दृष्ट एव त्वयीशाने पलायनपरायणः । सम्पन्नो मदहम्भावश् चौरस् सूर्योदये यथा
असदभ्युत्थिते तस्मिन्न् अहङ्कारपिशाचके । शान्ते तिष्ठाम्य् अतिस्वस्थो निर्गोनास इव द्रुमः
शाम्यामि परिनिर्वामि जागर्म्य् अस्मि प्रबोधवान् । तस्करेणावमुक्तो ऽस्मि निर्वृतो ऽस्मि चिराद् अयम्
शैत्यम् अभ्यागतो ऽस्म्य् अन्तश् शान्ताशामृगतृष्णिकः । प्रावृडम्बुभरस्नातश् शान्तदाव इवाचलः
प्रमार्जिते ऽहम् इत्य् अस्मिन् पदे सार्थे विचारतः । को मोहः कानि दुःखानि काः कदाशाः क आतपः
नरकस्वर्गमोक्षादिभ्रमास् सत्याम् अहङ्कृतौ । भित्ताव् एव प्रवर्तन्ते चित्रेहा न नभस्तले
अहङ्कारकलापीने चित्ते सारचमत्कृतिः । न राजते ऽंशुके म्लाने यथा कुङ्कुमरञ्जना
निरहङ्कारजलदे तृष्णासारविवर्जिते । भाति चित्तशरद्व्योम्नि स्वच्छता कान्तिशालिनी
निरहङ्कारपङ्काय सम्प्रसन्नान्तराय च । मह्यम् आनन्दसरसे तुभ्यम् आत्मन् नमो नमः
गताहङ्कारमेघाय शान्ताशादाववह्नये । मह्यम् आनन्दशैलाय विश्रान्ताय नमो नमः
शान्तेन्द्रियोग्रग्राहाय क्षीणचित्तौर्ववह्नये । आनन्दाम्बुधये तुभ्यं मह्यम् आत्मन् नमो नमः
प्रफुल्तानन्दपद्माय शान्तचिन्तामहोर्मये । मह्यम् उन्मानसायात्मंस् तुभ्यम् अन्तर् नमो नमः
संविदाभासपक्षाय पद्मकोटरवासिने । सर्वमानसहंसाय स्वात्मने ऽन्तर् नमो नमः
कलाकलितरूपाय निष्कलायामितात्मने । सदोदितातिपूर्णात्मशशिने ते नमो नमः
सदोदिताय शीताय महाहृद्ध्वान्तहारिणे । सर्वगायाप्य् अदृश्याय चित्सूर्याय नमो नमः
अस्नेहस्नेहदीप्राय वर्त्यतिक्रान्तवर्तिने । स्वभावाधारधीराय चिद्दीपाय नमो नमः
मननानलसन्तप्तं शीतेन मनसा मनः । छिन्नम् अन्तर् मया तप्तम् अयसेव बलाद् अयः
इन्द्रियैर् इन्द्रियं छित्त्वा छित्त्वा च मनसा मनः । अहङ्कृतिम् अहङ्कृत्या छित्त्वा शेषो जयाम्य् अहम्
भावेन भावम् आमृद्य च्छित्त्वा तृष्णाम् अतृष्णया । निष्पिष्य प्रज्ञयाप्रज्ञां ज्ञे ऽज्ञस् संयोजितो मया
मनसा मनसि च्छिन्ने निरहङ्कारतां गते । भावेन गलिते भावे स्वस्थस् तिष्ठामि केवलः
निर्भावं निरहङ्कारम् अमनस्कम् अनीहितम् । केवलस्पन्दशुद्धात्म यन्त्रं तिष्ठति मे वपुः
हेलानुकल्पितानन्तविश्वैकव्यवसायिनी । परमोपशमोपेता जातेयं मम निर्वृतिः
प्रशान्तमोहवेतालो गताहङ्कारराक्षसः । कदाशारूपिकामुक्तो जातो ऽस्मि विगतज्वरः
तृष्णारज्जुगणं छित्त्वा मच्छरीरकपञ्जरात् । न जाने क्व गतोड्डीय दुरहङ्कृतिपक्षिणी
उद्धूलिते घनाज्ञानकुलाये कायपादपात् । न जाने गत उड्डीय क्वाहम्भावविहङ्गमः
दुराशादीर्घदौरात्म्या धूसरा भोगभस्मना । भयभोगिहता दिष्ट्या वयस्या वासना मृता
एतावन्तम् अहं कालं को ऽभूवं चित्तम् ईदृशम् । येनाहम् एव मिथ्यैव दृढाहङ्कारतां गतः
अद्याहम् अस्मि जातो ऽयम् अहम् अद्य महामतिः । अहङ्कारमहाभ्रेण यः कृष्णेनालम् उज्झितः
दृष्टो ऽयम् आत्मा भगवान् अन्तश् चाधिगतो मया । आलब्धश् चानुभूतो ऽङ्गे सानुभूतिर् नियोजितः
गतास्पदं गतमननं गतैषणं तिरस्कृतं निपुणम् अहङ्कृतिभ्रमे । निरीहितं व्यपगतरागरञ्जनं विकौतुकं प्रशमम् इदं गतं मनः