वेदवेदान्तसिद्धान्ततर्कपौराणगीतिभिः । यो गीतस् स कथं ह्य् आत्मा विज्ञातो याति विस्मृतिम्
सैवेह देव भोगाली सुभगापीयम् अद्य मे । अन्तर् न स्वदते स्वच्छे त्वयि दृष्टे परापरे
त्वया विमलदीपेन भानुः प्रकटतां गतः । त्वया शीततुषारेण चन्द्रश् शिशिरतां गतः
त्वयैते गुरवश् शैलास् त्वयैते द्युचरा धृताः । त्वयैवेयं धरा धीरा त्वयैवाम्बरम् अम्बरम्
दिष्ट्या मत्ताम् असि प्राप्तो दिष्ट्या त्वत्ताम् अहं गतः । अहं त्वं त्वम् अहं देव दिष्ट्या भेदो ऽस्ति नावयोः
अहं त्वम् इति शब्दाभ्यां पर्यायाभ्यां महात्मनः । तव वा मम वा साधो सम्पृक्ताभ्यां नमो नमः
नमो मह्यम् अनन्ताय निरहङ्काररूपिणे । नमो मह्यम् अरूपाय नमश् शमनसद्मने
मय्य् आत्मनि समे स्वच्छे साक्षिभूते निराकृतौ । दिक्कालाद्यनवच्छिन्ने स्वात्मन्य् एवेह तिष्ठति
मनः प्रक्षोभम् आयाति स्फुरन्तीन्द्रियसंविदः । शक्तिर् उल्लसति स्फारा प्राणापानप्रवाहिनी
वहन्ति देहयन्त्राणि कृष्टान्य् आशावरत्रया । चर्ममांसास्थिदिग्धानि मनस्सारथिमन्ति च
अयं संविद्वपुर् अहं न क्वचिन् न कृतास्पदः । देहः पततु वोदेतु स्वयाभिमतयेच्छया
चिराद् अहम् अहं जातस् स्वात्मलाभश् चिराद् अयम् । चिराद् उपशमं यामि कल्पस्यान्ते जगद् यथा
चिरात् संसारगामित्वाद् दीर्घसंसारवर्त्मनि । विश्रान्तो ऽस्मि चिरश्रान्तः कल्पस्यान्त इवानिलः
सर्वातीताय सर्वाय तुभ्यं मह्यं नमो नमः । तेभ्यो ऽपि च नमो ऽस्त्व् एव ये त्वां मां प्रवदन्ति वा
अखिलानन्तसम्भोगा न स्पृष्टा दोषदृष्टिभिः । जयत्य् अकृतसम्भारा साक्षिता परमात्मनः
आत्मन् पुष्प इवामोदश् शस्त्रपिण्ड इवानलः । तिले तैलम् इवास्मिंस् त्वं सर्वत्र वपुषि स्थितः
हंसि पासि ददासि त्वम् अवस्फूर्जसि वल्गसि । अनहङ्कृतिरूपो ऽपि चित्रेयं तव मायिता
जयसीश ज्वलद्दीप्तिस् सर्वम् उन्मीलयञ् जगत् । जयस्य् अपगतारम्भं जगद् भूयो निमीलयन्
परमाणोस् तवैवान्तर् इदं संसारमण्डलम् । वटश् च वटधानायां बभूवास्ति भविष्यति
हयद्विपरथाकारैर् यद्वत् खे दृश्यते ऽम्बुदः । तद्वद् आलक्ष्यसे देव पदार्थशतविभ्रमैः
भवानां भूरिभङ्गानाम् अभावाय भवाधिपः । भव भावविमुक्तात्मा भावाभावबहिष्कृतः
जहि मानं मदं कोपं कालुष्यं क्रूरतां तथा । न महान्तो निमज्जन्ति प्राकृते गुणसङ्कटे
प्राक्तनीर् दीर्घदौरात्म्यदशास् स्मृत्वा पुनः पुनः । को ऽहं किं तद् बभूवेति हस मुक्ताच्छटासितम्
ते प्रयातास् समारम्भा गतास् ते दग्धवासराः । येषु चिन्तानलज्वालाजालजीर्णो भवान् अभूत्
अद्य त्वं देहनगरे राजा स्फारमनोरथः । न दुःखैर् गृह्यसे नापि सुखैर् व्योम करैर् इव
अद्येन्द्रियदुरश्वांस् त्वं जित्वा जितमनोगजः । भोगारीन् अभितो भङ्क्त्वा साम्राज्यम् अधितिष्ठसि
अपाराम्बरपान्थस् त्वम् अजस्रास्तमयोदयः । अवभासकरो नित्यं बहिर् अन्तश् च भास्करः
सर्वदैवासि संसुप्तश् शक्त्या संवेद्यसे विभो । भोगालोकनलीलार्थं कामिन्या कामुको यथा
दृक्क्षुद्राभिर् उपानीतं दूराद् रूपमधु त्वया । पीयते स्वीकृतं शक्त्या नेत्रवातायनस्थया
ब्रह्माण्डकोटरोद्वान्ताः प्राणापानचरास् त्वया । गतागतैर् ब्रह्मपुरे सम्प्रेक्ष्यन्ते प्रतिक्षणम्