हूनमण्डलपर्यन्तग्रामोपान्तनिवासिनाम् । श्वपचानां स्त्रियो गर्भे स्थितम् आत्मानम् आकुलम्
गर्भवासभयाक्रान्तं पीडितं पेलवाङ्गकम् । श्वपचीहृदये सुप्तं श्वविष्ठायाम् इवाङ्कुरम्
शनैः पक्वतया काले प्रसूतं मेचकच्छविम् । श्वपच्या प्रावृषेवाब्दं श्यावम् आवलितं मलैः
सम्पन्नं श्वपचागारे शिशुं श्वपचवल्लभम् । इतश् चेतश् च गच्छन्तम् उत्पीडम् इव यामुनम्
द्वादशाब्ददशां यातं संस्थितं षोडशाब्दिकम् । पीवरांसम् उदाराङ्गं पयोदम् इव मेदुरम्
सारमेयपरीवारं विहरन्तं वनाद् वनम् । निघ्नन्तं मृगलक्षाणि पौलिन्दीं स्थितिम् आस्थितम्
तमालं लतयेवाथ श्रितं श्वपचकान्तया । स्तनस्तबकशालिन्या नवपल्लवहस्तया
श्यामया कलिकाजालदशनामलमालया । नववल्लभया भूरिविलासवलिताङ्गया
विलसन्तं वनान्तेषु तया सह नवेष्टया । श्यामलं श्यामया भृङ्गं भृङ्ग्येव कुसुमर्द्धिषु
नवपर्णलतापत्त्रवसनं व्यसनान्तरम् । विन्ध्यकान्तारम् आकारम् अभ्यागतम् इवोद्भटम्
विश्रान्तं वनकुञ्जेषु सुप्तं गिरिदरीषु च । निलीनं पत्त्रकुञ्जेषु गुल्मकेषु कृतालयम्
किङ्किरातावतंसाढ्यं यूथिकास्रग्विभूषितम् । केतकोत्तंससुभगं सहकारस्रगाकुलम्
लुलितं पुष्पशय्यासु भ्रान्तम् अब्धितटेषु च । तज्ज्ञं काननकोशेषु बहुज्ञं मृगमारणे
प्रासूत सो ऽथ शैलेषु पुत्रान् निजकुलाङ्कुरान् । अत्यन्तविषमोदर्कान् खदिरः कण्टकान् इव
कलत्रवन्तं सम्पन्नं स्थितं प्रक्षीणयौवनम् । शनैर् जर्जरतां यातं वृष्टिहीनम् इव स्थलम्
ततो हूनहतग्रामं जन्मदेशम् उपेत्य तम् । संस्थितं मठिकां पर्णैः कृत्वा दूरे मुनीन्द्रवत्
जराजरढतां यातं स्वदेहसमपुत्रकम् । जीर्णप्रायरसश्वभ्रतमालतरुसन्निभम्
प्रौढं श्वपचगार्हस्थ्यं कुर्वाणं बहुबान्धवम् । करञ्जकुञ्जवनवत् परां वृद्धिम् उपागतं
अथापश्यद् असौ गाधिर् यावत् तस्य कलत्रिणः । जरढश्वपचेशस्य स्वात्मनो भ्रमकारिणः
तत् कलत्रम् अशेषेण नीतम् आदृतमन्युना । आसारपवनेनाशु वनपर्णगणो यथा
प्रलपत्य् एक एवासाव् अटव्यां दुःखकर्षितः । वियूथ इव सारङ्गो विगतास्थो ऽस्रुलोचनः
दिनानि कतिचित् तत्र नीत्वा शोकपरीतधीः । जहौ स्वदेशं संशुष्कपद्मं सर इवाण्डजः
विजहार बहून् देशान् अनास्थश् चिन्तयान्वितः । प्रेर्यमाण इवान्येन वातनुन्न इवाम्बुदः
एकदा प्राप कीराणां मण्डले श्रीमतीं पुरीम् । खे ऽनूरुर् विहरञ् शून्ये सद्विमानम् इवामरः
नृत्यद्रत्नांशुकच्छन्नमार्गवृक्षलताङ्गनाम् । आगुल्फं कीर्णकुसुमां नन्दनान्तरसुन्दरीम्
सामन्तैर् ललनाभिश् च नागरैश् च निरन्तरम् । स्वर्गमार्गोपमं राजमार्गम् अस्याम् अवाप सः
मणिरत्नकृतागारं तत्र मङ्गलहस्तिनम् । ददर्शामलशैलेन्द्रम् इव सञ्चारचञ्चलम्
मृते राजनि राजार्थं विहरन्तम् इतस् ततः । रत्नज्ञम् इव रत्नोर्व्यां चिन्तामणिदिदृक्षया
तम् असौ श्वपचो नागं कौतुकोदारया दृशा । चिरम् आलोकयाम् आस स्पन्दयुक्ताचलोपमम्
आलोकयन्तम् आदाय तं करेण स वारणः । स्वकटे ऽयोजयन् मेरुस् तटे ऽर्कम् इव सादरम्