सर्वसङ्कल्पफलद सर्वलोकान्तरस्थित । यद् उदारतमं वेत्सि तद् एवादिश देव मे
सर्वसम्भ्रमसंशान्त्यै परमाय फलाय च । ब्रह्मविश्रान्तिपर्यन्तो विवेको ऽस्तु तवानघ
इत्य् उक्त्वा दितिपुत्रेन्द्रं विष्णुर् अन्तरधीयत । कृतघर्घरनिर्ह्रादस् तरङ्गस् तोयधेर् इव
विष्णाव् अन्तर्हिते देवे पूजायाः कुसुमाञ्जलिम् । पाश्चात्यं दानवस् त्यक्त्वा मणिरत्नपरिष्कृतम्
पद्मासनस्थो ऽथ मृदाव् उपविश्य वरासने । स्तोत्रपाठविधाव् अत्र चिन्तयाम् आस चिन्तया
विचारवान् एव भवान् भवत्व् इति भवारिणा । देवेनोक्तो ऽस्मि तेनान्तः करोम्य् आशु विचारणाम्
किम् अहं नाम तावत् स्यां यो ऽस्मिन् भुवनडम्बरे । वच्मि गच्छामि तिष्ठामि प्रयते चाहरामि च
जगत् तावद् इदं नाहं सवृक्षवनपर्वतम् । यद् बाह्यं जडम् अत्यन्तं तत् स्यां कथम् अहं किल
असन्न् अभ्युत्थितो मूकः पवनैस् स्फुरति क्षणम् । कालेनाल्पेन विलयी देहो नाहम् अचेतनः
जडया कर्णशष्कुल्या कल्प्यमानः क्षणस्थया । शून्याकृतिश् शून्यभवश् शब्दो नाहम् अचेतनः
त्वचा क्षणविनाशिन्या प्राप्यम् अप्राप्यम् अन्यथा । चित्प्रसादोपलब्धात्म स्पर्शनं नास्म्य् अचेतनम्
लब्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया । स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नाहम् अचेतनः
दृश्यदर्शनयोर् लीनं क्षयि क्षणविनाशिनोः । केवले द्रष्टरि क्षीणं रूपं नाहम् अचेतनम्
नासयात्यन्तजडया क्षयिण्या परिकल्पितः । पेलवो ऽनियताधारो गन्धो नाहम् अचेतनः
निर्ममो ऽमननश् शान्तो गतपञ्चेन्द्रियभ्रमः । शुद्धश् चेतन एवाहं कलाकलनवर्जितः
चेत्यवर्जितचिन्मात्रम् अहम् एषो ऽवभासकः । सबाह्याभ्यन्तरव्यापी निष्कलामलसन्मयः
आ इदानीं स्मृतं सत्यम् एतत् तद् अखिलं मया । निर्विकल्पचिदाभास एष आत्मास्मि सर्वगः
अनेन चेतनेनेमे सर्वे घटपटादयः । सूर्यान्ता अवभासन्ते दीपेनोत्तमतेजसा
अनेनैतास् स्फुरन्तीह विचित्रेन्द्रियवृत्तयः । तेजसान्तः प्रकाशेन यथाग्निकणपङ्क्तयः
अनेनैतास् स्फुरन्त्य् अन्तर् मनोमननशक्तयः । सर्वगेन निदाघेन यथा मरुमरीचयः
अनेनैतत् पदार्थानां वस्तुत्वं प्रतिपाद्यते । शुक्लादिगुणवत्त्वं स्वं प्रदीपेनेव वाससाम्
असाव् एव हि भूतानां सर्वेषाम् एव जाग्रताम् । सर्वानुभविता भूमाव् आत्मा मकुरवत् स्थितः
अस्य तस्याविकल्पस्य चिद्दीपस्य प्रसादतः । उष्णो ऽर्कश् शिशिरश् चन्द्रो घनो ऽद्रिर् विद्रुतं पयः
सातत्येनानुभूतानां पदार्थानाम् अनेन तत् । पदार्थत्वम् उदेत्य् उच्चैः प्रतापेनेव तप्तता
ब्रह्मविष्ण्विन्द्ररुद्राणां कारणानां जगत्स्थितौ । एतत् कारणम् आद्यं तत् कारणं नास्य विद्यते
अकारणाद् अकरणात् सर्वकारणकारणात् । एतस्माज् जगद् उत्पन्नम् इदं शैत्यं हिमाद् इव
चिच्चेत्यद्रष्टृदृश्यादिनामभिर् वर्जितात्मने । सते सकृद्विभाताय मह्यम् अस्मै नमो नमः
एतस्मिन् सर्वभूतानि निर्विकल्पचिदात्मनि । गुणभूतानि भूतेशे तिष्ठन्ति च विशन्ति च
यत् किलानेन कलितं चेतनेनान्तर् आत्मना । तत् तद् भवति सर्वत्र नेतरत् सद् अपि स्थितम्
यच् चिता कलितं किञ्चित् तद् आप्नोति निजं पदम् । यच् चिता कलितं नेह तत् सद् अप्य् अस्तम् आगतम्