वीतशोकभयायासो निरीहश् छिन्नसंशयः । जगाम शिखरं मेरोस् समाध्यर्थम् अनिन्दितम्
तत्र वर्षसहस्राणि निर्विकल्पसमाधिना । दश स्थित्वा शशामासाव् आत्मन्य् अस्नेहदीपवत्
व्यपगतकलनाकलङ्कशुद्धस् स्वयम् अमलात्मनि पावने पदे ऽसौ । सलिलकण इवाम्बुधौ महात्मा विगलितभेदम् अथैकतां जगाम
तस्य व्यासतनूजस्य मतिमात्रापमार्जनम् । यथोपयुक्तं ते राम तावद् एवोपयुज्यते
ज्ञेयम् एतेन विज्ञातम् अशेषेणावनीश्वर । स्वदन्ते ऽस्मै न यद् भोगा रोगा इव सुमेधसे
ज्ञातज्ञेयस्य मनसो नूनम् एतद् धि लक्षणम् । न स्वदन्ते समग्राणि भोगवृन्दानि यत् पुनः
भोगभावनया याति बन्धो दार्ढ्यम् अवस्तुजः । तयैव शान्तया याति बन्धो जगति तानवम्
वासनातानवं राम मोक्ष इत्य् उच्यते बुधैः । पदार्थवासनादार्ढ्यं बन्ध इत्य् अभिधीयते
आत्मतत्त्वाभिगमनं भवति प्रायशो नृणाम् । पुनर् विषयवैरस्यं कदर्थाद् उपजायते
सम्यक् पश्यति यस् तज्ज्ञो ज्ञातज्ञेयस् तु पण्डितः । न स्वदन्ते बलाद् एव तस्मै भोगा महात्मने
यशःप्रभृतिना यस्मै हेतुनैव विना पुनः । भुवि भोगा न रोचन्ते स जीवन्मुक्त उच्यते
ज्ञेयं यावन् न विज्ञातं तावत् तात न जायते । विषयेष्व् अरतिर् जन्तोर् मरुभूमौ लता यथा
अत एव हि विज्ञातज्ञेयं विद्धि रघूद्वह । यद् एनं रञ्जयन्त्य् एता न रम्या भोगभूमयः
रामो यद् एतज् जानाति तद् वस्त्व् इत्य् एव सन्मुखात् । आकर्ण्य चित्तविश्रामो राघवस्योपजायते
केवलं केवलीभावविश्रान्तिं समपेक्षते । रामबुद्धिश् शरल्लक्ष्मीर् जलविश्रमणं यथा
अत्रास्य चित्तविश्रान्त्यै राघवस्य महात्मनः । युक्तिं कथयतु श्रीमान् वसिष्ठो भगवान् अयम्
रघूणाम् एष सर्वेषां प्रभुः कुलगुरुस् सदा । सर्वज्ञस् सर्वदर्शी च त्रिकालामलदर्शनः
वसिष्ठ भगवन् पूर्वं कच्चित् स्मरसि यत् स्वयं । आवयोर् वैरशान्त्यर्थं श्रेयसे च महात्मनाम्
निषधाद्रेर् मुनीनां च सानौ सरलसङ्कुले । उपदिष्टं भगवता ज्ञानं पद्मभुवा बहु
येन युक्तिमता ब्रह्मञ् ज्ञानेनेयं हि वासना । संसारी नूनम् आयाति शमं श्यामेव भास्वता
तद् एव युक्तिमज् ज्ञेयं रामायान्तेनिवासिने । ब्रह्मन्न् उपदिशाशु त्वं येन विश्रान्तिम् एष्यति
कदर्थना च नैवैषा रामो हि गतकिल्बिषः । निर्मले मकुरे वक्त्रम् अयत्नेनैव बिम्बति
तज् ज्ञानं स च शास्त्रार्थस् तद् वैदग्ध्यम् अखण्डितम् । सच्छिष्याय विरक्ताय साधो यद् उपदिश्यते
अशिष्यायाविरक्ताय यत् किञ्चिद् उपदिश्यते । तत् प्रयात्य् अपवित्रत्वं गोक्षीरं श्वदृताव् इव
वीतरागभयक्रोधा निर्ममा गलितैनसः । वदन्ति त्वादृशा यत् तु तत्र विश्राम्यतीह धीः
इत्य् उक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः । मुनयस् ते तम् एवार्थं साधु साध्व् इत्य् अपूजयन्
अथोवाच महातेजा राज्ञः पार्श्वे व्यवस्थितः । ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भगवान् मुनिः
मुने यद् आदिशसि मे तद् अविघ्नं करोम्य् अहम् । कस् समर्थस् समर्थो ऽपि सतां लङ्घयितुं वचः
अहं हि राजपुत्राणां रामादीनां मनस्तमः । ज्ञानेनापनयाम्य् अद्य दीपेनेव निशातमः
स्मराम्य् अखण्डितं सर्वं संसारभ्रमशान्तये । निषधाद्रौ पुरा प्रोक्तं यज् ज्ञानं पद्मजन्मना