भावाभावविनिर्मुक्तो हेयोपादेयवर्जितः । एवम् आसम् अहं पूर्वम् अधुनेत्थम् अवस्थितः
शमम् आत्मीयम् आपन्नस् सर्वगात्मन् सतां गते । करोम्य् अहं महादेव तुभ्यं यत् परिरोचते
त्वम् अयं पुण्डरीकाक्ष पूज्यस् तावज् जगत्त्रये । तन् मत्तः प्रकृतप्राप्तां पूजाम् आदातुम् अर्हसि
इत्य् उक्त्वा दानवाधीशः पुरः क्षीरोदशायिनः । शैलेन्द्र इव पूर्णेन्दुम् अर्घपात्रम् उपाददे
सायुधं साप्सरोवृन्दं ससुरं सखगाधिपम् । पुजयाम् आस गोविन्दं सत्रैलोक्यम् अथाग्रगम्
सबाह्याभ्यन्तरक्रान्तभुवनं भुवनेश्वरम् । पूजयित्वोपविष्टं तम् उवाच कमलापतिः
उत्तिष्ठ दानवाधीश सिंहासनम् उपाश्रय । यावद् आश्व् अभिषेकं ते स्वयम् एव ददाम्य् अहम्
पाञ्चजन्यरवं श्रुत्वा य इमे समुपागताः । सिद्धास् साध्यास् सुरौघास् ते कुर्वन्तु तव मङ्गलम्
इत्य् उक्त्वा पुण्डरीकाक्षो दानवं सिंहविष्टरे । योजयाम् आस योगान्ते मेरुशृङ्ग इवाम्बुदम्
अथैनं हरिर् आहूतैः क्षिरोदाद्यैर् महाब्धिभिः । गङ्गादिभिस् सरित्पूरैस् सर्वतीर्थजलैस् तथा
सर्वविप्रर्षिसङ्घैश् च सर्वसिद्धगणैस् तथा । मुनिविद्याधरयुतो लोकपालसमन्वितः
अभ्यषिञ्चद् अमेयात्मा दैत्यराज्ये महासुरम् । मरुद्गणैस् स्तूयमाणं पूर्वसर्गे हरिं यथा
सुरासुरैस् स्तूयमानं स्तूयमानस् सुरासुरैः । अभिषिक्तम् उवाचेदं प्रह्लादं मधुसूदनः
यावन् मेरुर् धरा यावद् यावच् चन्द्रार्कमण्डले । अखण्डितगुणश्लाघी तावद् राजा भवानघ
इष्टानिष्टफलं त्यक्त्वा समदर्शनया धिया । वीतरागभयक्रोधो राज्यं समनुपालय
राज्ये ऽस्मिन् भोगसम्पूर्णे दृष्टानुत्तमभूमिना । न गन्तव्यस् त्वयोद्वेगस् स्वर्गे वा नरके ऽथ वा
देशकालक्रियाकारैर् यथाप्राप्तासु दृष्टिषु । प्रकृतं कार्यम् आतिष्ठंस् त्यक्तवासनम् आस्स्व भोः
अतिहेयतयादत्तं ममतापरिवर्जितम् । भावाभावे समं कार्यं कुर्वन्न् इह न बध्यसे
दृष्टसंसारपर्यायस् तुलितातुलतत्पदः । सर्वं सर्वत्र जानासि किम् अन्यद् उपदिश्यते
वीतरागभयक्रोधे त्वयि राजनि राजति । भूमिः पास्यति नेदानीं दुर्गृध्रीवासृग् आसुरम्
दलयिष्यति बाष्पश्रीर् नासुरीकर्णमञ्जरीम् । वनराजीम् इवौघोत्था सरित् तारतरङ्गिणी
अद्यप्रभृति संशान्तदानवामरसङ्गरम् । निर्मन्दराम्भोनिधिवज् जगत् स्वस्थम् अवस्थितम्
देवासुरकुटुम्बिन्यो भर्तृष्व् अन्तःपुरेषु च । स्वेष्व् एव यान्तु विश्वासम् अपरस्परम् आहृताः
भव बहुलनिशानितान्तनिद्रातिमिरम् अपास्य सदोदिताशयश्रीः । दनुसुत वनिताविलासरम्यां चिरम् अजिताम् उपभुङ्क्ष्व राज्यलक्ष्मीम्
इत्य् उक्त्वा पुण्डरीकाक्षस् सनरामरकिन्नरः । द्वितीय इव संसारश् चचालासुरमन्दिरात्
प्रह्लादादिविनिर्मुक्तैः पश्चात् पुष्पाञ्जलिव्रजैः । पूर्यमाणविहङ्गेशपाश्चात्याङ्गरुहोत्करः
क्रमात् क्षीरोदम् आसाद्य विसृज्य सुरवाहिनीम् । भोगिभोगासने तस्थौ श्वेताब्ज इव षट्पदः
भोगिभोगासने विष्णुश् शक्रस् स्वर्गे सहामरैः । पाताले दानवाधीश इति तस्थुर् गतज्वराः
एषा ते कथिता राम निश्शेषमलनाशिनी । प्राह्लादी बोधसम्प्राप्तिर् ऐन्दवद्रवशीतला
य एतां मानवा लोके बहुदुष्कृतिनो ऽपि हि । धिया विचारयिष्यन्ति ते प्राप्स्यन्त्य् अचिरात् पदम्