मह्यं तुभ्यम् अनन्ताय तुभ्यं मह्यं शिवात्मने । नमो देवातिदेवाय पराय परमात्मने
गतघनम् इव पूर्णम् इन्दुबिम्बं गतकलनावरणं स्वम् एव रूपम् । स्ववपुषि मुदितं स्वयं स्वसंस्थं स्वयम् उदितं स्वरसं स्वयं नमामि
ॐ इत्य् आकारिताकारो विकारपरिवर्जितः । आत्मैवायं इदं सर्वं यत् किञ्चिज् जगतीगतम्
मेदोऽस्थिमांसमज्जासृगतीतो ऽप्य् एष चेतनः । अन्तरस्थो ऽपि सूर्यादीन् प्रकाशयति दीपकः
उष्णीकरोति दहनं रसयत्य् अमृतो रसं । इन्द्रियानुभवान् भुङ्क्ते भोगान् इव महीपतिः
तिष्ठन्न् अपि हि नासीनो गच्छन्न् अपि न गच्छति । शान्तो ऽपि व्यवहारस्थः कुर्वन्न् अपि न लिप्यते
पूर्वम् अद्य तथेदानीम् इहामुत्रोभयत्र च । पिहितो ऽपिहितो ऽप्य् एष समस् सर्वासु वृत्तिषु
उद्भवन्यग्भवाभावभावनाभिर् इतस् ततः । ब्रह्मादितृणपर्यन्तं जगद् आवर्तयन् स्थितः
नित्यस्पन्दमयो नित्यम् अपि देवात् सदागतेः । स्थाणोर् अप्य् अक्रियो नित्यम् आकाशाद् अप्य् अलेपकः
मनांसि क्षोभयत्य् एष पल्लवान् इव मारुतः । वाहयत्य् अक्षपङ्क्तिं वा स्वाश्वालीम् इव सारथिः
अतिदुःखितवद् देहगेहे कर्मकरस् सदा । सम्राड् इवात्मनि स्वास्थ्यसंस्थितो भोगभुग् विभुः
एष एव सदान्वेष्यस् स्तुत्यो ध्यातव्य एव च । जरामरणसम्मोहाद् अनेनोत्तीर्य गम्यते
सुलभश् चायम् अत्यन्तं सुज्ञेयश् चाप्तबन्धुवत् । शरीरपद्मकुहरे सर्वेषाम् एव षट्पदः
अनाकृष्टो ऽप्य् अनाहूतस् स्वदेहाद् एव लभ्यते । मनाग् एवोपहूतो ऽपि क्षणाद् भवति सम्मुखः
नास्य संसेव्यमानस्य सर्वसम्पत्तिशालिनः । धनानाम् ईश्वरस्येव स्मयो गर्वो ऽथ वा भवेत्
आमोद इव पुष्पेषु तैलं तिलकणेष्व् इव । रसजातिष्व् इवास्वादो देवो देहेषु संस्थितः
अविचारवशाद् एष हृदयस्थो ऽपि चेतनः । न ज्ञायते चिराद् दृष्ट इष्टबन्धुर् इवाग्रगः
विचारणात् परिज्ञाते एतस्मिन् परमेश्वरे । अभ्युदेति परानन्दो लब्धे प्रियजने यथा
अस्मिन् दृष्टे परे बन्धाव् उद्दामानन्ददायिनि । आयान्ति दृष्टयस् तास् ता याभिर् बन्धो विलीयते
त्रुट्यन्ति सर्वतः पाशाः क्षीयन्ते सर्वशत्रवः । न कृन्तन्ति मनांस्य् आशा गृहाणीव दुराखवः
अस्मिन् दृष्टे जगद् दृष्टं श्रुते ऽस्मिन् सकलं श्रुतम् । स्पृष्टे चास्मिञ् जगत् स्पृष्टं स्थिते ऽस्मिन् संस्थितं जगत्
एष जागर्ति सुप्तानां प्रहरत्य् अविवेकिनाम् । हरत्य् आपदम् आर्तानां वितरत्य् अमहात्मनाम्
विचरत्य् एष लोकेषु दीप एव जगत्स्थितौ । विलसत्य् एष भोगेषु प्रस्फुरत्य् एष वस्तुषु
आत्मनात्मानम् एवान्तश् शान्तेनानुभवन् भवी । स्थितस् सर्वेषु देहेषु तिक्तत्वं मरिचेष्व् इव
चेतनाकलनारूपी सबाह्याभ्यन्तराश्रितः । जगत्पदार्थसम्भारसत्तासामान्यम् आस्थितः
एष शून्यत्वम् आकाशे स्पन्द एष सदागतौ । प्रकाशश् चैष तेजस्सु पयस्य् एष रसः परः
काठिन्यम् अवनाव् एष औष्ण्यम् एष हुताशने । शैत्यम् एष निशानाथे सत्ता चैष जगद्गणे
मषीपिण्डे यथा कार्ष्ण्यं शौक्ल्यं हिमकणे यथा । यथा पुष्पेषु सौगन्ध्यं देहे देहपतिस् तथा
यथा सर्वगता सत्ता कालस् सर्वगतो यथा । यथा सर्वगतं व्योम विभुस् सर्वगतस् तथा
प्रभुशक्तिर् महीपस्य सर्वदेशगता यथा । रूपालोकमनस्कारमुक्तं सत्त्वं तथात्मनः