अस्मिन् दृष्टे जगद् दृष्टं श्रुते ऽस्मिन् सकलं श्रुतम् । स्पृष्टे चास्मिञ् जगत् स्पृष्टं स्थिते ऽस्मिन् संस्थितं जगत्
एष जागर्ति सुप्तानां प्रहरत्य् अविवेकिनाम् । हरत्य् आपदम् आर्तानां वितरत्य् अमहात्मनाम्
विचरत्य् एष लोकेषु दीप एव जगत्स्थितौ । विलसत्य् एष भोगेषु प्रस्फुरत्य् एष वस्तुषु
आत्मनात्मानम् एवान्तश् शान्तेनानुभवन् भवी । स्थितस् सर्वेषु देहेषु तिक्तत्वं मरिचेष्व् इव
चेतनाकलनारूपी सबाह्याभ्यन्तराश्रितः । जगत्पदार्थसम्भारसत्तासामान्यम् आस्थितः
एष शून्यत्वम् आकाशे स्पन्द एष सदागतौ । प्रकाशश् चैष तेजस्सु पयस्य् एष रसः परः
काठिन्यम् अवनाव् एष औष्ण्यम् एष हुताशने । शैत्यम् एष निशानाथे सत्ता चैष जगद्गणे
मषीपिण्डे यथा कार्ष्ण्यं शौक्ल्यं हिमकणे यथा । यथा पुष्पेषु सौगन्ध्यं देहे देहपतिस् तथा
यथा सर्वगता सत्ता कालस् सर्वगतो यथा । यथा सर्वगतं व्योम विभुस् सर्वगतस् तथा
प्रभुशक्तिर् महीपस्य सर्वदेशगता यथा । रूपालोकमनस्कारमुक्तं सत्त्वं तथात्मनः
नित्यस् सो ऽयम् अहं देवो देवानाम् अवबोधकः । स्वयम् आत्मास्मि मे नास्ति कलनावित् किलेतरा
रेणुनेवाणुना व्योम्नि पद्मपत्त्र इवाम्भसा । सम्भ्रमेणेव पाषाणे सम्बन्धो मयि नैनसा
सुखदुःखश्रियो देहे मा पतन्तु पतन्तु वा । तुम्बकोपरि धाराश् च का नः क्षतिर् उपस्थिता
दीपाङ्गाभिगतो रज्ज्वा नालोको बध्यते यथा । तथैवायम् अबद्धो ऽहं सर्वभावगणातिगः
सम्बन्धः को नु नः कामैर् भावाभावैर् अथेन्द्रियैः । केन सम्बध्यते व्योम केन वा गृह्यते मनः
शरीरे शतधा याते खण्डना का शरीरिणः । कुम्भे रुग्णे क्षते क्षीणे कुम्भाकाशस्य का क्षतिः
पिशाचक इवादृश्यो मनो नामोदितं मुधा । जडे तस्मिन् क्षते बोधात् का नः क्षतिर् उपस्थिता
सुखदुःखमयी यस्य वासना तन् मनो मम । अभवत् पूर्वम् अद्यैका सम्पन्ना ननु निर्वृतिः
अन्यो भुङ्क्ते ऽन्य आदत्ते ऽप्य् अन्यस्यानर्थसङ्कटः । अन्यः पश्यत्य् अहो मौर्ख्यं कस्येयं खलु चक्रिका
भुङ्क्ते प्रकृतिर् आदत्ते मनो देहस्य सङ्कटः । द्रष्टात्मा मौर्ख्यम् अस्तीह न किञ्चित् केव मे क्षतिः
न मे भोगस्थितौ वाञ्छा न च भोगविवर्जने । यद् आयाति तद् आयातु यत् प्रयाति प्रयातु तत्
सुखेषु मम नापेक्षा नोपेक्षा दुःखवृत्तिषु । सुखदुःखान्य् उपायान्तु यान्तु वाप्य् अहम् एषु कः
वासना विविधा देहे त्व् अस्तं वोदयम् एव वा । प्रयान्तु नाहम् एतासु न चैता मम काश्चन
एतावन्तम् अहं कालम् अज्ञानरिपुणोरुणा । हृत्वा विवेकसर्वस्वम् एकान्तम् अवपोथितः
वैष्णवेन प्रसादेन स्वसमुत्थेन चारुणा । इदानीं स्वं परिज्ञाय मयैष परिपोथितः
अहङ्कारपिशाचो ऽयं शरीरतरुकोटरात् । परावबोधमन्त्रेण मयेदानीम् अपाकृतः
निरहङ्कारयक्षो ऽयं मच्छरीरमहाद्रुमः । पुण्यताम् अलम् आयातः प्रफुल्त इव राजते
प्रशान्तमोहदारिद्र्यो दुराशादोषसङ्क्षये । विवेकधनसम्भारात् स्थितो ऽस्मि परमेश्वरः
ज्ञातं ज्ञातव्यम् अखिलं दृष्टा द्रष्टव्यदृष्टयः । तत् प्राप्तम् अधुना येन न प्राप्यम् इह शिष्यते
दिष्ट्या दूरोज्झितानर्थाम् अपेतविषयोरगाम् । संशान्तमोहनीहारां शान्ताशामृगतृष्णिकाम्