जगन्मायाप्रपञ्चस्य वैचित्र्यप्रतिपत्तये । इतिहासम् इमं वक्ष्ये शृणुष्वावहितो ऽनघ
अस्त्य् अस्मिन् वसुधापीठे कोसला नाम मण्डलम् । कल्पवृक्षवनं मेरोर् इव रत्नगणाकरम्
तत्रासीद् ब्राह्मणः कश्चिद् गुणी गाधिर् इति श्रुतः । परमश्रोत्रियो धीमान् वेदो मूर्तिम् इवाश्रितः
आ बाल्यात् प्रविरक्तेन चेतसा स व्यराजत । निष्कलङ्कावदातेन भुवनं नभसा यथा
किम् अप्य् अभिमतं कार्यं विनिधाय स चेतसि । बन्धुवर्गाद् विनिष्क्रम्य तपस् तप्तुं वनं ययौ
उत्फुल्लकमलं तत्र सरः प्राप स विप्रराट् । चन्द्रः प्रसन्नविमलं ताराशारम् इवाम्बरम्
आशौरिदर्शनं तस्मिंस् तपोऽर्थं सरसि द्विजः । आकण्ठम् अम्बुनिर्मग्नः प्रावृट्पद्म इवावसत्
ययौ मासाष्टकं तस्य मग्नस्य सरसो ऽम्भसि । मांसपङ्कजशङ्कोत्कभृङ्गभग्नमुखच्छवेः
अथैनं तपसा तप्तम् अजगमैकदा हरिः । निदाघार्तं घनश् श्यामः प्रावृषीव धरातलम्
विप्रोत्तिष्ठ पयोमध्याद् गृहाणाभिमतम् वरम् । अभीप्सितफलोपेतो जातस् ते नियमद्रुमः
असङ्ख्येयजगद्भूतहृत्पद्मकुहरालिने । जगत्त्रयैकनलिनीसरसे विष्णवे नमः
मायाम् इमां त्वदुदितां भगवन् पारमात्मिकीम् । द्रष्टुम् इच्छामि संसारनाम्नीम् आश्चर्यकारिणीम्
इमां द्रक्ष्यसि मायां त्वं ततस् त्यक्ष्यसि चेत्य् अजः । उक्त्वा ययाव् अदृश्यत्वं गान्धर्वम् इव पत्तनम्
गते विष्णौ समुत्तस्थौ जलात् स ब्राह्मणेश्वरः । शीतलामलमूर्तित्वाद् इन्दुः क्षीरोदकाद् इव
बभूव परितुष्टात्मा दर्शनेन जगत्पतेः । दर्शनस्पर्शनैर् इन्दोर् उत्फुल्लम् इव कैरवम्
अथास्य कतिचित् तस्मिन् दिवसानि ययुर् वने । हरिसन्दर्शनानन्दवतो ब्राह्मणकर्मणा
एकदारब्धवान् स्नानं सरस्य् उदितपङ्कजे । चिन्तयन् वैष्णवं वाक्यं महर्षिर् इव मानसे
अथ स्नानविधाव् अन्तर्जलम् एष चकार ह । सकलाघविघातार्थं परिवर्तनम् आत्मनः
अन्तर्जलविधौ तस्मिन् विस्मृतध्यानमन्त्रधीः । पर्यस्तसंवित्प्रसरस् सो ऽपश्यज् जलमध्यगः
मृतम् आत्मानम् आत्मीये सदने ऽसोम्यतां गतम् । पतितं वातवेगेन कन्दरान्तर् इव द्रुमम्
प्राणापानप्रवाहेण मुक्तम् अन्तम् उपागतम् । संशान्तावयवस्पन्दं निर्वात इव षण्डकम्
पाण्डुराननम् आम्लानं वृक्षपर्णम् इवारसम् । शवीभूतम् अनाह्लादं छिन्ननालम् इवाम्बुजम्
विपर्यस्तेक्षणं प्रातर् मज्जत्तारम् इवाम्बरम् । सावग्रहम् इव ग्रामं सर्वतः पांसुधूसरम्
बाष्पक्लिन्नमुखैर् दीनैः करुणाक्रन्दकारिभिः । आवृतं बन्धुभिः खिन्नैः कुररैर् इव पादपम्
सेतुभङ्गगलद्वारिम्लायमानमुखाब्जया । नलिन्या समधर्मिण्या भार्यया पादयोश् श्रितम्
ताराक्रन्दरणद्रूढप्रलापालापमुग्धया । मात्रा गृहीतं चिबुके नवव्यञ्जनलाञ्छिते
अन्यैः पार्श्वगतैर् दीनैस् स्रवदस्रुमुखैर् जनैः । श्रितं गलदवश्यायैश् शुष्कपर्णैर् इव द्रुमम्
वियोगभीत्या संयोगपरिहारपरैर् इव । दूरं प्रविसृतैर् अङ्गैर् अनात्मीयैर् इवावृतम्
परस्परम् अलग्नाभ्याम् ओष्ठाभ्यां दशनैश् शनैः । सविरागम् इवाम्लानैर् हसन्तं स्वात्मजीवितम्
मौनं ध्यानम् इवापन्नं पङ्काद् इव विनिर्मितम् । अप्रबोधाय संसुप्तं विश्राम्यन्तम् इवोच्चकैः