तुल्यकालपरामृष्टत्रिकालकलनाशता । अनन्तानुभवाभोगा परिपूर्णैव शुद्धचित्
परामृष्टत्रिकालाया दृष्टानन्तदृशश् चितः । समतापरपर्याया पूर्णतैवावशिष्यते
तुल्यकालावबुद्धेन मृदुना कटुना च चित् । समेन समताम् एति मधुनिष्ठानुभूतिवत्
त्यक्तसङ्कल्पकलया सूक्ष्मया चिदवस्थया । सर्वभावानुगतया सत्ताद्वैतैकरूपया
विचित्रापि पदार्थश्रीर् अन्योऽन्यवलितान्तरा । तुल्यकालानुभवनात् साम्येनैवानुभूयते
भावेन भावम् आश्रित्य भावस् त्यजति दुःखिताम् । प्रेक्ष्य भावम् अभावेन भावस् त्यजति तुष्टताम्
कालत्रयम् उपेक्षित्र्या हीनायाश् चेत्यबन्धनैः । चितश् चेत्यम् उपेक्षित्र्यास् समतैवावशिष्यते
याति वाचाम् अगम्यत्वाद् असत्ताम् इव शाश्वतीम् । नैरात्म्यसिद्धान्तदशाम् उपयातेव तिष्ठति
भवत्य् आत्मा तथा ब्रह्म नकिञ्चिच् चाखिलं च वा । परमोपशमे लीना मोक्षनाम्ना परोच्यते
सङ्कल्पकलिता त्व् एषा मन्दाभासतया जगत् । न सम्यक् पश्यतीदं चिद् दृष्टिः पटलिनी यथा
ईहानीहामयैर् अन्तर् या चिद् आवलिता मलैः । सा हि नोत्पतितुं शक्ता पाशबद्धेव पक्षिणी
सङ्कल्पकलनेनैव ये केचन जना इमे । पतिता मोहजालेषु विनेत्रा इव पक्षिणः
सङ्कल्पजालवलितैर् विषयावटपातिभिः । पदवी गतबाधेयं न दृष्टा मत्पितामहैः
दिनैः कतिपयैर् एव स्फुरित्वा धरणीतले । वराकास् तेन ते नष्टा मषकाः कुहरेष्व् इव
अज्ञास्यन् यदि ते तत्त्वं भोगदुःखार्थिनस् ततः । भावाभावान्धकूपेषु नापतिष्यन् हताशयाः
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः । धराविवरमग्नानां कीटानां समतां गताः
ईहितानीहिताकारा कलनामृगतृष्णिका । सत्यावबोधमेघेन यस्य शान्ता स जीवति
कुतः किलास्याश् शुद्धाया अविच्छिन्नामलाकृतेः । चन्द्रिकाया रुचः कोष्णाः कलङ्ककलनाश् चितः
आत्मने ऽस्तु नमो मह्यम् अविच्छिन्नचिदात्मने । लोकालोकमणे देव चिरेणाधिगतो ऽस्य् अहो
परामृष्टो ऽसि लब्धो ऽसि प्रोदितो ऽसि चिराय च । उद्धृतो ऽसि विकल्पेभ्यो यो ऽसि सो ऽसि नमो ऽस्तु ते
मह्यं तुभ्यम् अनन्ताय तुभ्यं मह्यं शिवात्मने । नमो देवातिदेवाय पराय परमात्मने
गतघनम् इव पूर्णम् इन्दुबिम्बं गतकलनावरणं स्वम् एव रूपम् । स्ववपुषि मुदितं स्वयं स्वसंस्थं स्वयम् उदितं स्वरसं स्वयं नमामि
ॐ इत्य् आकारिताकारो विकारपरिवर्जितः । आत्मैवायं इदं सर्वं यत् किञ्चिज् जगतीगतम्
मेदोऽस्थिमांसमज्जासृगतीतो ऽप्य् एष चेतनः । अन्तरस्थो ऽपि सूर्यादीन् प्रकाशयति दीपकः
उष्णीकरोति दहनं रसयत्य् अमृतो रसं । इन्द्रियानुभवान् भुङ्क्ते भोगान् इव महीपतिः
तिष्ठन्न् अपि हि नासीनो गच्छन्न् अपि न गच्छति । शान्तो ऽपि व्यवहारस्थः कुर्वन्न् अपि न लिप्यते
पूर्वम् अद्य तथेदानीम् इहामुत्रोभयत्र च । पिहितो ऽपिहितो ऽप्य् एष समस् सर्वासु वृत्तिषु
उद्भवन्यग्भवाभावभावनाभिर् इतस् ततः । ब्रह्मादितृणपर्यन्तं जगद् आवर्तयन् स्थितः
नित्यस्पन्दमयो नित्यम् अपि देवात् सदागतेः । स्थाणोर् अप्य् अक्रियो नित्यम् आकाशाद् अप्य् अलेपकः
मनांसि क्षोभयत्य् एष पल्लवान् इव मारुतः । वाहयत्य् अक्षपङ्क्तिं वा स्वाश्वालीम् इव सारथिः