तद् एव युक्तिमज् ज्ञेयं रामायान्तेनिवासिने । ब्रह्मन्न् उपदिशाशु त्वं येन विश्रान्तिम् एष्यति
कदर्थना च नैवैषा रामो हि गतकिल्बिषः । निर्मले मकुरे वक्त्रम् अयत्नेनैव बिम्बति
तज् ज्ञानं स च शास्त्रार्थस् तद् वैदग्ध्यम् अखण्डितम् । सच्छिष्याय विरक्ताय साधो यद् उपदिश्यते
अशिष्यायाविरक्ताय यत् किञ्चिद् उपदिश्यते । तत् प्रयात्य् अपवित्रत्वं गोक्षीरं श्वदृताव् इव
वीतरागभयक्रोधा निर्ममा गलितैनसः । वदन्ति त्वादृशा यत् तु तत्र विश्राम्यतीह धीः
इत्य् उक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः । मुनयस् ते तम् एवार्थं साधु साध्व् इत्य् अपूजयन्
अथोवाच महातेजा राज्ञः पार्श्वे व्यवस्थितः । ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भगवान् मुनिः
मुने यद् आदिशसि मे तद् अविघ्नं करोम्य् अहम् । कस् समर्थस् समर्थो ऽपि सतां लङ्घयितुं वचः
अहं हि राजपुत्राणां रामादीनां मनस्तमः । ज्ञानेनापनयाम्य् अद्य दीपेनेव निशातमः
स्मराम्य् अखण्डितं सर्वं संसारभ्रमशान्तये । निषधाद्रौ पुरा प्रोक्तं यज् ज्ञानं पद्मजन्मना
इति निगदितवान् असौ महात्मा परिकरबन्धगृहीतवन्द्यतेजाः । अकथयद् इदम् अज्ञतोपशान्त्यै परमपदैकविबोधनं वसिष्ठः
पूर्वम् उक्तं भगवता यज् ज्ञानं पद्मजन्मना । सर्गादौ लोकशान्त्यर्थं तद् इदं कथयाम्य् अहम्
कथयिष्यसि विस्तीर्णां भगवन् मोक्षसंहितां । इमं तावत् क्षणं जातं संशयं मे निवारय
पिता शुकस्य सर्वज्ञो गुरुर् व्यासो महामुनिः । विदेहमुक्तो न कथं कथं मुक्तस् सुतो ऽस्य सः
परमार्कप्रकाशान्तस् त्रिजगत्त्रसरेणवः । उत्पत्योत्पत्य लीना ये न सङ्ख्याम् उपयान्ति ते
वर्तमाने च यास् सन्ति त्रैलोक्यगणकोटयः । शक्यन्ते नैव सङ्ख्यातुं ताश् च काश्चन केनचित्
भविष्यन्ति पराम्भोधौ जगत्सर्गतरङ्गकाः । ये तांश् च परिसङ्ख्यातुं सङ्कथैव न विद्यते
या भूता या भविष्यन्त्यो जगत्सर्गपरम्पराः । तासां विचारणं युक्तं वर्तमानासु का कथा
तिर्यक्पुरुषदेवादेर् यो यो राम विनश्यति । तस्मिन्न् एव प्रदेशे ऽसौ तदैवेदं प्रपश्यति
आतिवाहिकनाम्नान्तस् स्वहृद्य् एव जगत्त्रयम् । व्योम्नि चित्तशरीरेण व्योमात्मानुभवत्य् अजः
एवं मृता म्रियन्ते च मरिष्यन्ति च कोटयः । भूतानां या जगन्त्य् आसाम् उदितानि पृथक् पृथक्
दुर्वातभूकम्प इव पिशाचत्रस्तबालवत् । मुक्तालीवामले व्योम्नि नौस्पन्दतरुयानवत्
स्वप्नसंवित्तिपुरवत् स्मृतिजातखवृक्षवत् । जगत्संसरणं स्वान्तर् मृतो ऽनुभवति स्वयम्
तत्रातिपरिणामेन तद् एव घनतां गतम् । इह लोको ऽयम् इत्य् एव जीवाकाशे विजृम्भते
पुनस् तत्रैव जन्मेहामरणाद्यनुभूतिमान् । परलोकं कल्पयति मृतस् तत्र तथा पुनः
तदन्तर् अन्ये पुरुषास् तेषाम् अन्तस् तथा परे । संसारा इति भान्तीमे कदलीदलपीठवत्
न पृथ्व्यादिमहाभूतगणा न च जगत्क्रमाः । मृतानां सन्ति तत्रापि तथाप्य् एषां जगद्भ्रमाः
अविद्यैवम् अनन्तेयं नानाप्रसवशालिनी । जडानां सरिद् आदीर्घा जगत्सर्गतरङ्गिणी
परमार्थाम्बुधौ स्फारे राम सर्गतरङ्गकाः । भूयो भूयो विवर्तन्ते त एवान्ये च भूरिशः
सर्वतस् सदृशाः केचित् कुलक्रममनोगुणैः । केचिद् अर्धेन सदृशाः केचिच् चातिविलक्षणाः