जीवन्मुक्तसमाधिस्थः करोत्व् असुरनाथताम् । मणिर् मुक्तमनस्कारः प्रतिबिम्बक्रियाम् इव
न विनश्यति सर्गो ऽयम् एवं सह सुरासुरैः । भविष्यति च नाद्वन्द्वं तन् मे क्रीडा भविष्यति
सर्गक्षयोदयाव् एतौ सुसमौ मम यद्य् अपि । तथापीदं यथासंस्थं भवत्व् अन्येन किं मम
भावाभावेषु यत् तुल्यं तन्नाशे तत्स्थितौ च वा । यः प्रयत्नः कुबुद्धित्वात् तद् व्योमहननं भवेत्
तस्मात् प्रयामि पातालं बोधयाम्य् असुरेश्वरम् । स्थैर्यं नयामि संसारं लीलां सम्पादयाम्य् अहम्
असुरपुरम् अवाप्य प्रोद्धताचारघोरं कमलम् इव विवस्वान् दैत्यम् उद्बोधयामि । जगद् इदम् अखिलास्थं स्थैर्यम् अभ्यानयामि घनविधिर् इव शैले चञ्चलं मेघजालम्
इति सञ्चिन्त्य सर्वात्मा क्षीरोदाद् राम तत्पुरम् । चचाल परिवारेण सह साभ्र इवाचलः
क्षीरोदतलरन्ध्रेण तेनैव स्तम्भिताम्भसा । प्रह्लादनगरं प्राप शक्रलोकम् इवापरम्
हेममन्दिरकोशस्थं ददर्शात्रासुरं हरिः । अथ शैलगुहालीनं समाधिस्थम् इवाब्जजम्
तत्र ते तेजसा दैत्या वैष्णवेनावधूनिताः । दूरं ययुर् दिनेशांशुवित्रस्ता इव कौशिकाः
द्वित्रैस् सहासुरैर् मुख्यैः परिवारयुतो हरिः । प्रविवेशासुरगृहं तारावान् इव खं शशी
वैनतेयासनस्थो ऽसौ लक्ष्मीविधुतचामरः । स्वायुधादिपरीवारो देवर्षिपरिवन्दितः
महात्मन् सम्प्रबुध्यस्वेत्य् एवं विष्णुर् उदाहरन् । पाञ्चजन्यं प्रदध्वान ध्वनयन् ककुभां गणम्
महता तेन शब्देन वैष्णवप्राणजन्मना । तुल्यकालं परिक्षुब्धकल्पाभ्रार्णवरंहसा
आसुरी जनता भूमौ पपातागतसम्भ्रमा । मत्तनीलाभ्रनादेन राजहंसावली यथा
जहृषे जनितानन्दा वैष्णवी वीतसम्भ्रमा । जनता जलदध्वानफुल्लेव कुटजावली
बभूव सम्प्रबुद्धात्मा दानवेशश् शनैश् शनैः । मेघारवलसत्पुष्पः कदम्ब इव कानने
ब्रह्मरन्ध्रकृतोत्थाना प्राणशक्तिर् अथासुरम् । शनैर् आक्रमयाम् आस गङ्गा सर्वम् इवार्णवम्
क्षणाद् आक्रमयाम् आस प्राणश्रीस् सर्वतो ऽसुरम् । उदयानन्तरं सौरी प्रभेव भुवनान्तरम्
प्राणेषु रन्ध्रनवके प्रवृत्तेष्व् अथ तस्य चित् । चेत्योन्मुखी बभूवान्तः प्राणदर्पणबिम्बिता
चेतनीयोन्मुखे चित्त्वे चिन् मनस्ताम् उपाययौ । द्वित्वं मकुरसङ्क्रान्ता मुखश्रीर् इव राघव
किञ्चिद् अङ्कुरिते चित्ते नेत्रे विकसनोन्मुखे । शनैर् बभूवतुस् तस्य प्रातर् नीले यथोत्पले
प्राणापानपरामृष्टनाडीविवरसंविदः । वातार्तस्येव पद्मस्य स्पन्दो ऽस्य समजायत
निमेषान्तरमात्रेण मनः पीवरतां ययौ । तस्मिन् प्राणवशात् पूर्णे तरङ्ग इव वारिणि
अथासौ विकसन्नेत्रमनःप्राणवपुर् बभौ । अर्धोदित इवादित्ये सरस् स्फुरितपङ्कजम्
तस्मिन्न् अवसरे यावद् बुध्यस्वेत्य् अवदत् प्रभुः । प्रबुद्धस् तावद् एषो ऽभूद् बर्ही घनरवाद् इव
प्रफुल्तनयनं जातमननं पीवरस्मृतिम् । उवाचैनं त्रिलोकेशः पुरा नाभ्यब्जजं यथा
साधो स्मर महालक्ष्मीम् आत्मीयां स्मर चाकृतिम् । अकाण्ड एव किं देहविरामः क्रियते त्वया
हेयोपादेयसङ्कल्पविहीनस्य शरीरगैः । भावाभावैस् तवार्थः कस् तिष्ठोत्तिष्ठस्व सम्प्रति
स्थातव्यम् इह देहेन कल्पं यावद् अनेन ते । वयं हि नियतिं विद्मो यथाभूताम् अनिन्दित