नमो द्रष्ट्रे नमस् त्वष्ट्रे नमो ऽनन्तविकासिने । नमस् सर्वस्वभावाय नमस् ते सर्वगामिने
प्रतिजन्म चिरं बह्व्यो दीर्घदुःखवता मया । त्वया मायोपदग्धेन दिग्धेन महतैनसा
आलोकिता लोकदशा दृष्टा दृष्टान्तदृष्टयः । न प्राप्तस् त्वं त्वया येन किञ्चिद् आसादितं भवेत्
सर्वं मृत्काष्ठपाषाणवारिमात्रम् इदं जगत् । नेहास्ति त्वदृते देव यत्प्राप्तौ नाभिवाञ्छ्यते
देवायम् अद्य लब्धो ऽसि दृष्टो ऽस्य् अधिगतो ऽसि च । सम्प्राप्तो ऽसि गृहीतो ऽसि नमस् ते ऽस्तु न मुच्यसे
यो ऽक्ष्णोः कनीनिकारश्मिजालप्रोतवपुस् स्थितः । देवो दर्शनरूपेण कथं सो ऽन्तर् न दृश्यते
यस् त्वक्पुष्पे स्पृशन् स्पर्शगन्धं तैलं तिले यथा । स्पर्शम् अन्तः करोत्य् एष स कथं नानुभूयते
यश् शब्दश्रवणाद् अन्तश् शब्दशक्तिं परामृशन् । रोमाञ्चं जनयत्य् अङ्गे स दूरस्थः कथं भवेत्
जिह्वापल्लवलग्नानि स्वतीतस्याङ्गतो ऽपि च । स्वदन्ते यस्य वस्तूनि स्वदते स न कस्य वा
पुष्पगन्धान् उपादाय घ्राणहस्तेन देहकम् । य आलेपयति प्रीत्या कस्यासौ न मुखे स्थितः
वेदवेदान्तसिद्धान्ततर्कपौराणगीतिभिः । यो गीतस् स कथं ह्य् आत्मा विज्ञातो याति विस्मृतिम्
सैवेह देव भोगाली सुभगापीयम् अद्य मे । अन्तर् न स्वदते स्वच्छे त्वयि दृष्टे परापरे
त्वया विमलदीपेन भानुः प्रकटतां गतः । त्वया शीततुषारेण चन्द्रश् शिशिरतां गतः
त्वयैते गुरवश् शैलास् त्वयैते द्युचरा धृताः । त्वयैवेयं धरा धीरा त्वयैवाम्बरम् अम्बरम्
दिष्ट्या मत्ताम् असि प्राप्तो दिष्ट्या त्वत्ताम् अहं गतः । अहं त्वं त्वम् अहं देव दिष्ट्या भेदो ऽस्ति नावयोः
अहं त्वम् इति शब्दाभ्यां पर्यायाभ्यां महात्मनः । तव वा मम वा साधो सम्पृक्ताभ्यां नमो नमः
नमो मह्यम् अनन्ताय निरहङ्काररूपिणे । नमो मह्यम् अरूपाय नमश् शमनसद्मने
मय्य् आत्मनि समे स्वच्छे साक्षिभूते निराकृतौ । दिक्कालाद्यनवच्छिन्ने स्वात्मन्य् एवेह तिष्ठति
मनः प्रक्षोभम् आयाति स्फुरन्तीन्द्रियसंविदः । शक्तिर् उल्लसति स्फारा प्राणापानप्रवाहिनी
वहन्ति देहयन्त्राणि कृष्टान्य् आशावरत्रया । चर्ममांसास्थिदिग्धानि मनस्सारथिमन्ति च
अयं संविद्वपुर् अहं न क्वचिन् न कृतास्पदः । देहः पततु वोदेतु स्वयाभिमतयेच्छया
चिराद् अहम् अहं जातस् स्वात्मलाभश् चिराद् अयम् । चिराद् उपशमं यामि कल्पस्यान्ते जगद् यथा
चिरात् संसारगामित्वाद् दीर्घसंसारवर्त्मनि । विश्रान्तो ऽस्मि चिरश्रान्तः कल्पस्यान्त इवानिलः
सर्वातीताय सर्वाय तुभ्यं मह्यं नमो नमः । तेभ्यो ऽपि च नमो ऽस्त्व् एव ये त्वां मां प्रवदन्ति वा
अखिलानन्तसम्भोगा न स्पृष्टा दोषदृष्टिभिः । जयत्य् अकृतसम्भारा साक्षिता परमात्मनः
आत्मन् पुष्प इवामोदश् शस्त्रपिण्ड इवानलः । तिले तैलम् इवास्मिंस् त्वं सर्वत्र वपुषि स्थितः
हंसि पासि ददासि त्वम् अवस्फूर्जसि वल्गसि । अनहङ्कृतिरूपो ऽपि चित्रेयं तव मायिता
जयसीश ज्वलद्दीप्तिस् सर्वम् उन्मीलयञ् जगत् । जयस्य् अपगतारम्भं जगद् भूयो निमीलयन्
परमाणोस् तवैवान्तर् इदं संसारमण्डलम् । वटश् च वटधानायां बभूवास्ति भविष्यति
हयद्विपरथाकारैर् यद्वत् खे दृश्यते ऽम्बुदः । तद्वद् आलक्ष्यसे देव पदार्थशतविभ्रमैः