केवलं मार्जनामात्रं मनाग् एवोपयुज्यते । स्वभावविमले नित्यं सुबुद्धिमकुरे तव
भगवद्व्यासपुत्रस्य शुकस्येव मतिस् तव । विश्रान्तिमात्रम् एवान्तर् ज्ञातज्ञेयाप्य् अपेक्षते
भगवद्व्यासपुत्रस्य शुकस्य भगवन् कथम् । धियाप्य् आदौ न विश्रान्तं विश्रान्तं च धिया पुनः
आत्मोदन्तसमं राम वर्ण्यमानम् इमं मया । शृणु व्यासात्मजोदन्तं जन्मनाम् अन्तकारणम्
यो ऽयम् अञ्जनवर्णाभो निविष्टो हेमविष्टरे । पार्श्वे तव पितुर् व्यासो भगवान् भास्करद्युतिः
अस्याभूद् इन्दुवदनस् तनयो नयकोविदः । शुको नाम महाप्राज्ञो यज्ञो मूर्त्येव संस्थितः
प्रविचारयतो लोकयात्राम् अलम् इमां हृदि । तवेव किल तस्यापि विवेक उदभूद् भृशम्
तेनासौ स्वविवेकेन स्वयम् एव महामते । विचार्य सुचिरं चारु यत् सत्यं तद् अवाप्तवान्
स्वयं प्राप्ते परे वस्तुन्य् अविश्रान्तमनास् ततः । नेदं वस्त्व् इति विश्वासं नासाव् आत्मन्य् उपाययौ
केवलं विररामास्य चेतो विगतचापलम् । भोगेभ्यो भूरिभङ्गेभ्यो धराद्भ्य इव चातकः
एकदा सो ऽमलप्रज्ञो मेराव् एकान्तसंस्थितम् । पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं मुनिम्
संसाराडम्बरम् इदं कथम् अभ्युत्थितं मुने । कथं च प्रशमं याति कियत् कस्य कदेति च
इति पृष्टेन मुनिना व्यासेनाखिलम् आत्मजे । यथावद् अमलं प्रोक्तं वक्तव्यं विदितात्मना
अज्ञासिषं पूर्वम् एतद् अहम् इत्य् अथ तत्पितुः । स शुकश् शुद्धया बुद्ध्या न वाक्यं बह्व् अमन्यत
व्यासो ऽपि भगवान् बुद्ध्वा पुत्राभिप्रायम् ईदृशम् । प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः
जनको नाम भूपालो विद्यते वसुधातले । यथावद् वेत्त्य् असौ वेद्यं तस्मात् सर्वम् अवाप्स्यसि
पित्रेत्य् उक्तश् शुकः प्रायात् सुमेरोर् वसुधातलम् । विदेहनगरीं प्राप जनकेनाभिपालिताम्
आवेदितो ऽसौ याष्टीकैर् जनकाय महात्मने । द्वारि व्याससुतो राजञ् शुको ऽत्र स्थितवान् इति
जिज्ञासार्थं शुकस्यासाव् आस्ताम् एवेत्य् अवज्ञया । उक्त्वा बभूव जनकस् तूष्णीं सप्तदिनान्य् अपि
ततः प्रवेशयाम् आस जनकश् शुकम् अङ्गनम् । तत्राहानि स सप्तैव तथैवावसद् उन्मनाः
अथ प्रवेशयाम् आस जनको ऽन्तःपुरं शुकम् । राजा न दृश्यते तावद् इति सप्तदिनानि तम्
तत्रोन्मदाभिः कान्ताभिर् भोजनैर् भोगसञ्चयैः । जनको लालयाम् आस शुकं शशिसमाननम्
ते भोगास् तानि दुःखानि व्यासपुत्रस्य तन् मनः । न जह्रुर् मन्दपवनो बद्धपीठम् यथाचलम्
केवलं सशमस् स्वच्छो मौनी मुदितमानसः । अतिष्ठद् अत्र स शुकस् सम्पूर्ण इव चन्द्रमाः
परिज्ञातस्वभावं तं शुकं स जनको नृपः । आनीय मुदितात्मानम् अवलोक्य ननाम ह
निश्शेषितजगत्कार्य प्राप्ताखिलमनोरथ । किम् ईप्सितं तवेत्य् आशु कृतस्वागतम् आह तम्
संसाराडम्बरम् इदं कथम् अभ्युत्थितं गुरो । कथं प्रशमम् आयाति यथावत् कथयाशु मे
जनकेनेति पृष्टेन शुकस्य कथितं तथा । तद् एव यत् पुरा प्रोक्तं तस्य पित्रा महात्मना
स्वयम् एव मया पूर्वम् एतज् ज्ञातं विवेकतः । एतावद् एव पृष्टेन पित्रा मे समुदाहृतम्
भवताप्य् एष एवार्थः कथितो वाग्विदां वर । एष एव च वाक्यार्थश् शास्त्रेषु परिदृश्यते