न मे भोगस्थितौ वाञ्छा न च भोगविवर्जने । यद् आयाति तद् आयातु यत् प्रयाति प्रयातु तत्
सुखेषु मम नापेक्षा नोपेक्षा दुःखवृत्तिषु । सुखदुःखान्य् उपायान्तु यान्तु वाप्य् अहम् एषु कः
वासना विविधा देहे त्व् अस्तं वोदयम् एव वा । प्रयान्तु नाहम् एतासु न चैता मम काश्चन
एतावन्तम् अहं कालम् अज्ञानरिपुणोरुणा । हृत्वा विवेकसर्वस्वम् एकान्तम् अवपोथितः
वैष्णवेन प्रसादेन स्वसमुत्थेन चारुणा । इदानीं स्वं परिज्ञाय मयैष परिपोथितः
अहङ्कारपिशाचो ऽयं शरीरतरुकोटरात् । परावबोधमन्त्रेण मयेदानीम् अपाकृतः
निरहङ्कारयक्षो ऽयं मच्छरीरमहाद्रुमः । पुण्यताम् अलम् आयातः प्रफुल्त इव राजते
प्रशान्तमोहदारिद्र्यो दुराशादोषसङ्क्षये । विवेकधनसम्भारात् स्थितो ऽस्मि परमेश्वरः
ज्ञातं ज्ञातव्यम् अखिलं दृष्टा द्रष्टव्यदृष्टयः । तत् प्राप्तम् अधुना येन न प्राप्यम् इह शिष्यते
दिष्ट्या दूरोज्झितानर्थाम् अपेतविषयोरगाम् । संशान्तमोहनीहारां शान्ताशामृगतृष्णिकाम्
रजोरहितसर्वाशां शीतलोपशमद्रुमाम् । प्राप्तो ऽस्मि विततां भूमिम् उन्नतां पारमार्थिकीम्
स्तुत्या प्रणत्या विज्ञप्त्या शमेन नियमेन च । लब्धो ऽयं भगवान् आत्मा दृष्टश् चाधिगतस् स्फुटम्
अहङ्कारपदातीतश् चिरात् संस्मृतिम् आगतः । स्वभावो भगवान् आत्मा विष्णुर् ब्रह्म सनातनम्
इन्द्रियोरगगर्तेषु मरणश्वभ्रभूमिषु । तृष्णाकरञ्जकुञ्जेषु कामकोलाहलेषु च
वासनावनजालेषु जन्मकूपान्तरेषु च । दुःखदावाग्निदाहेषु दुष्कृताङ्गारभारिषु
पातोत्पातदशालक्षैर् मज्जनोन्मज्जनभ्रमैः । आविर्भावतिरोभावैर् आशापाशविवेष्टनैः
अहं चिरम् अहङ्कारद्विषा समवपोथितः । निशायाम् अल्पधैर्यात्मा पिशाचेनेव जङ्गले
स्वयम् एव त्वयेदानीं क्रियाशक्त्या स्वयैव हि । शौरिवाग्व्यपदेशेन विवेकश्रीर् विबोधिता
प्रबुद्धे भवतीशाने तम् अहङ्कारराक्षसम् । न पश्यामि विभो दीपे ज्वलिते तिमिरं यथा
तस्याहङ्कारयक्षस्य मनोविवरवासिनः । दीपस्येव प्रशान्तस्य न वेद्मि गतिम् ईश्वर
दृष्ट एव त्वयीशाने पलायनपरायणः । सम्पन्नो मदहम्भावश् चौरस् सूर्योदये यथा
असदभ्युत्थिते तस्मिन्न् अहङ्कारपिशाचके । शान्ते तिष्ठाम्य् अतिस्वस्थो निर्गोनास इव द्रुमः
शाम्यामि परिनिर्वामि जागर्म्य् अस्मि प्रबोधवान् । तस्करेणावमुक्तो ऽस्मि निर्वृतो ऽस्मि चिराद् अयम्
शैत्यम् अभ्यागतो ऽस्म्य् अन्तश् शान्ताशामृगतृष्णिकः । प्रावृडम्बुभरस्नातश् शान्तदाव इवाचलः
प्रमार्जिते ऽहम् इत्य् अस्मिन् पदे सार्थे विचारतः । को मोहः कानि दुःखानि काः कदाशाः क आतपः
नरकस्वर्गमोक्षादिभ्रमास् सत्याम् अहङ्कृतौ । भित्ताव् एव प्रवर्तन्ते चित्रेहा न नभस्तले
अहङ्कारकलापीने चित्ते सारचमत्कृतिः । न राजते ऽंशुके म्लाने यथा कुङ्कुमरञ्जना
निरहङ्कारजलदे तृष्णासारविवर्जिते । भाति चित्तशरद्व्योम्नि स्वच्छता कान्तिशालिनी
निरहङ्कारपङ्काय सम्प्रसन्नान्तराय च । मह्यम् आनन्दसरसे तुभ्यम् आत्मन् नमो नमः
गताहङ्कारमेघाय शान्ताशादाववह्नये । मह्यम् आनन्दशैलाय विश्रान्ताय नमो नमः