क्षीयते न क्षयं प्राप्ते वर्धमाने न वर्धते । न स्पन्दते स्पन्दमाने देहे ऽस्मिन् पुरुषः परः
देहस्याहम् अहं देह इति क्षीणे ऽपि ते भ्रमे । त्यजामि न त्यजामीति किं मृषा कलनोदिता
इदं कृत्वा करोमीदम् इदं त्यक्त्वेदम् आहरे । इति तत्त्वविदां तात सङ्कल्पास् सङ्क्षयं गताः
प्रबुद्धास् सर्वकर्तारः किं करिष्यन्ति वै नवम् । नवस्याकरणान् नित्यम् अकर्तृत्वपदं गताः
अकर्तृत्वाद् अभोक्तृत्वम् अर्थाद् एव समागतम् । सङ्गृहीतं किलानुप्तं केनेह भुवनत्रये
शान्ते कर्तृत्वभोक्तृत्वे शान्तिर् एव हि शिष्यते । प्रौढिम् अभ्यागता सैव मुक्तिर् इत्य् उच्यते बुधैः
प्रबुद्धाश् चिन्मयाश् शुद्धास् सर्वम् आक्रम्य संस्थिताः । किं त्यक्तं परिगृह्णन्तु किं गृहीतं त्यजन्तु वा
ग्राह्यग्राहकसम्बन्धः प्रमितावयविक्रमः । हीनः प्रमेयावयवैः किं गृह्णातु जहातु किम्
ग्राह्यग्राहकसम्बन्धे क्षीणे शान्तिर् उदेत्य् अलम् । स्थितिम् अभ्यागता सान्तर् मोक्षनाम्नाभिधीयते
तत्र स्थितास् सदा सन्तस् त्वादृशाः पुरुषोत्तमाः । सुषुप्तावयवस्पन्दसाधर्म्येण चरन्ति हि
परावबोधविश्रान्तवासना जागतीं स्थितिम् । अर्धसुप्ता इवेहेमां पश्यन्त्य् आत्मस्थया धिया
न रमन्ति हि रम्येषु स्वात्मन्य् एकगताशयाः । नोद्विजन्ते च दुःखेषु स्वात्मन्य् एकरसा यतः
नित्यप्रबुद्धा गृह्णन्ति कार्याणीमान्य् असङ्गिनः । मकुरा इव बिम्बानि यथाप्राप्तान्य् अवाञ्छया
जाग्रति स्वात्मनि स्वस्थास् सुप्तास् संसारसंस्थितौ । बालवत् प्रविचेष्टन्ते सुषुप्तसदृशाशयाः
त्वम् अजितपदवीम् उपागतो ऽन्तः कमलजवासरम् एकम् एव भुक्त्वा । गुणगणकलिताम् इहैव लक्ष्मीं व्रज परमास्पदम् अच्युतं महात्मन्
जगद्रत्नसमुद्गेन त्रैलोक्याद्भुतदर्शिना । इत्य् उक्ते पद्मनाभेन ज्योत्स्नाशीतलया गिरा
प्रह्लादनामा देहो ऽसौ विकासिनयनाम्बुजः । मृदूवाच वचो धीरो गृहीतमननक्रमः
चिरम् अन्तर् मया देव दृष्टो ऽस्य् अमलया धिया । पुनर् बहिर् अयं दृष्ट्या दिष्ट्या देवेश दृश्यसे
अहम् आसम् अनन्तायाम् अस्यां दृशि महेश्वर । सर्वसङ्कल्पमुक्तायां व्योम व्योम्नीव निर्मले
न शोकेन न मोहेन न च वैराग्यचिन्तया । न देहत्यागकार्येण न संसारभयेन च
एकस्मिन् विद्यमाने हि कुतश् शोकः कुतः क्षतिः । कुतो देहः क्व संसारः क्व स्थितिः क्व भयाभये
यथेच्छयैवामलया केवलं स्वसमुत्थया । एवं देवाहम् अवसं वितते पावने पदे
हा विरक्तो ऽस्मि संसारं त्यजामीत्य् आशयेश्वर । अप्रबुद्धधियां चिन्ता हर्षशोकविकारदा
देहाभावे न दुःखानि देहे दुःखानि मे सति । इति चिन्ताविषव्याली मूर्खम् एवावलुम्पते
इदं सुखम् इदं दुःखम् इदं नास्तीदम् अस्ति मे । इति दोलायितं चेतो मूढम् एव न पण्डितम्
अयम् अन्यो ऽन्य एवाहम् इत्य् अज्ञानान्धवासनाः । दूरोदस्तास् सुबुद्धीनां रजन्यो ऽंशुमताम् इव
इदं त्याज्यम् इदं ग्राह्यम् इति मिथ्या मनोभ्रमः । नोन्मत्ततां नयत्य् अन्तर् ज्ञम् अज्ञम् इव दुर्धियम्
सर्वस्मिन्न् आत्मनि तते त्वयि तामरसेक्षण । हेयोपादेयपक्षस्था द्वितीया कलना कुतः
विज्ञानाभासम् अखिलं जगत् सदसतोस् स्थितम् । किं हेयं किम् उपादेयम् इति यत् त्यज्यते न वा
केवलं स्वस्वभावेन द्रष्टृदृश्ये विचारयन् । क्षणं विश्रान्तवान् अन्तर् अहम् आत्मात्मनात्मनि