नित्याभ्यासविवेकाभ्यां चित्तम् आशु प्रसीदति । आम्रम् एव दशाम् एति साहकारीं शनैश् शनैः
एतद् अप्य् आत्मनैवात्मा फलम् आप्नोति भावितम् । हरिपूजाक्रमाख्येन निमित्तेनारिसूदन
वरम् आप्नोति यो वापि विष्णोर् अमिततेजसः । तेन स्वस्यैव तत् प्राप्तं फलम् अभ्यासशाखिनः
सर्वेषाम् उत्तमार्थानां सर्वासां चिरसम्पदाम् । स्वमनोनिग्रहो भूमिर् भूमिस् सस्यश्रियाम् इव
अप्य् उर्वीखननोत्कस्य कषतो ऽपि शिलोच्चयम् । स्वमनोनिग्रहाद् अन्यो नोपायो ऽस्तीह दुःखहा
तावज् जन्मसहस्राणि भ्रमन्ति भुवि मानवाः । यावन् नोपशमं याति मनोमत्तमहार्णवः
ब्रह्मविष्ण्विन्द्ररुद्राद्याश् चिरं सम्पूजिता अपि । उपप्लुतमनोव्याधिं न त्रायन्ते ऽपि वत्सलाः
आकारभासुरं त्यक्त्वा बाह्यम् आन्तरम् अप्य् अजम् । कुरु जन्मक्षयायाशु संविन्मात्रैकचिन्तनम्
संवेद्यनिर्मुक्तनिरामयैकसंविन्मयास्वादम् अनन्तरूपम् । सन्मात्रम् आस्वादय सर्वसारं पारं परं प्राप्स्यसि जन्मनद्याः
रामापर्यवसानेयं माया संसृतिनामिका । आत्मचित्तजयेनैव क्षयम् आयाति नान्यथा
जगन्मायाप्रपञ्चस्य वैचित्र्यप्रतिपत्तये । इतिहासम् इमं वक्ष्ये शृणुष्वावहितो ऽनघ
अस्त्य् अस्मिन् वसुधापीठे कोसला नाम मण्डलम् । कल्पवृक्षवनं मेरोर् इव रत्नगणाकरम्
तत्रासीद् ब्राह्मणः कश्चिद् गुणी गाधिर् इति श्रुतः । परमश्रोत्रियो धीमान् वेदो मूर्तिम् इवाश्रितः
आ बाल्यात् प्रविरक्तेन चेतसा स व्यराजत । निष्कलङ्कावदातेन भुवनं नभसा यथा
किम् अप्य् अभिमतं कार्यं विनिधाय स चेतसि । बन्धुवर्गाद् विनिष्क्रम्य तपस् तप्तुं वनं ययौ
उत्फुल्लकमलं तत्र सरः प्राप स विप्रराट् । चन्द्रः प्रसन्नविमलं ताराशारम् इवाम्बरम्
आशौरिदर्शनं तस्मिंस् तपोऽर्थं सरसि द्विजः । आकण्ठम् अम्बुनिर्मग्नः प्रावृट्पद्म इवावसत्
ययौ मासाष्टकं तस्य मग्नस्य सरसो ऽम्भसि । मांसपङ्कजशङ्कोत्कभृङ्गभग्नमुखच्छवेः
अथैनं तपसा तप्तम् अजगमैकदा हरिः । निदाघार्तं घनश् श्यामः प्रावृषीव धरातलम्
विप्रोत्तिष्ठ पयोमध्याद् गृहाणाभिमतम् वरम् । अभीप्सितफलोपेतो जातस् ते नियमद्रुमः
असङ्ख्येयजगद्भूतहृत्पद्मकुहरालिने । जगत्त्रयैकनलिनीसरसे विष्णवे नमः
मायाम् इमां त्वदुदितां भगवन् पारमात्मिकीम् । द्रष्टुम् इच्छामि संसारनाम्नीम् आश्चर्यकारिणीम्
इमां द्रक्ष्यसि मायां त्वं ततस् त्यक्ष्यसि चेत्य् अजः । उक्त्वा ययाव् अदृश्यत्वं गान्धर्वम् इव पत्तनम्
गते विष्णौ समुत्तस्थौ जलात् स ब्राह्मणेश्वरः । शीतलामलमूर्तित्वाद् इन्दुः क्षीरोदकाद् इव
बभूव परितुष्टात्मा दर्शनेन जगत्पतेः । दर्शनस्पर्शनैर् इन्दोर् उत्फुल्लम् इव कैरवम्
अथास्य कतिचित् तस्मिन् दिवसानि ययुर् वने । हरिसन्दर्शनानन्दवतो ब्राह्मणकर्मणा
एकदारब्धवान् स्नानं सरस्य् उदितपङ्कजे । चिन्तयन् वैष्णवं वाक्यं महर्षिर् इव मानसे
अथ स्नानविधाव् अन्तर्जलम् एष चकार ह । सकलाघविघातार्थं परिवर्तनम् आत्मनः
अन्तर्जलविधौ तस्मिन् विस्मृतध्यानमन्त्रधीः । पर्यस्तसंवित्प्रसरस् सो ऽपश्यज् जलमध्यगः
मृतम् आत्मानम् आत्मीये सदने ऽसोम्यतां गतम् । पतितं वातवेगेन कन्दरान्तर् इव द्रुमम्