अयं संविद्वपुर् अहं न क्वचिन् न कृतास्पदः । देहः पततु वोदेतु स्वयाभिमतयेच्छया
चिराद् अहम् अहं जातस् स्वात्मलाभश् चिराद् अयम् । चिराद् उपशमं यामि कल्पस्यान्ते जगद् यथा
चिरात् संसारगामित्वाद् दीर्घसंसारवर्त्मनि । विश्रान्तो ऽस्मि चिरश्रान्तः कल्पस्यान्त इवानिलः
सर्वातीताय सर्वाय तुभ्यं मह्यं नमो नमः । तेभ्यो ऽपि च नमो ऽस्त्व् एव ये त्वां मां प्रवदन्ति वा
अखिलानन्तसम्भोगा न स्पृष्टा दोषदृष्टिभिः । जयत्य् अकृतसम्भारा साक्षिता परमात्मनः
आत्मन् पुष्प इवामोदश् शस्त्रपिण्ड इवानलः । तिले तैलम् इवास्मिंस् त्वं सर्वत्र वपुषि स्थितः
हंसि पासि ददासि त्वम् अवस्फूर्जसि वल्गसि । अनहङ्कृतिरूपो ऽपि चित्रेयं तव मायिता
जयसीश ज्वलद्दीप्तिस् सर्वम् उन्मीलयञ् जगत् । जयस्य् अपगतारम्भं जगद् भूयो निमीलयन्
परमाणोस् तवैवान्तर् इदं संसारमण्डलम् । वटश् च वटधानायां बभूवास्ति भविष्यति
हयद्विपरथाकारैर् यद्वत् खे दृश्यते ऽम्बुदः । तद्वद् आलक्ष्यसे देव पदार्थशतविभ्रमैः
भवानां भूरिभङ्गानाम् अभावाय भवाधिपः । भव भावविमुक्तात्मा भावाभावबहिष्कृतः
जहि मानं मदं कोपं कालुष्यं क्रूरतां तथा । न महान्तो निमज्जन्ति प्राकृते गुणसङ्कटे
प्राक्तनीर् दीर्घदौरात्म्यदशास् स्मृत्वा पुनः पुनः । को ऽहं किं तद् बभूवेति हस मुक्ताच्छटासितम्
ते प्रयातास् समारम्भा गतास् ते दग्धवासराः । येषु चिन्तानलज्वालाजालजीर्णो भवान् अभूत्
अद्य त्वं देहनगरे राजा स्फारमनोरथः । न दुःखैर् गृह्यसे नापि सुखैर् व्योम करैर् इव
अद्येन्द्रियदुरश्वांस् त्वं जित्वा जितमनोगजः । भोगारीन् अभितो भङ्क्त्वा साम्राज्यम् अधितिष्ठसि
अपाराम्बरपान्थस् त्वम् अजस्रास्तमयोदयः । अवभासकरो नित्यं बहिर् अन्तश् च भास्करः
सर्वदैवासि संसुप्तश् शक्त्या संवेद्यसे विभो । भोगालोकनलीलार्थं कामिन्या कामुको यथा
दृक्क्षुद्राभिर् उपानीतं दूराद् रूपमधु त्वया । पीयते स्वीकृतं शक्त्या नेत्रवातायनस्थया
ब्रह्माण्डकोटरोद्वान्ताः प्राणापानचरास् त्वया । गतागतैर् ब्रह्मपुरे सम्प्रेक्ष्यन्ते प्रतिक्षणम्
देहपुष्पे त्वम् आमोदो देहेन्दौ त्व् अमृतामृतम् । रसस् त्वं देहविटपे शैत्यं देहहिमे भवान्
त्वय्य् अस्ति चिन्मयस् स्नेहश् शरीरक्षीरसर्पिषि । त्वम् अन्तर् अस्य देहस्य दारुण्य् अग्निर् इव स्थितः
त्वम् अपाम् उत्तमास्वादः प्राकाश्यं तेजसाम् अपि । अवगन्ता त्वम् अर्थानां त्वं भासाम् अवभासकः
स्पन्दस् त्वं सर्ववायूनां त्वं मनोहस्तिनो मदः । प्रज्ञानलशिखायास् त्वं प्राकाश्यं तैक्ष्ण्यम् एव च
त्वद्वशाद् दीपवन् माया क्वापि सम्प्रविलीयते । दीपवत् पुनर् अन्यत्र समुदेति कुतो ऽपि सा
त्वयि संसारवर्तिन्यः पदार्थावलयस् तथा । कटकाङ्गदकेयूरयुक्तयः कनके यथा
भवान् अयम् अयं चाहं त्वं शब्दैर् एवमादिभिः । स्वयम् एवात्मनात्मानं लीलया स्तौषि वक्षि च
मन्दानिलविनुन्नो ऽब्दो गजाश्वनरदृष्टिभिः । यथा संलक्ष्यते व्योम्नि तथा त्वं भूतदृष्टिभिः
यथा हयगजाकारैर् ज्वाला लसति वह्निषु । तथैवाव्यतिरिक्तस् त्वं दृश्यैर् वससि सृष्टिषु
त्वं ब्रह्माण्डकमुक्तानाम् अच्छिन्नस् तन्तुर् आततः । क्षेत्रं त्वं भूतसस्यानां चिद्रसायनसेकिनाम्