देव द्वारि महातेजा बालभास्करभास्वरः । ज्वालारुणजटाजूटः पुमाञ् श्रीमान् अवस्थितः
सचामरपताकाढ्यं साश्वेभपुरुषायुधम् । कृतवांस् तं प्रदेशं यस् तेजोभिः कीर्णकाञ्चनम्
वक्त्य् अस्मान् आशु याष्टीका निवेदयत राजनि । विश्वामित्रो मुनिः प्राप्त इत्य् अनुद्धतया गिरा
इति याष्टीकवचनम् आकर्ण्य नृपसत्तमः । स समन्त्री ससामन्तः प्रोत्तस्थे हेमविष्टरात्
पदातिर् एव महतां राज्ञां वृन्देन पालितः । वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः
जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः । ददर्श मुनिशार्दूलं द्वारभूमाव् अधिष्ठितम्
केनापि कारणेनोर्वीतलम् अर्कम् इवागतम् । ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा
जराजरढया नित्यं तपःप्रसररूक्षया । जटावल्ल्या वृतस्कन्धं ससन्ध्याभ्रम् इवाचलम्
उपशान्तं च कान्तं च दीप्तम् अप्रतिघं तथा । निभृतं चोर्जिताकारं दधानं भास्वरं वपुः
पेशलेनातिभीमेन प्रसन्नेनाकुलेन च । गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रजम्
अनन्तजीवितदशासखीम् एकाम् अनिन्दिताम् । धारयन्तं करे श्लक्ष्णां वीणाम् अम्लानमानसम्
करुणाक्रान्तचेतस्त्वात् प्रसन्नमधुरेक्षितैः । ईक्षणैर् अमृतेनेव संसिञ्चन्तम् इमाः प्रजाः
सितासितततापाङ्गं धवलप्रोन्नतभ्रुवम् । आनन्दं च भयं चान्तः प्रयच्छन्तम् अवेक्षितुः
मुनिम् आलोक्य भूपालो दूराद् एवानताकृतिः । प्रणनाम गलन्मौलिमणिमालितभूतलम्
मुनिर् अप्य् अवनेर् ईशं भास्वान् इव शतक्रतुम् । तत्राभिवादयां चक्रे मधुरोदारया गिरा
ततो वसिष्ठप्रमुखास् सर्व एव द्विजातयः । स्वागतादिक्रमेणैनं पूजयाम् आसुर् आदृताः
अशङ्कितोपनीतेन भास्वता दर्शनेन ते । साधो स्वनुगृहीतास् स्मो रविणेवाम्बुजाकराः
यद् अनादि यद् अक्षुब्धं यद् अपायविवर्जितम् । तद् आनन्दसुखं प्राप्ता अद्य त्वद्दर्शनान् मुने
अद्य वर्तामहे नूनं धर्म्याणां धुरि धर्मतः । भवदागमनस्येमे यद् वयं लक्ष्यतां गताः
एवं प्रकथयन्तो ऽत्र राजानो ऽथ महर्षयः । आसनेषु सभास्थानम् आस्थाय समुपाविशन्
स दृष्ट्वा ज्वलितं लक्ष्म्या भीतस् तम् ऋषिम् आगतम् । प्रहृष्टवदनो राजा स्वयम् अर्घ्यं न्यवेदयत्
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा । प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत्
स राज्ञा पूजितस् तेन प्रहृष्टवदनस् तदा । कुशलं चाप्ययं चैव पर्यपृच्छन् नराधिपम्
वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः । यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः
क्षणं यथार्हम् अन्योऽन्यं पूजयित्वा समेत्य च । ते सर्वे हृष्टमनसो महाराजनिवेशने
यथोचितासनगता मिथस् संवृद्धतेजसः । परस्परेण पप्रच्छुस् सर्वे ऽनामयम् आदरात्
उपविष्टाय तस्मै स विश्वामित्राय धीमते । पाद्यम् अर्घ्यं च गाश् चैव भूयो भूयो न्यवेदयत्
अर्चयित्वा च विधिवद् विश्वामित्रम् अभाषत । प्राञ्जलिः प्रयतो वाक्यम् इदं प्रीतमना नृपः
यथामृतस्य सम्प्राप्तिर् यथा वर्षम् अवर्षके । यथान्धस्येक्षणप्राप्तिर् भवदागमनं तथा
यथेष्टधनसम्पर्कः पुत्रजन्माप्रजावतः । स्वप्नदृष्टार्थलाभश् च भवदागमनं तथा