आप्या रसमयी शक्तिर् अण्वोघविवृतोदया । सा यथा दारुकुड्येषु तथाहं सर्ववस्तुषु
परमां ताम् अहं सर्वपदार्थान्तरवर्तिताम् । उपेत्य संविद्वैचित्र्यं प्रतनोमि स्वयेच्छया
घृतं यथान्तः पयसि रसशक्तिर् यथा जले । चिच्छक्तिस् सर्वभावेषु तथान्तर् अहम् आस्थितः
इदं जगत् त्रिकालस्थं चिति मय्य् एव संस्थितम् । चेत्योपचाररहितं वस्तुजातम् इवावनौ
भरिताशेषदिक्कुक्षिस् त्यक्तसङ्कोचविभ्रमः । सर्वस्थस् सर्वधर्ता च विराट् सम्राड् अहं स्थितः
अपूर्वम् अनिबद्धेन्द्रम् अशस्त्रदलितामरम् । अप्रार्थितं मे सम्प्राप्तं जगद्राज्यम् इदं ततम्
अहो नु विततात्मास्मि न माम्य् आत्मात्मनात्मनि । कल्पान्तपवनोच्छून एकार्णव इवार्णवे
नात्मन्य् अन्तम् अवाप्नोमि स्वच्छे ऽन्तस् स्वोदिते स्वयम् । क्षीरवारिनिधौ पङ्गुस् सरीसृप इव स्फुरन्
स्वल्पेयं मठिका ब्राह्मी जगन्नाम्नी सुसङ्कटा । गजो बिल्व इवास्यां मे न माति विपुलं वपुः
विरिञ्चसदनात् पारे तत्त्वान्ते ऽप्य् आहरत् पदम् । प्रसरत्य् एव मे रूपम् अद्यापि न निवर्तते
अयं नामाहम् इत्य् अन्तः कुतो निरवलम्बना । अपर्यन्ताकृतेर् एषा किलासीत् स्वल्पता मम
भवान् अयम् अहं चायम् इति मिथ्यैव विभ्रमः । को देहः को ऽप्य् अदेहो वाप्य् अपारवपुषश् चितः
वराकाः पेलवधियो बभूवुर् मे पितामहाः । ये साम्राज्यम् इदं त्यक्त्वा रेमिरे ऽर्थविभूतिषु
क्वेयं किल महादृष्टिर् भरिता ब्रह्मबृंहिता । क्व सरीसृपभीमाभी रती राज्यविभूतिभिः
अनन्तानन्तसम्भोगा परोपशमशालिनी । शुद्धेयं चिन्मयी दृष्टिर् जयत्य् अखिलदृष्टिषु
सर्वभावान्तरस्थाय चेत्यमुक्तचिदात्मने । प्रत्यक्चेतनरूपाय मह्यम् एव नमो नमः
जयाम्य् अहम् अहं जातो जीर्णसंसारसंसृतिः । प्राप्तः प्राप्तो मयात्मायं जीवामि च जयामि च
इदम् उत्तमसाम्राज्यं बोधं सन्त्यज्य शाश्वतम् । न रमे ऽहम् अरम्यासु राज्यदुःखविभूतिषु
दारुवारिदृषन्मात्रे लुलुभे यो धरातले । धिग् वराकम् अनात्मज्ञं तं पितामहकीटकम्
अविद्यैकात्मभिर् द्रव्यैर् अविद्यामयम् आज्यपम् । अज्ञेन सन्तर्पयता किं नाम गुरुणा कृतम्
वर्षाणि कतिचित् प्राप्य जगद्ग्रामटिकाम् इमाम् । किं नाम प्रापद् उचितं हिरण्यकशिपुः किल
अनास्वाद्य शमानन्दं जगद्राज्यशतान्य् अपि । समास्वादयता नेह किञ्चिद् आस्वादितं भवेत्
न किञ्चिद् येन सम्प्राप्तं तेनेदं परमामृतम् । सम्प्राप्यान्तः प्रपूर्णेन सर्वं प्राप्तम् अखण्डितम्
त्यक्तामितपदो मूर्खो मितम् एति न पण्डितः । उष्ट्रो हि त्यक्तसुलतः कण्टकं याति नेतरः
परां दृष्टिम् इमां त्यक्त्वा दग्धराज्ये रमेत कः । कस् त्यक्तेक्षुरसः प्राज्ञः कटुनिम्बपयः पिबेत्
मूर्खा एव हि ते सर्वे बभूवुर् मे पितामहाः । इमां दृष्टिं परित्यज्य ये रता राज्यसङ्कटे
क्व फुल्ला नन्दनस्थल्यः क्व दग्धा मरुभूमयः । क्वेमा बोधदृशश् शान्ताः क्व भोगेष्व् आत्मबुद्धयः
न किञ्चिद् अस्ति त्रैलोक्ये यद् राज्यम् अभिवाञ्छ्यते । सर्वं चास्त्य् एव चित्तत्त्वे तत् कस्मान् नानुभूयते
चिता सर्वस्थया स्वच्छसमया निर्विकारया । सर्वथा सर्वदा सर्वं सर्वतस् साधु लभ्यते
भानवी तैजसी शक्तिर् अमृतस्रुतिर् ऐन्दवी । ब्राह्मी महत्ता महती शाक्री त्रैलोक्यराजता