जीवन्मुक्तेन भवता राज्य एवेह तिष्ठता । क्षपणीया गतोद्वेगम् आकल्पान्तम् इयं तनुः
तनौ कल्पान्तशीर्णायां स्वे महिम्नि त्वयानघ । वस्तव्यं स्फुटिते कुम्भे कुम्भाकाशेन खे यथा
कल्पान्तस्थायिनी शुद्धा दृष्टलोकपरावरा । इयं तव तनुर् जाता जीवन्मुक्तिविलासिनी
नोदिता द्वादशादित्या न विलीनास् शिलोच्चयाः । न जगज् ज्वलितं साधो तनुं त्यजसि किं मुधा
वायुर् वहति नोन्मत्तस् त्रिलोकीभस्मधूसरः । लोलामरकपालाङ्कस् तनुं त्यजसि किं मुधा
अशोक इव मञ्जर्यः पुष्करावर्तविद्युतः । न स्फुरन्ति जगत्कोशे तनुं त्यजसि किं मुधा
धारासाररणच्छैलाः प्रज्वलज्ज्वलनोज्ज्वलाः । ककुभो न विशीर्यन्ते तनुं त्यजसि किं मुधा
न ब्रह्मविष्णुरुद्राख्यत्रयशेषम् इदं जगत् । स्थितं जरढजीमूतं तनुं त्यजसि किं मुधा
स्फुटदद्रीन्द्रटाङ्कारकरालाराववन्ति खे । कल्पाभ्राणि न गर्जन्ति तनुं त्यजसि किं मुधा
अहं भूतावकीर्णासु सालोकासु खगध्वजः । विहरामि दशाशासु मा देहम् अवधीरय
इमे वयम् इमे शैला भूतानीमान्य् अयं भवान् । इदं जगद् इदं व्योम मा देहम् अवधीरय
पीवराज्ञानयोगेन यस्य पर्याकुलं मनः । दुःखानि विनिकृन्तन्ति मरणं तस्य राजते
कृशो ऽतिदुःखी मूढो ऽहम् एताश् चान्याश् च भावनाः । मतिं यस्यावलुम्पन्ति मरणं तस्य राजते
आशापाशनिबद्धो ऽन्तर् इतश् चेतश् च नीयते । यो विलोलमनोवृत्त्या मरणं तस्य राजते
यस्य तृष्णाः प्रभञ्जन्ति हृदयं हृतभावनाः । कुगेहम् इव गर्गट्यो मरणं तस्य राजते
चित्तवृत्तिलता यस्य तालोत्तालमनोवने । फलिता सुखदुःखाभ्यां मरणं तस्य राजते
रोमराजिलताजालं यस्येमं देहदुर्द्रुमम् । अनर्थौघो हरत्य् उच्चैर् मरणं तस्य राजते
यस्य स्वदेहविपिनम् आधिव्याधिदवाग्नयः । दहन्ति लोलाङ्गलतं मरणं तस्य राजते
कामकोपात्मको यस्य स्फुरत्य् अजगरस् तनौ । अन्तश् शुष्कद्रुमस्येव मरणं तस्य राजते
यो ऽयं देहपरित्यागस् तल् लोके मरणं स्मृतम् । न सता नासता तेन कारणं वेद्यवेदिनाम्
यस्य नोत्क्रामति मतिस् स्वात्मतत्त्वावलोकनात् । यथार्थदर्शिनो ज्ञस्य जीवितं तस्य शोभते
यस्य नाहङ्कृतो भावो बुद्धिर् यस्य न लिप्यते । यस् समस् सर्वभावेषु जीवितं तस्य शोभते
यो ऽन्तश्शीतलया बुद्ध्या रागद्वेषविमुक्तया । साक्षिवत् पश्यतीदं हि जीवितं तस्य शोभते
येन सम्यक् परिज्ञाय हेयोपादेयम् उज्झता । चित्तस्यान्ते ऽर्पितं चित्तं जीवितं तस्य शोभते
अवस्तुसदृशे वस्तुन्य् अस्तसङ्कल्पनामले । येनालीनं कृतं चेतो जीवितं तस्य शोभते
सत्यां दृष्टिम् अवष्टभ्य लीलयेयं जगत्क्रिया । क्रियते ऽवासनं येन जीवितं तस्य शोभते
नान्तस् तुष्यति नोद्वेगम् एति यो विहरन्न् अपि । हेयोपादेयसम्प्राप्तौ जीवितं तस्य शोभते
शुद्धपक्षश् च शुद्धश् च हंसौघस् सरसो यथा । यस्माद् गुणौघो निर्याति जीवितं तस्य शोभते
यस्मिञ् श्रुतिपथं याते दृष्टे स्मृतिम् उपागते । आनन्दं यान्ति भूतानि जीवितं तस्य शोभते
यस्योदयेन हृदयेषु जनाम्बुजानि जीवालिमन्ति सकलानि विकासवन्ति । तस्यावभाति चिरजीवितम् अक्षयेन्दोर् आपूर्णतेव दनुजेश्वर नेतरस्य