परमा पूर्णता शार्वी जयलक्ष्मीश् च वैष्णवी । मानसी शीघ्रगमिता बलवत्ता तु वायवी
आग्नेयी दाहकलना पायसी रसनिर्वृतिः । मौनी महातपस्सिद्धिर् विद्या बार्हस्पती तथा
वैमानिकी व्योमगता स्थिरतापि च पार्वती । गम्भीरताथ सामुद्री मैरवी च महोन्नतिः
समश्रीस् सौगती सोम्या मादनी मदलोलता । माधवी पुष्पमयता शारदी घनसस्यता
याक्षी च मायामयता नाभसी निष्कलङ्कता । शीततापि च तौषारी नैदाघी तापतप्तता
एताश् चान्यास् तथा बह्व्यो देशकालक्रियात्मिकाः । नानाकारविकारोत्थास् त्रिकालोदरसंस्थिताः
विचित्राश् शक्तयस् स्वच्छसमया निर्विकारया । चिता क्रियन्ते परया कलाकलनमुक्तया
विकल्पहीना चित् सर्वपदार्थशतदृष्टिषु । समम् एवाभिपतति प्रभा प्राभाकरी यथा
सर्वाशाकोशविश्रान्तां पदार्थपटलीं मही । कालत्रयेहाकलितां यथानुभवति क्षणात्
तथा समस्तसंसारबृहद्दृश्यदशाश्रियम् । कालत्रयस्थाम् अमला चिच् चिनोति ततात्मिका
तुल्यकालपरामृष्टत्रिकालकलनाशता । अनन्तानुभवाभोगा परिपूर्णैव शुद्धचित्
परामृष्टत्रिकालाया दृष्टानन्तदृशश् चितः । समतापरपर्याया पूर्णतैवावशिष्यते
तुल्यकालावबुद्धेन मृदुना कटुना च चित् । समेन समताम् एति मधुनिष्ठानुभूतिवत्
त्यक्तसङ्कल्पकलया सूक्ष्मया चिदवस्थया । सर्वभावानुगतया सत्ताद्वैतैकरूपया
विचित्रापि पदार्थश्रीर् अन्योऽन्यवलितान्तरा । तुल्यकालानुभवनात् साम्येनैवानुभूयते
भावेन भावम् आश्रित्य भावस् त्यजति दुःखिताम् । प्रेक्ष्य भावम् अभावेन भावस् त्यजति तुष्टताम्
कालत्रयम् उपेक्षित्र्या हीनायाश् चेत्यबन्धनैः । चितश् चेत्यम् उपेक्षित्र्यास् समतैवावशिष्यते
याति वाचाम् अगम्यत्वाद् असत्ताम् इव शाश्वतीम् । नैरात्म्यसिद्धान्तदशाम् उपयातेव तिष्ठति
भवत्य् आत्मा तथा ब्रह्म नकिञ्चिच् चाखिलं च वा । परमोपशमे लीना मोक्षनाम्ना परोच्यते
सङ्कल्पकलिता त्व् एषा मन्दाभासतया जगत् । न सम्यक् पश्यतीदं चिद् दृष्टिः पटलिनी यथा
ईहानीहामयैर् अन्तर् या चिद् आवलिता मलैः । सा हि नोत्पतितुं शक्ता पाशबद्धेव पक्षिणी
सङ्कल्पकलनेनैव ये केचन जना इमे । पतिता मोहजालेषु विनेत्रा इव पक्षिणः
सङ्कल्पजालवलितैर् विषयावटपातिभिः । पदवी गतबाधेयं न दृष्टा मत्पितामहैः
दिनैः कतिपयैर् एव स्फुरित्वा धरणीतले । वराकास् तेन ते नष्टा मषकाः कुहरेष्व् इव
अज्ञास्यन् यदि ते तत्त्वं भोगदुःखार्थिनस् ततः । भावाभावान्धकूपेषु नापतिष्यन् हताशयाः
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः । धराविवरमग्नानां कीटानां समतां गताः
ईहितानीहिताकारा कलनामृगतृष्णिका । सत्यावबोधमेघेन यस्य शान्ता स जीवति
कुतः किलास्याश् शुद्धाया अविच्छिन्नामलाकृतेः । चन्द्रिकाया रुचः कोष्णाः कलङ्ककलनाश् चितः
आत्मने ऽस्तु नमो मह्यम् अविच्छिन्नचिदात्मने । लोकालोकमणे देव चिरेणाधिगतो ऽस्य् अहो
परामृष्टो ऽसि लब्धो ऽसि प्रोदितो ऽसि चिराय च । उद्धृतो ऽसि विकल्पेभ्यो यो ऽसि सो ऽसि नमो ऽस्तु ते