असत् तद् अनभिव्यक्तं पदार्थानां प्रकाश्यते । त्वया तत्त्वं यथा पक्त्रा मांसानां स्वादवेदनम्
विद्यमानापि वस्तुश्रीर् न स्थिता त्वयि न स्थिते । वनितारूपलावण्यसत्तेव गतचक्षुषः
सद् अपीह न सत्तायै वस्तु नाकलितं त्वया । तुष्टये न स्वलावण्यं मकुराप्रतिबिम्बितम्
लुठति त्वां विना देहः काष्ठलोष्टसमः क्षितौ । सन्न् अप्य् असत्तयैवात्तो यामास्व् इव रविं विना
सुखदुःखक्रमः प्राप्य भवन्तं परिनश्यति । प्राकाश्यम् आसाद्य यथा तमस् तेजो ऽथ वा हिमम्
त्वदालोकनयैवैते स्थितिं यान्ति सुखादयः । सूर्यालोकनया प्रातर् वर्णाश् शुक्लादयो यथा
लब्धात्मानो विनश्यन्ति सम्बन्धक्षण एव ते । ते तमांसीव दीपस्य दृष्टाव् एव व्रजन्त्य् अलम्
तमस्ता तमसो दीपासत्तायां स्फुटतां गता । दीपसम्बन्धसमये सा चोत्पत्य विनश्यति
तथैव सुखदुःखश्रीर् दृष्ट्वैव त्वाम् अनामयम् । जायते जातमात्रैव सर्वनाशेन नश्यति
भङ्गुरत्वाद् इह स्थातुं कालं नाणुम् अपि क्षमा । निमेषलक्षभागाख्या तन्वी कालकला यथा
गत्वरी नश्वरी तन्वी सुखदुःखादिभावना । स्फुरति त्वत्प्रसादेन त्वयि दृष्टे विलीयते
त्वदालोकक्षणोद्भूता त्वदालोकक्षणक्षया । मृतैव जाता जातैव मृता केनोपलक्ष्यते
क्षणम् अप्य् अस्थिरं वस्तु कथं कार्यकरं भवेत् । तरङ्गैर् उत्पलाकारैर् माला कथम् इवोम्भ्यते
यदि जातविनिर्नष्टं क्रियां वस्त्व् अकरिष्यत । तदारंस्यत लोको ऽयं मालां कृत्वा तडिद्गुणैः
इमां सुखादिकां लक्ष्मीं विवेकिजनचेतसि । स्थितस् सन् नैव गृह्णासि न जहासि समस्थिते
अविवेकिनि यो ऽसि त्वं स भवात्मन् यदृच्छया । तद्रूपकथनेनालं ममामलपदास्पद
निरीहेण निरंशेन निरहङ्कृतिना त्वया । सतैवाप्य् असतेवापि कर्तृत्वम् उररीकृतम्
जय प्रोड्डामराकार जय शान्तिपरायण । जय सर्वागमातीत जय सर्वागमास्पद
जय जात जयाजात जय क्षत जयाक्षत । जय भाव जयाभाव जय जेय जयाजय
उल्लसाम्य् उपशाम्यामि तिष्ठाम्य् अतिगतो ऽस्मि च । जयी जयामि जीवामि नमो मह्यं नमो ऽस्तु ते
त्वयि स्थिते मयि विगतामयात्मनि स्वसंस्थितौ व्यपगतरागरञ्जने । क्व बन्धवः क्व च विपदः क्व सम्पदो भवाभवौ क्व शमम् उपैमि शाश्वतम्
इति सञ्चिन्तयन्न् एव प्रह्लादः परवीरहा । निर्विकल्पं परानन्दसमाधिं समुपाययौ
निर्विकल्पसमाधिस्थश् चित्रार्पित इवाचलः । शैलाद् इव समुत्कीर्णो बभौ स्वपदम् आस्थितः
तथाथ तिष्ठतस् तस्य कालो बहुतरो ययौ । स्वे गृहे भुवनस्थस्य मेरोर् इव सुरद्विषः
बोधितो ऽप्य् असुराधीशैर् नाबुध्यत महामतिः । अकाले बहुसेको ऽपि बीजकोशाद् इवाङ्कुरः
पञ्चवर्षसहस्राणि पीनांसो ऽतिष्ठद् एकदृक् । शान्त एवासुरपुरे मत्तार्णव इवोपलः
परानन्ददशैकान्तपरिणामितया तया । निरानन्दम् अनाभासम् इवाभासपदं गतः
एतावताथ कालेन तद्रसातलमण्डलम् । बभूवाराजकं तीक्ष्णमात्स्यन्यायकदर्थितम्
हिरण्यकशिपौ क्षीणे समाधौ तत्सुते स्थिते । न बभूवापरः कश्चिद् राजा दनुसुतालये
असुरेशार्थिनां तेषां दानवानां समाधितः । परेणापि प्रयत्नेन प्रह्लादो न व्यबुध्यत