तत एनं महादेवं पूजयिष्याम्य् अहं पुनः । पूजया बाह्यसम्भोगमहत्या बहुरत्नया
प्रह्लाद इति सञ्चिन्त्य सम्भारभरभारिणा । मनसा पूजयाम् आस माधवं कमलाधवम्
रत्नार्घपात्रपटलैश् चन्दनादिविलेपनैः । धूपैर् दीपैर् विचित्रैश् च नानाविभवभूषणैः
मन्दारमालावलनैर् हेमाब्जपटलोत्करैः । कल्पवृक्षलतागुच्छै रत्नस्तबकमण्डलैः
पल्लवैर् देववृक्षाणां नानाकुसुमदामभिः । किङ्किरातैर् बुकैः कुन्दैश् चण्पकैर् असितोत्पलैः
कल्हारैः कुमुदैः काशैः खर्जूरैश् चूतकिंशुकैः । अशोकैर् मदनैर् बिल्वैः कर्णिकारैः किरातकैः
कदम्बैः कुकुरैर् नीपैस् सिन्धुवारैस् सयूथिकैः । पारिभद्रैर् गुग्गुलुभिर् विदुलैः कुय्यकोत्करैः
प्रियङ्गुपटलैः पाटैः पाटलैर् धातुपाटलैः । आम्रैर् आम्रातकैर् भव्यैर् हरीतकविभीतकैः
सालतालतमालानां लताकुसुमपल्लवैः । कोमलैः कलिकाजालैस् सहकारैस् सकुङ्कुमैः
केतकैस् सप्तपर्णैश् च तथेरामञ्जरीगणैः । विचित्रपालीवतजैर् नानाटङ्कतरूद्भवैः
मनोहरारुकोद्भूतैर् मालतीमाधवीगणैः । नवशेफालिकाजालैस् सुवर्णसुमनोहरैः
भक्ष्यैर् भोज्यैस् तथा पानैर् लेह्यैः पेयैश् च पिच्छिलैः । रसैः फलैः पल्लवैश् च विविधास्वादजातिभिः
अंशुकैश् शयनैर् यानैर् महार्हैर् हेमविष्टरैः । गेयैर् नृत्तैर् वादनैश् च महार्हललनागणैः
उद्यानोपवनाभोगसमग्रविभवार्पणैः । सर्वसौन्दर्यसम्मानैस् स्वयम् आत्मार्पणैर् अपि
हरिं परमया भक्त्या जगद्विभवभव्यया । मनसा पूजयाम् आस प्रह्लादो ऽन्तःपुरे पतिम्
अथ देवगृहे तस्मिन् बाह्यार्थैः परिपूर्णया । पूजया पूजयाम् आस दानवेशो जनार्दनम्
बहिर्दृश्येन तेनैव क्रमेण परमेश्वरम् । पुनः पुनः पूजयित्वा तुष्टिमान् दानवो ऽभवत्
ततस् ततः प्रभृत्य् एव प्रह्लादः परमेश्वरम् । तथैव प्रत्यहं भक्त्या पूजयाम् आस पूर्णया
अथ तस्मिन् पुरे दैत्यास् ततः प्रभृति वैष्णवाः । सर्व एवाभवन् भव्या राजा ह्य् आचारकारणम्
जगाम वार्त्ता गगनं देवलोकम् अथो हरिम् । विष्णोर् द्वेषं परित्यज्य भक्ता दैत्यास् स्थिता इति
देवा विस्मयम् आजग्मुश् शक्राद्यास् समरुद्गणाः । गृहीता वैष्णवी भक्तिर् दैत्यैः किम् इति राघव
क्षीरोदे भोगिभोगस्थं विबुधा विस्मयाकुलाः । जग्मुर् अम्बरम् उत्सृज्य हरिम् आहवशालिनं
तत्रैतं दैत्यवृत्तान्तं कथयाम् आसुर् अस्य ते । पप्रच्छुश् चैनम् आसीनम् अपूर्वाश्चर्यविस्मयात्
किम् एतद् भगवन् दैत्या विरुद्धा ये सदैव ते । ते हि त्वन्मयतां याता मायेयम् इति भाव्यते
क्व किलात्यन्तदुर्वृत्ता दानवा दलिताद्रयः । क्व पाश्चात्यमहाजन्मलभ्या भक्तिर् जनार्दने
प्राकृतो गुणवाञ् जात इत्य् एषा भगवन् कथा । अकालपुष्पमालेव सुखायोद्वेजनाय च
नोपपन्नं हि यद् यत्र तत्र तन् न विराजते । मध्ये काचकलापस्य महामूल्यो मणिर् यथा
यो यो यादृग्गुणो जन्तुस् स ताम् एवैति संस्थितिम् । सदृशेष्व् अप्य् अजेषु श्वा न मन्ये रमते क्वचित्
न तथा दुःखयन्त्य् अङ्गे मज्जन्त्यो वज्रसूचयः । वैसादृश्येन सम्बद्धा यथैता वस्तुदृष्टयः
यद् यत्र क्रमसम्प्राप्तम् उपपन्नम् अनिन्दितम् । तद् एव राजते तत्र जले ऽम्भोजं न तु स्थले