आलोकयाम् आस स्पन्दयुक्ताचलोपमम्
आलोकयन्तम् आदाय तं करेण स वारणः । स्वकटे ऽयोजयन् मेरुस् तटे ऽर्कम् इव सादरम्
तस्मिन् कटगते नेदुर् जयदुन्दुभयो ऽभितः । कल्पाम्बुद इवाकाशम् अधिरूढे महार्णवाः
पूरिताशो बभौ राजा जयतीति जनस्वनः । उद्याने सम्प्रबुद्धानां विहगानाम् इवारवः
उदभूद् वन्दिवृन्दानां घनकोलाहलस् ततः । वेलाविलुलिताम्बूनाम् अम्बुधीनाम् इव ध्वनिः
तं तत्रावारयाम् आसुर् मण्डनार्थं वराङ्गनाः । क्षीरोदगतम् उद्रत्ना लहर्य इव मन्दरम्
मानिन्यस् तं गुणप्रोतैर् नानारत्नैर् अपूरयन् । नानाप्रभाप्रभावाढ्यैर् वेला इव तटाचलम्
तुषारशिशिरस्पर्शैस् तास् तं हारैर् अभूषयन् । श्यामा नवनदीपूरैर् वर्षाश् शृङ्गम् इवोन्नतम्
विचित्रवर्णसौगन्ध्यैः पुष्पैर् आवलयन् स्त्रियः । वनं मधुश्रिय इव तं लोलकरपल्लवाः
नानावर्णरसामोदैस् तास् तम् आशु विलेपनैः । अलेपयन् प्रभाजालैस् तट्यो ऽभ्रम् इव धातुजैः
रत्नकाञ्चनकान्तो ऽसाव् आददे छत्त्रम् आततम् । सन्ध्याभ्रतारेन्दुनदीव्याप्तं मेरुर् इवाम्बरम्
भूषितस् सविलासाभिर् बालवल्लीभिर् आवृतः । रत्नपुष्पांशुकाकीर्णः कल्पवृक्ष इवाबभौ
तादृशं तम् उपाजग्मुः परिवारसमन्विताः । सर्वाः प्रकृतयः फुल्लं मार्गद्रुमम् इवाध्वगाः
ता एनम् आसने सैंहे प्राप्याभिषिषिचुः क्रमात् । तस्मिन्न् एव गजे शक्रम् ऐरावण इवामराः
एवं स श्वपचो राज्यं प्राप कीरपुरान्तरे । अरण्ये हरिणं पुष्टम् अप्राणम् इव वायसः
कीरीकरतलाम्भोजप्रमृष्टचरणाम्बुजः । सर्वाङ्गकुङ्कुमालेपैस् सन्ध्याम्बुधरशोभनः
जज्वाल कीरनगरे नागरीजनवान् असौ । सिंहीगणयुतस् सिंहो यथा कुसुमिते वने
हरिहतमदनागोत्तारमुक्ताकलापप्रविचरितशरीरश् शान्तचिन्ताविषादः । अरमत स महद्भिस् तत्र भोगैस् सरस्यां रविकरमदतप्तो वारिपूरैर् इवेभः
परिविसृतनृपौजास् सर्वदिक्संस्थिताज्ञः कतिपयदिवसेहासिद्धदेशव्यवस्थः । प्रकृतिभिर् अलम् ऊढाशेषराजत्वभारस् स गवल इति नाम्ना तत्र राजा बभूव
विलासिनीभिर् वलितो मन्त्रिमण्डलपूजितः । वन्दितस् सर्वसामन्तैश् छत्त्रचामरमालितः
सिद्धानुशासनः कान्तो ज्ञातराज्यगुणक्रमः । वीतशोकभयायासस् तत्र प्राप्तमहापदः
विस्मृतात्मप्रभावो ऽभूद् अनिशं स्तवमङ्गलैः । आनन्दापूर्णया वृत्त्या भृशं क्षीव इवासवैः