प्रह्लादो ऽन्तस्स्थया शुद्धसत्त्ववासनया स्वया । बोधम् आप महाबाहो शङ्खशब्दावबुद्धया
हरिर् आत्मा हि भूतानां तस्य यत् प्रतिभासते । तत् तथैव भवत्य् आशु सर्वत्रात्मैव कारणम्
प्रबोधम् एतु प्रह्लादो यदैवेति विचिन्तितम् । निमेषाद् वासुदेवेन तदैव तद् उपस्थितम्
आत्मन्य् अकारणेनैव भूतानां कारणेन च । सृष्ट्यर्थं वपुर् आत्तं तद् वासुदेवीयम् आत्मना
आत्मावलोकनेनाशु माधवः परिदृश्यते । माधवाराधनेनाशु स्वयम् आत्मावलोक्यते
एतां दृष्टिम् अवष्टभ्य राघवात्मावलोकने । विहराशु विराडात्मा पदं प्राप्स्यसि शाश्वतम्
सुखासारवती राम संसारप्रावृड् आतता । जाड्यं ददाति परमं विचारार्कम् अपश्यतः
प्रसादाद् आत्मनो विष्णोर् मायेयम् अतिभासुरा । प्रबाधते न धीरांस् तु यक्षी मन्त्रवतो यथा
आत्मेच्छयैव घनतां समुपागतान्तर् आत्मेच्छयैव तनुताम् उपयाति काले । संसारजालरचनेयम् अनन्तमाया ज्वालेव वातकलयानघ पावकस्य
भगवन् सर्वधर्मज्ञ शुद्धैस् त्वद्वचनांशुभिः । निर्वृतास् स्मश् शशाङ्कस्य करैर् ओषधयो यथा
कर्णाभिवाञ्छ्यमानानि पवित्राणि मृदूनि च । भूषयन्ति गृहीतानि पुष्पाणीव वचांसि ते
पौरुषेण प्रयत्नेन सर्वम् आसाद्यते यदि । प्रह्लादस् तत् कथं बुद्धो न माधववरं विना
यद् यद् राघव सम्प्राप्तं प्रह्लादेन महात्मना । तत् तद् आसादितं तेन पौरुषाद् एव नान्यतः
आत्मा नारायणश् चैव न भिन्नौ तिलतैलवत् । तथैव शौक्ल्यपटवत् कुसुमामोदवत् तथा
यो हि विष्णुस् स एवात्मा यो ह्य् आत्मा स जनार्दनः । विष्ण्वात्मशब्दौ पर्यायौ यथा विटपिपादपौ
प्रह्लादनाम्ना प्रथमम् आत्मैव स्वयम् आत्मना । स्वयैव शक्त्या परया विष्णुभक्तौ नियोजितः
प्रह्लादो ह्य् आत्मनैवैतं वरम् अर्जितवान् स्वयम् । स्वयं विचारं कृतवान् स्वयं विजितवान् मनः
कदाचिद् आत्मनैवात्मा स्वयं शक्त्या विबोध्यते । कदाचिद् विष्णुदेहेन भक्तिलभ्येन बोध्यते
चिरम् आराधितो ऽप्य् एष परमप्रीतिमान् अपि । नाविचारवतो ज्ञानं दातुं शक्नोति माधवः
मुख्यः पुरुषयत्नोत्थो विचारस् स्वात्मदर्शने । गौणो वरादिको हेतुर् मुख्यहेतुपरो भव
पूर्वम् एव बलात् तस्माद् आक्रम्येन्द्रियपञ्चकम् । अभ्यासात् सर्वयत्नेन चित्तं कुरु विचारवत्
यद् यद् आसाद्यते किञ्चित् केनचित् क्वचिद् एव हि । स्वशक्तिसम्प्रवृत्त्या तल् लभ्यते नान्यतः क्वचित्
पौरुषं यत्नम् आश्रित्य प्रोल्लङ्घ्येन्द्रियपर्वतम् । संसारजलधिं तीर्त्वा पारं गच्छ परं पदम्
विना पुरुषयत्नेन दृश्यते चेज् जनार्दनः । मृगपक्षिगणं कस्मात् तद् असौ नोद्धरत्य् अजः
गुरुश् चेद् उद्धरत्य् अज्ञम् आत्मीयात् पौरुषाद् ऋते । उष्ट्रदान्तबलीवर्दांस् तत् कस्मान् नोद्धरत्य् असौ
न हरेर् न गुरोर् नार्थात् किञ्चिद् आसाद्यते महत् । आक्रान्तमनसस् स्वस्माद् यन् नासादितम् आत्मनः
अभ्यासवैराग्ययुताद् आक्रान्तेन्द्रियपन्नगात् । आत्मनः प्राप्यते यत् तत् प्राप्यते न जगत्त्रयात्
आराधयात्मनात्मानम् आत्मनात्मानम् अर्चय । आत्मनात्मानम् आलोक्य सन्तिष्ठ स्वात्मनात्मनि
शास्त्रयत्नविचारेभ्यो मूर्खाणां प्रपलायताम् । कल्पिता वैष्णवी भक्तिः प्रवृत्त्यर्थं शुभस्थितौ
अभ्यासयत्नौ प्रथमं मुख्यो विधिर् उदाहृतः । तदभावे तु गौणस् स्यात् पूज्यपूजामयः क्रमः