असङ्ख्येयजगद्भूतहृत्पद्मकुहरालिने । जगत्त्रयैकनलिनीसरसे विष्णवे नमः
मायाम् इमां त्वदुदितां भगवन् पारमात्मिकीम् । द्रष्टुम् इच्छामि संसारनाम्नीम् आश्चर्यकारिणीम्
इमां द्रक्ष्यसि मायां त्वं ततस् त्यक्ष्यसि चेत्य् अजः । उक्त्वा ययाव् अदृश्यत्वं गान्धर्वम् इव पत्तनम्
गते विष्णौ समुत्तस्थौ जलात् स ब्राह्मणेश्वरः । शीतलामलमूर्तित्वाद् इन्दुः क्षीरोदकाद् इव
बभूव परितुष्टात्मा दर्शनेन जगत्पतेः । दर्शनस्पर्शनैर् इन्दोर् उत्फुल्लम् इव कैरवम्
अथास्य कतिचित् तस्मिन् दिवसानि ययुर् वने । हरिसन्दर्शनानन्दवतो ब्राह्मणकर्मणा
एकदारब्धवान् स्नानं सरस्य् उदितपङ्कजे । चिन्तयन् वैष्णवं वाक्यं महर्षिर् इव मानसे
अथ स्नानविधाव् अन्तर्जलम् एष चकार ह । सकलाघविघातार्थं परिवर्तनम् आत्मनः
अन्तर्जलविधौ तस्मिन् विस्मृतध्यानमन्त्रधीः । पर्यस्तसंवित्प्रसरस् सो ऽपश्यज् जलमध्यगः
मृतम् आत्मानम् आत्मीये सदने ऽसोम्यतां गतम् । पतितं वातवेगेन कन्दरान्तर् इव द्रुमम्
प्राणापानप्रवाहेण मुक्तम् अन्तम् उपागतम् । संशान्तावयवस्पन्दं निर्वात इव षण्डकम्
पाण्डुराननम् आम्लानं वृक्षपर्णम् इवारसम् । शवीभूतम् अनाह्लादं छिन्ननालम् इवाम्बुजम्
विपर्यस्तेक्षणं प्रातर् मज्जत्तारम् इवाम्बरम् । सावग्रहम् इव ग्रामं सर्वतः पांसुधूसरम्
बाष्पक्लिन्नमुखैर् दीनैः करुणाक्रन्दकारिभिः । आवृतं बन्धुभिः खिन्नैः कुररैर् इव पादपम्
सेतुभङ्गगलद्वारिम्लायमानमुखाब्जया । नलिन्या समधर्मिण्या भार्यया पादयोश् श्रितम्
ताराक्रन्दरणद्रूढप्रलापालापमुग्धया । मात्रा गृहीतं चिबुके नवव्यञ्जनलाञ्छिते
अन्यैः पार्श्वगतैर् दीनैस् स्रवदस्रुमुखैर् जनैः । श्रितं गलदवश्यायैश् शुष्कपर्णैर् इव द्रुमम्
वियोगभीत्या संयोगपरिहारपरैर् इव । दूरं प्रविसृतैर् अङ्गैर् अनात्मीयैर् इवावृतम्
परस्परम् अलग्नाभ्याम् ओष्ठाभ्यां दशनैश् शनैः । सविरागम् इवाम्लानैर् हसन्तं स्वात्मजीवितम्
मौनं ध्यानम् इवापन्नं पङ्काद् इव विनिर्मितम् । अप्रबोधाय संसुप्तं विश्राम्यन्तम् इवोच्चकैः
बान्धवाक्रन्दसंरम्भकोलाहलगता गिरः । स्नेहभावविचारार्थं शृण्वन्तम् इव यत्नतः
अथ तत्कालकल्लोलप्रलापाकुलचेष्टितैः । सोरस्ताडनम् उच्छूननेत्रवारिभिर् आप्लुतैः
क्रमेण स्वजनैः क्षुब्धैस् ताराक्रन्दितघर्घरैः । निष्कालितम् अमङ्गल्यम् अपुनर्दर्शनाय तैः
नीतं श्मशानम् आश्यानवसापङ्ककलङ्कितम् । शुष्काशुष्कजरत्क्लिन्नकङ्कालशतसङ्कुलम्
गृध्राभ्रच्छन्नसूर्यांशु चिताज्वलननिस्तमः । शिवाशतमुखज्वालाजालपल्लवितावनि
वहद्रक्तसरित्स्नातमद्गुकङ्कोग्रवायसम् । रक्तार्द्रतन्त्रीप्रसरजालबद्धजरत्खगम्
तत्र ते ज्वलने दीप्ते चक्रुस् तं भस्मसाच् छवम् । बान्धवास् सलिलापूरं समुद्रा इव वाडवे
चितिश् चटचटास्फोटैश् शवम् आशु ददाह तम् । शुष्केन्धनवद् उच्छूनज्वालाजालजटावती
अत्युल्लसच्चटचटारवमुक्तगन्धव्याप्ताम्बुवाहपटलो ऽस्थिचयं हुताशः । दन्ती विरन्ध्रम् इव वेणुवनं समन्ताद् उद्वान्तमेदुररसं दलयां चकार
अथापश्यद् असौ गाधिस् स्वाधिपीवरया धिया । अन्तर्जलस्थ एवान्तर् आत्मनात्मन्य् अनिर्मले