ममैतद् वपुर् आनीलं शङ्खचक्रगदाधरम् । सर्वसौभाग्यसीमान्तो ह्य् अस्मिञ् जगति वल्गति
अहम् अस्मिन् समुद्भूतः पद्मासनगतस् सदा । निर्विकल्पसमाधिस्थः परां निर्वृतिम् आगतः
अहं त्रिनेत्रयाकृत्या गौरीवक्त्राब्जषट्पदः । सर्गान्ते संहरामीदं कूर्मो ऽङ्गपटलं यथा
अहम् ऐन्द्रेण रूपेण त्रिलोकीमठिकाम् इमाम् । पालयामि क्रमप्राप्तां मठिकाम् इव तापसः
अहं तृणलतागुल्मजालं रसतया स्थितः । उत्थापयामि चिद्भूमेः कूपाद् उरुलताम् इव
स्वलीलार्थम् इदं चारु जगदाडम्बरं ततम् । मयाभिजातबालेन पङ्कक्रीडनकं यथा
मयीदम् अर्प्यते सर्वं सत्तां मां प्राप्य गच्छति । मत्परित्यक्तम् एतच् च सद् अप्य् एव न किञ्चन
मयि स्फारे चिदादर्शे प्रतिबिम्बं यद् आगतम् । तद् अस्ति नेतरत् तस्मान् मत्तो ऽन्यन् नेह विद्यते
कुसुमेष्व् अहम् आमोदः पद्मपत्त्रेष्व् अहं छविः । छविष्व् अहं रूपकला रूपेष्व् अनुभवो ऽप्य् अहम्
यद् यत् किञ्चिद् इदं दृश्यं जगत् स्थावरजङ्गमम् । सर्वसङ्कल्परहितं तच् चित्तत्त्वम् अहं परम्
आप्या रसमयी शक्तिर् अण्वोघविवृतोदया । सा यथा दारुकुड्येषु तथाहं सर्ववस्तुषु
परमां ताम् अहं सर्वपदार्थान्तरवर्तिताम् । उपेत्य संविद्वैचित्र्यं प्रतनोमि स्वयेच्छया
घृतं यथान्तः पयसि रसशक्तिर् यथा जले । चिच्छक्तिस् सर्वभावेषु तथान्तर् अहम् आस्थितः
इदं जगत् त्रिकालस्थं चिति मय्य् एव संस्थितम् । चेत्योपचाररहितं वस्तुजातम् इवावनौ
भरिताशेषदिक्कुक्षिस् त्यक्तसङ्कोचविभ्रमः । सर्वस्थस् सर्वधर्ता च विराट् सम्राड् अहं स्थितः
अपूर्वम् अनिबद्धेन्द्रम् अशस्त्रदलितामरम् । अप्रार्थितं मे सम्प्राप्तं जगद्राज्यम् इदं ततम्
अहो नु विततात्मास्मि न माम्य् आत्मात्मनात्मनि । कल्पान्तपवनोच्छून एकार्णव इवार्णवे
नात्मन्य् अन्तम् अवाप्नोमि स्वच्छे ऽन्तस् स्वोदिते स्वयम् । क्षीरवारिनिधौ पङ्गुस् सरीसृप इव स्फुरन्
स्वल्पेयं मठिका ब्राह्मी जगन्नाम्नी सुसङ्कटा । गजो बिल्व इवास्यां मे न माति विपुलं वपुः
विरिञ्चसदनात् पारे तत्त्वान्ते ऽप्य् आहरत् पदम् । प्रसरत्य् एव मे रूपम् अद्यापि न निवर्तते
अयं नामाहम् इत्य् अन्तः कुतो निरवलम्बना । अपर्यन्ताकृतेर् एषा किलासीत् स्वल्पता मम
भवान् अयम् अहं चायम् इति मिथ्यैव विभ्रमः । को देहः को ऽप्य् अदेहो वाप्य् अपारवपुषश् चितः
वराकाः पेलवधियो बभूवुर् मे पितामहाः । ये साम्राज्यम् इदं त्यक्त्वा रेमिरे ऽर्थविभूतिषु
क्वेयं किल महादृष्टिर् भरिता ब्रह्मबृंहिता । क्व सरीसृपभीमाभी रती राज्यविभूतिभिः
अनन्तानन्तसम्भोगा परोपशमशालिनी । शुद्धेयं चिन्मयी दृष्टिर् जयत्य् अखिलदृष्टिषु
सर्वभावान्तरस्थाय चेत्यमुक्तचिदात्मने । प्रत्यक्चेतनरूपाय मह्यम् एव नमो नमः
जयाम्य् अहम् अहं जातो जीर्णसंसारसंसृतिः । प्राप्तः प्राप्तो मयात्मायं जीवामि च जयामि च
इदम् उत्तमसाम्राज्यं बोधं सन्त्यज्य शाश्वतम् । न रमे ऽहम् अरम्यासु राज्यदुःखविभूतिषु
दारुवारिदृषन्मात्रे लुलुभे यो धरातले । धिग् वराकम् अनात्मज्ञं तं पितामहकीटकम्
अविद्यैकात्मभिर् द्रव्यैर् अविद्यामयम् आज्यपम् । अज्ञेन सन्तर्पयता किं नाम गुरुणा कृतम्