न प्रापुर् विकसद्रूपं पतिं तत्रामरारयः । लसत्पत्त्रप्रभाजालं निशि पद्मम् इवालयः
संविद्वातो न तस्यान्तर् अबुध्यत विचेतसः । भुवश् चेष्टाक्रम इव पौरुषो गतभास्वतः
अथोद्विग्नेषु दैत्येषु गतेष्व् अभिमता दिशः । विचरत्सु यथाकामम् अराजनि पुरे पुरे
पातालमण्डलम् अभूद् अभूपालतया तया । मात्स्यन्यायविपर्यस्तम् अस्तङ्गतगुणक्रमम्
बलिभुक्ताबलपुरं मर्यादाक्रमवर्जितम् । सर्वगाशेषवनितं परस्परहतासुरम्
प्रलापाक्रन्दपरुषं विसंस्थानपुरान्तरम् । लुठदुद्याननगरं व्यर्थानर्थकदर्थितम्
चिन्तापरासुरगणं निरन्नफलबान्धवम् । अकाण्डोत्पातविवशं ध्वस्ताशामुखमण्डलम्
सुरार्भकपराभूतं भूतैर् आक्रान्तम् अन्यजैः । भूतरिक्तम् अलक्ष्मीकम् उत्सन्नप्रायकोटरम्
अनियतवनितार्थमत्तयुद्धं हृतधनदारविरावितं समन्तात् । कलियुगसमयोद्भटोदराभं तद् असुरमण्डलम् आकुलं बभूव
अथाखिलजगज्जालक्रमपालनदेवनः । क्षीरोदनगरे शेषशय्यासनगतो हरिः
प्रावृण्निद्राव्युपरमे देवार्थम् अरिसूदनः । धिया विलोकयाम् आस कदाचिज् जागतीं स्थितिम्
त्रैविष्टपं स्वमनसा पार्थिवं चावलोक्य सः । आचारम् आजगामाशु पातालम् अरिपालितम्
तत्र स्थिरसमाधानस्थिते प्रह्लाददानवे । दृष्ट्वापदम् अरीन्द्रस्य पुरे प्रौढिम् उपागताम्
व्यालतल्पतलस्थस्य क्षीरोदार्णवशायिनः । शङ्खचक्रगदापाणेर् देहस्यान्तरचारिणा
पद्मासनस्थस्य मनश्शरीरेणातिभास्वता । इदं सञ्चिन्तयाम् आस त्रैलोक्याब्जमहालिना
प्रह्लादे पदविश्रान्ते पाताले गतनायके । कष्टं सृष्टिर् इयं प्रायो निर्दैत्यत्वम् उपागता
दैत्याभावे सुरश्रेणी निर्जिगीषुपदं गता । शमम् एष्यत्य् अदृष्टाब्दपटलेव सरिद् वरा
मोक्षाख्यं विगतद्वन्द्वं ततो यास्यति तत् पदम् । क्षीणाभिमाना विरसा लतेव परिशुष्कताम्
देवौघे शान्तिम् आयाते भुवि यज्ञतपःक्रियाः । अदेवत्वफलास् सर्वाश् शमम् एष्यन्त्य् असंशयम्
क्रियास्व् अथोपशान्तासु भूलोको ऽस्तम् उपैष्यति । असंसारप्रसङ्गो ऽथ शेषो ऽप्य् अर्थो भविष्यति
आकल्पान्तं त्रिभुवनं यद् इदं निर्मितं मया । लयम् एष्यत्य् अकाले तत् तापे हिमकणो यथा
किम् एवम् अस्मिन्न् आभासे विलीय क्षयम् आगते । कृतं मयेह भवति स्वलीलाक्षयकारिणा
ततो ऽहम् अपि शून्ये ऽस्मिन् नष्टचन्द्रार्कतारके । वपुःप्रशान्तिम् आदाय स्थितिम् एष्यामि तत्पदे
अकाण्ड एवम् एवं हि जगत्य् उपशमं गते । नेह श्रेयो ऽनुपश्यामि मन्ये जीवन्तु दानवाः
दैत्योद्वेगेन विबुधास् ततो यज्ञतपःक्रियाः । तेन संसारसंस्थानम् असंसारक्रमो ऽन्यथा
तस्माद् रसातलं गत्वा यथावत् स्थापयाम्य् अहम् । स्वे क्रमे दानवाधीशम् ऋतुः पुनर् इव द्रुमम्
विना प्रह्लादम् अथ चेद् इतरं दानवेश्वरम् । करोमि तद् असौ मन्ये देवान् उत्सादयिष्यति
प्रह्लादस्य त्व् अयं देहः पश्चिमः पावनो महान् । आकल्पम् इह वस्तव्यं देहेनानेन तेन च
एवं हि नियतिर् दैवी निश्चिता पारमेश्वरी । प्रह्लादेन यथाकल्पं स्थातव्यम् इह देहिना
तस्मात् तम् एव गत्वाशु दैत्येन्द्रं बोधयाम्य् अहम् । गर्जन् गिरिदरीसुप्तं मयूरम् इव वारिदः