क्वाधमः प्राकृतारम्भो हीनकर्मरतिस् सदा । वराको दानवस् तुच्छजातिर् भक्तिः क्व वैष्णवी
कमलिनी परुषोषरभूगता सुखयतीह यथा न दुराश्रया । दनुसुतो ऽपि हि माधवभक्तिमान् इति कथा न तथेश सुखाय नः
गर्जन्तम् अतिसंरब्धं सुरलोकम् अथारिहा । उवाच माधवो वाक्यं शिखिवृन्दम् इवाम्बुदः
विबुधा मा विषण्णास् स्थ प्रह्लादो भक्तिमान् इति । पाश्चात्यं जन्म तस्येदं मोक्षार्हो ऽसाव् अरिन्दमः
इत उत्तरम् एतेन गर्भता दनुसूनुना । न कर्तव्या प्रदग्धेन बीजेनेवाङ्कुरक्रिया
गुणवान् निर्गुणो जात इत्य् अनर्थक्रमं विदुः । निर्गुणो गुणवाञ् जात इत्य् आहुस् सिद्धिदं क्रमम्
आत्मीयानि विचित्राणि भुवनान्य् अमरोत्तमाः । प्रयात नासुखायैषा प्राह्लादी गुणितेह वः
इत्य् उक्त्वा विबुधांस् तत्र क्षीरोदार्णववीचिषु । अन्तर्धानं ययौ देवस् तटतापिञ्छगुच्छवत्
सो ऽपि सम्पूजितहरिस् सुरौघो ऽव्रजद् अम्बरम् । पुनर् मन्दरनिर्धूतात् कणजालम् इवार्णवात्
प्रह्लादं प्रति गीर्वाणास् ततस् स्निग्धत्वम् आययुः । महान्तो यत्र नोद्विग्नास् तत्र विश्वासवन् मनः
प्रत्यहं पूजयाम् आस देवदेवं जनार्दनम् । मनसा कर्मणा वाचा प्रह्लादो भक्तिमान् इति
अथ पूजापरस्यास्य समवर्धन्त कालतः । विवेकानन्दवैराग्यविभवप्रमुखा गुणाः
नाभ्यनन्दद् असौ भोगपूगं शुष्कम् इव द्रुमम् । न चारमत कान्तासु मृगो मरुमहीष्व् इव
न रेमे लोकचर्चासु शास्त्रार्थकथनाद् ऋते । नाजायत रतिस् तस्य दृश्ये स्थल इवाब्जिनी
न विशश्राम चेतो ऽस्य भोगरोगानुरञ्जने । मुक्ताफलम् असंश्लिष्टं मुक्ताफल इवातले
त्यक्तभोगाभिकलनं विश्रान्तिम् अथ नागतम् । चेतः केवलम् अस्यासीद् दोलायाम् इव योजितम्
प्राह्लादीं तां स्थितिं कृष्णदेहः क्षीरोदकोटरात् । विवेद सर्वगतया तया परमकान्तया
अथ पातालमार्गेण विष्णुर् आह्लादिताग्रगः । पूजादेवगृहं तस्य प्रह्लादस्य समाययौ
विज्ञायाभ्यागतं देवं पूजया द्विगुणेद्धया । दैत्येन्द्रः पुण्डरीकाक्षम् आदरात् पर्यपूजयत्
पूजागृहगतं देवं प्रत्यक्षावस्थितं हरिम् । प्रह्लादः परमप्रीतो गिरा तुष्टाव पुष्टया
त्रिभुवनभवनाभिरामकोशं सकलकलङ्कहरं परं प्रकाशम् । अशरणशरणं शरण्यम् ईशं हरिम् अजम् ईश्वरम् अच्युतं प्रपद्ये
कुवलयदलशैलसन्निकाशं शरदमलाम्बरकोटरोपमानम् । भ्रमरतिमिरकज्जलाञ्जनाभं सरसिजचक्रगदाधरं प्रपद्ये
विचलदलिकलापकोमलाङ्गं सितदलपङ्कजकुट्मलाभशङ्खम् । श्रुतिरणितविरिञ्चचञ्चरीकं स्वहृदयपद्मजलाशयं प्रपद्ये
सितमणिगणतारकावकीर्णं स्मितधवलाननपीवरेन्दुबिम्बम् । हृदयमणिमरीचिजालगङ्गं हरिशरदम्बरम् आततं प्रपद्ये
त्रिभुवननलिनीसितारविन्दं तिमिरसमानविमोहदीपम् अग्र्यम् । जडतरम् अजडं चिदात्मतत्त्वं जगदखिलार्तिहरं हरिं प्रपद्ये
नवविकसितपद्मरेणुगौरं स्फुटकमलावपुषोपरूषिताङ्गम् । दिनगमसमयारुणाम्बराभं कनकनिभाम्बरसुन्दरं प्रपद्ये
अविरतहतसृष्टसर्गलीलं सततम् अजातम् अवर्धनं विशालम् । युगशतजरढाभिजातदेहं तरुतलशायिनम् अर्भकं प्रपद्ये
दितिसुतनलिनीतुषारपातं सुरनलिनीसततोदितार्कबिम्बम् । कमलजनलिनीजलावपूरं हृदि नलिनीनिलयं विभुं प्रपद्ये
इति गुणबहुलाभिर् वाग्भिर् अभ्यर्चितो ऽसौ हरिर् असुरविनाशश् श्रीनिषण्णांसदेशः । जलद इव मयूरं प्रीतिमान् प्रीयमाणं कुवलयदलदेहः प्रत्युवाचासुरेन्द्रम्
वरं गुणनिधे दैत्यकुलचूडामहामणे । गृहाणाभिमतं भूयोजन्मदुःखोपशान्तये