त्वचा क्षणविनाशिन्या प्राप्यम् अप्राप्यम् अन्यथा । चित्प्रसादोपलब्धात्म स्पर्शनं नास्म्य् अचेतनम्
लब्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया । स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नाहम् अचेतनः
दृश्यदर्शनयोर् लीनं क्षयि क्षणविनाशिनोः । केवले द्रष्टरि क्षीणं रूपं नाहम् अचेतनम्
नासयात्यन्तजडया क्षयिण्या परिकल्पितः । पेलवो ऽनियताधारो गन्धो नाहम् अचेतनः
निर्ममो ऽमननश् शान्तो गतपञ्चेन्द्रियभ्रमः । शुद्धश् चेतन एवाहं कलाकलनवर्जितः
चेत्यवर्जितचिन्मात्रम् अहम् एषो ऽवभासकः । सबाह्याभ्यन्तरव्यापी निष्कलामलसन्मयः
आ इदानीं स्मृतं सत्यम् एतत् तद् अखिलं मया । निर्विकल्पचिदाभास एष आत्मास्मि सर्वगः
अनेन चेतनेनेमे सर्वे घटपटादयः । सूर्यान्ता अवभासन्ते दीपेनोत्तमतेजसा
अनेनैतास् स्फुरन्तीह विचित्रेन्द्रियवृत्तयः । तेजसान्तः प्रकाशेन यथाग्निकणपङ्क्तयः
अनेनैतास् स्फुरन्त्य् अन्तर् मनोमननशक्तयः । सर्वगेन निदाघेन यथा मरुमरीचयः
अनेनैतत् पदार्थानां वस्तुत्वं प्रतिपाद्यते । शुक्लादिगुणवत्त्वं स्वं प्रदीपेनेव वाससाम्
असाव् एव हि भूतानां सर्वेषाम् एव जाग्रताम् । सर्वानुभविता भूमाव् आत्मा मकुरवत् स्थितः
अस्य तस्याविकल्पस्य चिद्दीपस्य प्रसादतः । उष्णो ऽर्कश् शिशिरश् चन्द्रो घनो ऽद्रिर् विद्रुतं पयः
सातत्येनानुभूतानां पदार्थानाम् अनेन तत् । पदार्थत्वम् उदेत्य् उच्चैः प्रतापेनेव तप्तता
ब्रह्मविष्ण्विन्द्ररुद्राणां कारणानां जगत्स्थितौ । एतत् कारणम् आद्यं तत् कारणं नास्य विद्यते
अकारणाद् अकरणात् सर्वकारणकारणात् । एतस्माज् जगद् उत्पन्नम् इदं शैत्यं हिमाद् इव
चिच्चेत्यद्रष्टृदृश्यादिनामभिर् वर्जितात्मने । सते सकृद्विभाताय मह्यम् अस्मै नमो नमः
एतस्मिन् सर्वभूतानि निर्विकल्पचिदात्मनि । गुणभूतानि भूतेशे तिष्ठन्ति च विशन्ति च
यत् किलानेन कलितं चेतनेनान्तर् आत्मना । तत् तद् भवति सर्वत्र नेतरत् सद् अपि स्थितम्
यच् चिता कलितं किञ्चित् तद् आप्नोति निजं पदम् । यच् चिता कलितं नेह तत् सद् अप्य् अस्तम् आगतम्
इमा घटपटाकारपदार्थशतपङ्क्तयः । जागत्यो विपुलादर्शे ह्य् अस्मिन् व्योमनि बिम्बिताः
अदृश्यं सर्वभूतानां प्राप्यं गलितचेतसाम् । एतत् तद् दृश्यते सद्भिः परं व्योमेति तन्मयैः
एतद् वृद्धं वृद्धिमति क्षयि क्षयिणि जागते । पदार्थे सद् असच् चापि प्रतिबिम्बार्कवत् स्थितम्
इयम् अभ्युदयं याति नानाता दृश्यमञ्जरी । आचारचञ्चरीकाढ्या एतस्माद् कारणद्रुमाद्
अस्माद् इयम् उदेत्य् उच्चैस् संसाररचना चला । विचित्रतरुगुल्माढ्या शैलाद् इव वनावली
सर्वेषाम् अविभिन्नो ऽसौ त्रैलोक्योदरवर्तिनाम् । ब्रह्मादीनां तृणान्तानां चिदात्मा सम्प्रकाशकः
एषो ऽसाव् अहम् आद्यन्तरहितस् सर्वगाकृतिः । चराचराणाम् भूतानाम् अन्तस् स्वानुभवस् स्थितः
अस्य तस्य ममेमानि स्थावराणि चराणि च । परिसङ्ख्याविहीनानि शरीराणि बहूनि च
एषो ऽसाव् अहम् एकात्मा स्वानुभूतिवशात् स्वयम् । सर्वदृग्द्रष्टृदृश्यत्वात् सहस्रकरलोचनः
एषो ऽसाव् अहम् आकाशे सूर्यदेहेन चारुणा । विहरामीतरेणापि वायुदेहेन वाहिना