बान्धवाक्रन्दसंरम्भकोलाहलगता गिरः । स्नेहभावविचारार्थं शृण्वन्तम् इव यत्नतः
अथ तत्कालकल्लोलप्रलापाकुलचेष्टितैः । सोरस्ताडनम् उच्छूननेत्रवारिभिर् आप्लुतैः
क्रमेण स्वजनैः क्षुब्धैस् ताराक्रन्दितघर्घरैः । निष्कालितम् अमङ्गल्यम् अपुनर्दर्शनाय तैः
नीतं श्मशानम् आश्यानवसापङ्ककलङ्कितम् । शुष्काशुष्कजरत्क्लिन्नकङ्कालशतसङ्कुलम्
गृध्राभ्रच्छन्नसूर्यांशु चिताज्वलननिस्तमः । शिवाशतमुखज्वालाजालपल्लवितावनि
वहद्रक्तसरित्स्नातमद्गुकङ्कोग्रवायसम् । रक्तार्द्रतन्त्रीप्रसरजालबद्धजरत्खगम्
तत्र ते ज्वलने दीप्ते चक्रुस् तं भस्मसाच् छवम् । बान्धवास् सलिलापूरं समुद्रा इव वाडवे
चितिश् चटचटास्फोटैश् शवम् आशु ददाह तम् । शुष्केन्धनवद् उच्छूनज्वालाजालजटावती
अत्युल्लसच्चटचटारवमुक्तगन्धव्याप्ताम्बुवाहपटलो ऽस्थिचयं हुताशः । दन्ती विरन्ध्रम् इव वेणुवनं समन्ताद् उद्वान्तमेदुररसं दलयां चकार
अथापश्यद् असौ गाधिस् स्वाधिपीवरया धिया । अन्तर्जलस्थ एवान्तर् आत्मनात्मन्य् अनिर्मले
हूनमण्डलपर्यन्तग्रामोपान्तनिवासिनाम् । श्वपचानां स्त्रियो गर्भे स्थितम् आत्मानम् आकुलम्
गर्भवासभयाक्रान्तं पीडितं पेलवाङ्गकम् । श्वपचीहृदये सुप्तं श्वविष्ठायाम् इवाङ्कुरम्
शनैः पक्वतया काले प्रसूतं मेचकच्छविम् । श्वपच्या प्रावृषेवाब्दं श्यावम् आवलितं मलैः
सम्पन्नं श्वपचागारे शिशुं श्वपचवल्लभम् । इतश् चेतश् च गच्छन्तम् उत्पीडम् इव यामुनम्
द्वादशाब्ददशां यातं संस्थितं षोडशाब्दिकम् । पीवरांसम् उदाराङ्गं पयोदम् इव मेदुरम्
सारमेयपरीवारं विहरन्तं वनाद् वनम् । निघ्नन्तं मृगलक्षाणि पौलिन्दीं स्थितिम् आस्थितम्
तमालं लतयेवाथ श्रितं श्वपचकान्तया । स्तनस्तबकशालिन्या नवपल्लवहस्तया
श्यामया कलिकाजालदशनामलमालया । नववल्लभया भूरिविलासवलिताङ्गया
विलसन्तं वनान्तेषु तया सह नवेष्टया । श्यामलं श्यामया भृङ्गं भृङ्ग्येव कुसुमर्द्धिषु
नवपर्णलतापत्त्रवसनं व्यसनान्तरम् । विन्ध्यकान्तारम् आकारम् अभ्यागतम् इवोद्भटम्
विश्रान्तं वनकुञ्जेषु सुप्तं गिरिदरीषु च । निलीनं पत्त्रकुञ्जेषु गुल्मकेषु कृतालयम्
किङ्किरातावतंसाढ्यं यूथिकास्रग्विभूषितम् । केतकोत्तंससुभगं सहकारस्रगाकुलम्
लुलितं पुष्पशय्यासु भ्रान्तम् अब्धितटेषु च । तज्ज्ञं काननकोशेषु बहुज्ञं मृगमारणे
प्रासूत सो ऽथ शैलेषु पुत्रान् निजकुलाङ्कुरान् । अत्यन्तविषमोदर्कान् खदिरः कण्टकान् इव
कलत्रवन्तं सम्पन्नं स्थितं प्रक्षीणयौवनम् । शनैर् जर्जरतां यातं वृष्टिहीनम् इव स्थलम्
ततो हूनहतग्रामं जन्मदेशम् उपेत्य तम् । संस्थितं मठिकां पर्णैः कृत्वा दूरे मुनीन्द्रवत्
जराजरढतां यातं स्वदेहसमपुत्रकम् । जीर्णप्रायरसश्वभ्रतमालतरुसन्निभम्
प्रौढं श्वपचगार्हस्थ्यं कुर्वाणं बहुबान्धवम् । करञ्जकुञ्जवनवत् परां वृद्धिम् उपागतं
अथापश्यद् असौ गाधिर् यावत् तस्य कलत्रिणः । जरढश्वपचेशस्य स्वात्मनो भ्रमकारिणः
तत् कलत्रम् अशेषेण नीतम् आदृतमन्युना । आसारपवनेनाशु वनपर्णगणो यथा