अस्ति चेद् इन्द्रियाक्रान्तिः किं पूजापूज्यपूजनैः । नास्ति चेद् इन्द्रियाक्रान्तिः किं पूजापूज्यपूजनैः
विचारोपशमाभ्यां हि विना नासाद्यते हरिः । विचारोपशमाभ्यां च युक्तस्याब्जकरेण किम्
विचारोपशमोपेतं चित्तम् आराधयात्मनः । तस्मिन् सिद्धे भवान् सिद्धो नो चेत् त्वं वनगर्दभः
क्रियते माधवादीनां प्रणयः प्रार्थनाय यत् । स चैव कस्मात् क्रियते न स्वकस्यैव चेतसः
सर्वस्यैव जनस्यास्य विष्णुर् अभ्यन्तरे स्थितः । तं परित्यज्य ये यान्ति बहिर् विष्णुं न ते बुधाः
हृद्गुहावासि चित्तत्त्वं मुख्यं सानातनं वपुः । शङ्खचक्रगदाहस्तो गौण आकार आत्मनः
यो हि मुख्यं परित्यज्य गौणं समनुधावति । त्यक्त्वा रसायनं सिद्धं साध्यं संसाधयत्य् असौ
यस् तु वा स्थितिम् एवास्याम् आत्मज्ञानचमत्कृतौ । नासादयति सम्मत्तमनास् स रघुनन्दन
अप्राप्तात्मविवेको ऽन्तर् अज्ञश् चित्तवशीकृतः । शङ्खचक्रगदापाणिम् अर्चयत्य् अमरेश्वरम्
तत्पूजनेन कष्टेन तपसा तस्य राघव । काले निर्मलताम् एति चित्तं वैराग्यवारिणा
नित्याभ्यासविवेकाभ्यां चित्तम् आशु प्रसीदति । आम्रम् एव दशाम् एति साहकारीं शनैश् शनैः
एतद् अप्य् आत्मनैवात्मा फलम् आप्नोति भावितम् । हरिपूजाक्रमाख्येन निमित्तेनारिसूदन
वरम् आप्नोति यो वापि विष्णोर् अमिततेजसः । तेन स्वस्यैव तत् प्राप्तं फलम् अभ्यासशाखिनः
सर्वेषाम् उत्तमार्थानां सर्वासां चिरसम्पदाम् । स्वमनोनिग्रहो भूमिर् भूमिस् सस्यश्रियाम् इव
अप्य् उर्वीखननोत्कस्य कषतो ऽपि शिलोच्चयम् । स्वमनोनिग्रहाद् अन्यो नोपायो ऽस्तीह दुःखहा
तावज् जन्मसहस्राणि भ्रमन्ति भुवि मानवाः । यावन् नोपशमं याति मनोमत्तमहार्णवः
ब्रह्मविष्ण्विन्द्ररुद्राद्याश् चिरं सम्पूजिता अपि । उपप्लुतमनोव्याधिं न त्रायन्ते ऽपि वत्सलाः
आकारभासुरं त्यक्त्वा बाह्यम् आन्तरम् अप्य् अजम् । कुरु जन्मक्षयायाशु संविन्मात्रैकचिन्तनम्
संवेद्यनिर्मुक्तनिरामयैकसंविन्मयास्वादम् अनन्तरूपम् । सन्मात्रम् आस्वादय सर्वसारं पारं परं प्राप्स्यसि जन्मनद्याः
रामापर्यवसानेयं माया संसृतिनामिका । आत्मचित्तजयेनैव क्षयम् आयाति नान्यथा
जगन्मायाप्रपञ्चस्य वैचित्र्यप्रतिपत्तये । इतिहासम् इमं वक्ष्ये शृणुष्वावहितो ऽनघ
अस्त्य् अस्मिन् वसुधापीठे कोसला नाम मण्डलम् । कल्पवृक्षवनं मेरोर् इव रत्नगणाकरम्
तत्रासीद् ब्राह्मणः कश्चिद् गुणी गाधिर् इति श्रुतः । परमश्रोत्रियो धीमान् वेदो मूर्तिम् इवाश्रितः
आ बाल्यात् प्रविरक्तेन चेतसा स व्यराजत । निष्कलङ्कावदातेन भुवनं नभसा यथा
किम् अप्य् अभिमतं कार्यं विनिधाय स चेतसि । बन्धुवर्गाद् विनिष्क्रम्य तपस् तप्तुं वनं ययौ
उत्फुल्लकमलं तत्र सरः प्राप स विप्रराट् । चन्द्रः प्रसन्नविमलं ताराशारम् इवाम्बरम्
आशौरिदर्शनं तस्मिंस् तपोऽर्थं सरसि द्विजः । आकण्ठम् अम्बुनिर्मग्नः प्रावृट्पद्म इवावसत्
ययौ मासाष्टकं तस्य मग्नस्य सरसो ऽम्भसि । मांसपङ्कजशङ्कोत्कभृङ्गभग्नमुखच्छवेः
अथैनं तपसा तप्तम् अजगमैकदा हरिः । निदाघार्तं घनश् श्यामः प्रावृषीव धरातलम्
विप्रोत्तिष्ठ पयोमध्याद् गृहाणाभिमतम् वरम् । अभीप्सितफलोपेतो जातस् ते नियमद्रुमः