यस्य नोत्क्रामति मतिस् स्वात्मतत्त्वावलोकनात् । यथार्थदर्शिनो ज्ञस्य जीवितं तस्य शोभते
यस्य नाहङ्कृतो भावो बुद्धिर् यस्य न लिप्यते । यस् समस् सर्वभावेषु जीवितं तस्य शोभते
यो ऽन्तश्शीतलया बुद्ध्या रागद्वेषविमुक्तया । साक्षिवत् पश्यतीदं हि जीवितं तस्य शोभते
येन सम्यक् परिज्ञाय हेयोपादेयम् उज्झता । चित्तस्यान्ते ऽर्पितं चित्तं जीवितं तस्य शोभते
अवस्तुसदृशे वस्तुन्य् अस्तसङ्कल्पनामले । येनालीनं कृतं चेतो जीवितं तस्य शोभते
सत्यां दृष्टिम् अवष्टभ्य लीलयेयं जगत्क्रिया । क्रियते ऽवासनं येन जीवितं तस्य शोभते
नान्तस् तुष्यति नोद्वेगम् एति यो विहरन्न् अपि । हेयोपादेयसम्प्राप्तौ जीवितं तस्य शोभते
शुद्धपक्षश् च शुद्धश् च हंसौघस् सरसो यथा । यस्माद् गुणौघो निर्याति जीवितं तस्य शोभते
यस्मिञ् श्रुतिपथं याते दृष्टे स्मृतिम् उपागते । आनन्दं यान्ति भूतानि जीवितं तस्य शोभते
यस्योदयेन हृदयेषु जनाम्बुजानि जीवालिमन्ति सकलानि विकासवन्ति । तस्यावभाति चिरजीवितम् अक्षयेन्दोर् आपूर्णतेव दनुजेश्वर नेतरस्य
स्थैर्यं देहस्य दृष्टस्य जीवितं प्रोच्यते बुधैः । देहान्तरार्थं देहस्य सन्त्यागो मरणं स्मृतम्
द्वाभ्याम् एवासि पक्षाभ्याम् आभ्यां मुक्तो महामते । किं ते मरणम् अस्तीह किं वा जीवितम् अस्ति ते
निदर्शनार्थम् एतत् तु मयोक्तम् अरिमर्दन । न त्वं जीवसि सर्वज्ञ म्रियसे न कदाचन
देहसंस्थो ऽप्य् अदेहत्वाद् अदेहो ऽसि विदेहदृक् । व्योमसंस्थो ऽप्य् असक्तत्वाद् अव्योमैव हि मारुतः
स्पर्शसम्बोधकारित्वाद् देह एवासि सुव्रत । उत्सेधारोधकत्वेन खम् उत्सेधस्य कारणम्
प्रबुद्धो ज्ञातवस्तुत्वाद् एव त्वम् असि नासि च । इयत्तैकपरिच्छिन्नं रूपम् अज्ञेषु दुःखितम्
सर्वदा सर्वम् एवासि चित्प्रकाशपरैकधीः । को देहः को ऽप्य् अदेहस् ते यं गृह्णासि जहासि वा
समुदेतु वसन्तो वा वातु वा प्रलयानिलः । भावाभावविहीनस्य किम् अभ्यागतम् आत्मनः
प्रलुठत्स्व् अपि शैलेषु कल्पाग्निषु दहत्स्व् अपि । वहत्सूत्पातवातेष्व् अप्य् आत्मात्मन्य् एव तिष्ठति
सर्वभूतानि तिष्ठन्तु समम् एव प्रयान्तु वा । नश्यन्तु वाथ वर्धन्ताम् आत्मात्मन्य् एव तिष्ठति
क्षीयते न क्षयं प्राप्ते वर्धमाने न वर्धते । न स्पन्दते स्पन्दमाने देहे ऽस्मिन् पुरुषः परः
देहस्याहम् अहं देह इति क्षीणे ऽपि ते भ्रमे । त्यजामि न त्यजामीति किं मृषा कलनोदिता
इदं कृत्वा करोमीदम् इदं त्यक्त्वेदम् आहरे । इति तत्त्वविदां तात सङ्कल्पास् सङ्क्षयं गताः
प्रबुद्धास् सर्वकर्तारः किं करिष्यन्ति वै नवम् । नवस्याकरणान् नित्यम् अकर्तृत्वपदं गताः
अकर्तृत्वाद् अभोक्तृत्वम् अर्थाद् एव समागतम् । सङ्गृहीतं किलानुप्तं केनेह भुवनत्रये
शान्ते कर्तृत्वभोक्तृत्वे शान्तिर् एव हि शिष्यते । प्रौढिम् अभ्यागता सैव मुक्तिर् इत्य् उच्यते बुधैः
प्रबुद्धाश् चिन्मयाश् शुद्धास् सर्वम् आक्रम्य संस्थिताः । किं त्यक्तं परिगृह्णन्तु किं गृहीतं त्यजन्तु वा
ग्राह्यग्राहकसम्बन्धः प्रमितावयविक्रमः । हीनः प्रमेयावयवैः किं गृह्णातु जहातु किम्
ग्राह्यग्राहकसम्बन्धे क्षीणे शान्तिर् उदेत्य् अलम् । स्थितिम् अभ्यागता सान्तर् मोक्षनाम्नाभिधीयते
तत्र स्थितास् सदा सन्तस् त्वादृशाः पुरुषोत्तमाः । सुषुप्तावयवस्पन्दसाधर्म्येण चरन्ति हि