एकदा सो ऽमलप्रज्ञो मेराव् एकान्तसंस्थितम् । पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं मुनिम्
संसाराडम्बरम् इदं कथम् अभ्युत्थितं मुने । कथं च प्रशमं याति कियत् कस्य कदेति च
इति पृष्टेन मुनिना व्यासेनाखिलम् आत्मजे । यथावद् अमलं प्रोक्तं वक्तव्यं विदितात्मना
अज्ञासिषं पूर्वम् एतद् अहम् इत्य् अथ तत्पितुः । स शुकश् शुद्धया बुद्ध्या न वाक्यं बह्व् अमन्यत
व्यासो ऽपि भगवान् बुद्ध्वा पुत्राभिप्रायम् ईदृशम् । प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः
जनको नाम भूपालो विद्यते वसुधातले । यथावद् वेत्त्य् असौ वेद्यं तस्मात् सर्वम् अवाप्स्यसि
पित्रेत्य् उक्तश् शुकः प्रायात् सुमेरोर् वसुधातलम् । विदेहनगरीं प्राप जनकेनाभिपालिताम्
आवेदितो ऽसौ याष्टीकैर् जनकाय महात्मने । द्वारि व्याससुतो राजञ् शुको ऽत्र स्थितवान् इति
जिज्ञासार्थं शुकस्यासाव् आस्ताम् एवेत्य् अवज्ञया । उक्त्वा बभूव जनकस् तूष्णीं सप्तदिनान्य् अपि
ततः प्रवेशयाम् आस जनकश् शुकम् अङ्गनम् । तत्राहानि स सप्तैव तथैवावसद् उन्मनाः
अथ प्रवेशयाम् आस जनको ऽन्तःपुरं शुकम् । राजा न दृश्यते तावद् इति सप्तदिनानि तम्
तत्रोन्मदाभिः कान्ताभिर् भोजनैर् भोगसञ्चयैः । जनको लालयाम् आस शुकं शशिसमाननम्
ते भोगास् तानि दुःखानि व्यासपुत्रस्य तन् मनः । न जह्रुर् मन्दपवनो बद्धपीठम् यथाचलम्
केवलं सशमस् स्वच्छो मौनी मुदितमानसः । अतिष्ठद् अत्र स शुकस् सम्पूर्ण इव चन्द्रमाः
परिज्ञातस्वभावं तं शुकं स जनको नृपः । आनीय मुदितात्मानम् अवलोक्य ननाम ह
निश्शेषितजगत्कार्य प्राप्ताखिलमनोरथ । किम् ईप्सितं तवेत्य् आशु कृतस्वागतम् आह तम्
संसाराडम्बरम् इदं कथम् अभ्युत्थितं गुरो । कथं प्रशमम् आयाति यथावत् कथयाशु मे
जनकेनेति पृष्टेन शुकस्य कथितं तथा । तद् एव यत् पुरा प्रोक्तं तस्य पित्रा महात्मना
स्वयम् एव मया पूर्वम् एतज् ज्ञातं विवेकतः । एतावद् एव पृष्टेन पित्रा मे समुदाहृतम्
भवताप्य् एष एवार्थः कथितो वाग्विदां वर । एष एव च वाक्यार्थश् शास्त्रेषु परिदृश्यते
यथायं स्वविकल्पोत्थस् स्वविकल्पपरिक्षयात् । क्षीयते दग्धसंसारो निस्सार इति निश्चयः
तत् किम् एतन् महाबाहो सत्यं ब्रूहि ममामलम् । त्वत्तो विश्रामम् आप्नोति चेतो मा भ्रमताज् जगत्
नातः परतरः कश्चिन् निश्चयो ऽस्त्य् अपरो मुने । स्वयम् एतत् त्वया ज्ञातं गुरुतश् च पुनश् श्रुतम्
अव्युच्छिन्नश् चिदात्मैकः पुमान् अस्तीह नेतरत् । स सङ्कल्पवशाद् बद्धो निस्सङ्कल्पश् च मुच्यते
येन त्व् एतत् स्फुटं ज्ञातं ज्ञेयं तस्य महात्मनः । भोगेभ्यो विरतिर् जाता दृश्याद् वा सकलाद् इह
तव चालं महावीर मतिर् विरतिम् आगता । भोगेभ्यो दीर्घरोगेभ्यः किम् अन्यत् परिपृच्छसि
न तथा पूर्णता जाता सर्वज्ञानमहानिधेः । तिष्ठतस् तपसि स्फारे पितुस् तव यथा तव
व्यासाद् अधिक एवाहं व्यासशिष्यो ऽपि तत्सुतः । भोगेच्छातानवेनेह मत्तो ऽप्य् अभ्यधिको भवान्
प्राप्तं प्राप्तव्यम् अखिलं भवता पूर्णचेतसा । न दृश्ये पतसि ब्रह्मन् मुक्तस् त्वं भ्रान्तिम् उत्सृज
अनुशिष्टस् स इत्य् एवं जनकेन महात्मना । विशश्राम शुकस् तूष्णीं स्वच्छे परमवस्तुनि