दलयिष्यति बाष्पश्रीर् नासुरीकर्णमञ्जरीम् । वनराजीम् इवौघोत्था सरित् तारतरङ्गिणी
अद्यप्रभृति संशान्तदानवामरसङ्गरम् । निर्मन्दराम्भोनिधिवज् जगत् स्वस्थम् अवस्थितम्
देवासुरकुटुम्बिन्यो भर्तृष्व् अन्तःपुरेषु च । स्वेष्व् एव यान्तु विश्वासम् अपरस्परम् आहृताः
भव बहुलनिशानितान्तनिद्रातिमिरम् अपास्य सदोदिताशयश्रीः । दनुसुत वनिताविलासरम्यां चिरम् अजिताम् उपभुङ्क्ष्व राज्यलक्ष्मीम्
इत्य् उक्त्वा पुण्डरीकाक्षस् सनरामरकिन्नरः । द्वितीय इव संसारश् चचालासुरमन्दिरात्
प्रह्लादादिविनिर्मुक्तैः पश्चात् पुष्पाञ्जलिव्रजैः । पूर्यमाणविहङ्गेशपाश्चात्याङ्गरुहोत्करः
क्रमात् क्षीरोदम् आसाद्य विसृज्य सुरवाहिनीम् । भोगिभोगासने तस्थौ श्वेताब्ज इव षट्पदः
भोगिभोगासने विष्णुश् शक्रस् स्वर्गे सहामरैः । पाताले दानवाधीश इति तस्थुर् गतज्वराः
एषा ते कथिता राम निश्शेषमलनाशिनी । प्राह्लादी बोधसम्प्राप्तिर् ऐन्दवद्रवशीतला
य एतां मानवा लोके बहुदुष्कृतिनो ऽपि हि । धिया विचारयिष्यन्ति ते प्राप्स्यन्त्य् अचिरात् पदम्
सामान्येन विचारेण क्षयम् आयाति दुष्कृतम् । योगवाक्यविचारेण को न याति परं पदम्
अज्ञानम् उच्यते पापं तद् विचारेण नश्यति । पापमूलच्छिदं तस्माद् विचारं न परित्यजेत्
इमां प्रह्लादसंसिद्धिं प्रविचारयतां नृणाम् । सप्तजन्मकृतं पापं क्षयम् आप्नोत्य् असंशयम्
परे पदे परिणतं पाञ्चजन्यस्वनैर् मनः । कथं प्रबुद्धं भगवन् प्रह्लादस्य महात्मनः
द्विविधा मुक्तता लोके सम्भवत्य् अनघाकृते । सदेहैका विदेहान्या विभागो ऽयं तयोश् शृणु
असंसक्तमतेर् यस्य त्यागादानेषु कर्मणाम् । नैषणा तत्स्थितिं विद्धि त्वं जीवन्मुक्तताम् इह
सैव देहक्षये राम पुनर्जननवर्जिता । विदेहमुक्तता प्रोक्ता तत्स्था नायान्ति दृश्यताम्
भृष्टबीजोपमा भूयोजन्माङ्कुरविवर्जिता । हृदि जीवद्विमुक्तानां शुद्धा भवति वासना
पावनी परमोदारा सत्त्वमात्रानुपातिनी । आत्मध्यानमयी नित्यं सुषुप्तस्थेव तिष्ठति
अपि वर्षसहस्रान्ते ते तयैवान्तरस्थया । सति देहे प्रबुध्यन्ते जीवन्मुक्ता रघूद्वह
प्रह्लादो ऽन्तस्स्थया शुद्धसत्त्ववासनया स्वया । बोधम् आप महाबाहो शङ्खशब्दावबुद्धया
हरिर् आत्मा हि भूतानां तस्य यत् प्रतिभासते । तत् तथैव भवत्य् आशु सर्वत्रात्मैव कारणम्
प्रबोधम् एतु प्रह्लादो यदैवेति विचिन्तितम् । निमेषाद् वासुदेवेन तदैव तद् उपस्थितम्
आत्मन्य् अकारणेनैव भूतानां कारणेन च । सृष्ट्यर्थं वपुर् आत्तं तद् वासुदेवीयम् आत्मना
आत्मावलोकनेनाशु माधवः परिदृश्यते । माधवाराधनेनाशु स्वयम् आत्मावलोक्यते
एतां दृष्टिम् अवष्टभ्य राघवात्मावलोकने । विहराशु विराडात्मा पदं प्राप्स्यसि शाश्वतम्
सुखासारवती राम संसारप्रावृड् आतता । जाड्यं ददाति परमं विचारार्कम् अपश्यतः
प्रसादाद् आत्मनो विष्णोर् मायेयम् अतिभासुरा । प्रबाधते न धीरांस् तु यक्षी मन्त्रवतो यथा
आत्मेच्छयैव घनतां समुपागतान्तर् आत्मेच्छयैव तनुताम् उपयाति काले । संसारजालरचनेयम् अनन्तमाया ज्वालेव वातकलयानघ पावकस्य
भगवन् सर्वधर्मज्ञ शुद्धैस् त्वद्वचनांशुभिः । निर्वृतास् स्मश् शशाङ्कस्य करैर् ओषधयो यथा