निर्भावं निरहङ्कारम् अमनस्कम् अनीहितम् । केवलस्पन्दशुद्धात्म यन्त्रं तिष्ठति मे वपुः
हेलानुकल्पितानन्तविश्वैकव्यवसायिनी । परमोपशमोपेता जातेयं मम निर्वृतिः
प्रशान्तमोहवेतालो गताहङ्कारराक्षसः । कदाशारूपिकामुक्तो जातो ऽस्मि विगतज्वरः
तृष्णारज्जुगणं छित्त्वा मच्छरीरकपञ्जरात् । न जाने क्व गतोड्डीय दुरहङ्कृतिपक्षिणी
उद्धूलिते घनाज्ञानकुलाये कायपादपात् । न जाने गत उड्डीय क्वाहम्भावविहङ्गमः
दुराशादीर्घदौरात्म्या धूसरा भोगभस्मना । भयभोगिहता दिष्ट्या वयस्या वासना मृता
एतावन्तम् अहं कालं को ऽभूवं चित्तम् ईदृशम् । येनाहम् एव मिथ्यैव दृढाहङ्कारतां गतः
अद्याहम् अस्मि जातो ऽयम् अहम् अद्य महामतिः । अहङ्कारमहाभ्रेण यः कृष्णेनालम् उज्झितः
दृष्टो ऽयम् आत्मा भगवान् अन्तश् चाधिगतो मया । आलब्धश् चानुभूतो ऽङ्गे सानुभूतिर् नियोजितः
गतास्पदं गतमननं गतैषणं तिरस्कृतं निपुणम् अहङ्कृतिभ्रमे । निरीहितं व्यपगतरागरञ्जनं विकौतुकं प्रशमम् इदं गतं मनः
दुरुत्तरास् समविषमा महापदस् सुदुस्सहाः प्रभवनदीर्घदोषदाः । गताः क्षयं समधिगतो महेश्वरश् चिदव्ययो व्यपगतचित्तम् अन्तरे
आत्मन् सर्वपदातीत चिरात् संस्मृतिम् आगतः । दिष्ट्या लब्धो ऽसि भगवन् नमस् ते ऽस्तु चिदात्मने
अभिवन्द्यावलोक्यायम् अलम् आलिङ्ग्यसे मया । को ऽन्यस् स्याद् भगवन् बन्धुस् त्वदृते भुवनत्रये
हंसि पासि ददासि त्वं स्तौषि यासि विवल्गसि । अयं प्राप्तो ऽसि दृष्टो ऽसि किं करोषि क्व गच्छसि
स्वसत्तापूरिताशेषविश्व विश्वजनीन हे । सर्वत्र लक्ष्यसे नित्यम् अधुना क्व पलायसे
आवयोर् अन्तरं भूरिजन्मव्यवहितान्तरम् । अदूरम् अद्य सम्पन्नं दिष्ट्या दृष्टो ऽसि बान्धव
नमस् ते कृतकृत्याय कर्त्रे हर्त्रे नमो ऽस्तु ते । नमस् संसारनृत्याय नित्याय विमलात्मने
नमश् चक्राब्जहस्ताय नमश् चन्द्रार्धधारिणे । नमो विबुधनाथाय नमस् ते पद्मजन्मने
वाच्यवाचकदृष्ट्यैव भेदो यो ऽयम् इहावयोः । असत्या कल्पनैवैषा वीचिवीच्यम्भसोर् इव
त्वम् एवानन्तयानन्तवस्तुवैचित्र्यरूपया । भावाभावविलासिन्या नित्ययेह विजृम्भसे
नमो द्रष्ट्रे नमस् त्वष्ट्रे नमो ऽनन्तविकासिने । नमस् सर्वस्वभावाय नमस् ते सर्वगामिने
प्रतिजन्म चिरं बह्व्यो दीर्घदुःखवता मया । त्वया मायोपदग्धेन दिग्धेन महतैनसा
आलोकिता लोकदशा दृष्टा दृष्टान्तदृष्टयः । न प्राप्तस् त्वं त्वया येन किञ्चिद् आसादितं भवेत्
सर्वं मृत्काष्ठपाषाणवारिमात्रम् इदं जगत् । नेहास्ति त्वदृते देव यत्प्राप्तौ नाभिवाञ्छ्यते
देवायम् अद्य लब्धो ऽसि दृष्टो ऽस्य् अधिगतो ऽसि च । सम्प्राप्तो ऽसि गृहीतो ऽसि नमस् ते ऽस्तु न मुच्यसे
यो ऽक्ष्णोः कनीनिकारश्मिजालप्रोतवपुस् स्थितः । देवो दर्शनरूपेण कथं सो ऽन्तर् न दृश्यते
यस् त्वक्पुष्पे स्पृशन् स्पर्शगन्धं तैलं तिले यथा । स्पर्शम् अन्तः करोत्य् एष स कथं नानुभूयते
यश् शब्दश्रवणाद् अन्तश् शब्दशक्तिं परामृशन् । रोमाञ्चं जनयत्य् अङ्गे स दूरस्थः कथं भवेत्
जिह्वापल्लवलग्नानि स्वतीतस्याङ्गतो ऽपि च । स्वदन्ते यस्य वस्तूनि स्वदते स न कस्य वा
पुष्पगन्धान् उपादाय घ्राणहस्तेन देहकम् । य आलेपयति प्रीत्या कस्यासौ न मुखे स्थितः