अनन्तम् इदम् आकाशम् आपूर्य विनतासुतः । कनकाङ्गो ममाङ्गानाम् अयम् आसनतां गतः
करशाखैकविश्रान्तसर्वहेतिविहङ्गमाः । नखांशुमञ्जरीकीर्णा महामरकतद्रुमाः
इमे ते मृदुमन्दारदामदृब्धांसमण्डलाः । मन्दराघृष्टकेयूराश् चत्वारो मम बाहवः
चलच्छशिकरापूरचारुचामरधारिणी । इयं मे पार्श्वगा लक्ष्मीः क्षीरोदजठरोत्थिता
हेलाविलब्धभुवना त्रैलोक्यतरुमञ्जरी । इयं मे पार्श्वगा कीर्तिर् धवलामलहासिनी
अनारतं जगज्जालनवनिर्माणकारिणी । इयं मे पार्श्वगा माया स्वेन्द्रजालविलासिनी
इयं सा हेलयाक्रान्तत्रैलोक्यतरुषण्डिका । जया स्फुरति मे पार्श्वे लता कल्पतरोर् इव
इमौ मे नित्यशीतोष्णौ देवौ शीतांशुभास्करौ । प्रकटीकृतसंसारौ मुखमध्ये विलोचने
ममेयम् उत्पलश्यामा पीनाम्भोधरसुन्दरी । श्यामीकृतककुप्चक्रा देहदीप्तिर् विसारिणी
अयं मम करे शङ्खः पाञ्चजन्यस् स्फुरद्ध्वनिः । मूर्तं खम् इव शब्दात्म क्षीरोद इव संस्थितः
अयं मे कर्णिकाकोशनिलीनब्रह्मषट्पदः । पद्मः करतले श्रीमान् स्वनाभिकुहरोद्भवः
इयं मे रत्नचित्राङ्गी सुमेरुशिखरोपमा । हेमाङ्गदा गदा गुर्वी दैत्यदानवमर्दिनी
अयं मे भासुराकारस् सुखदृश्यस् सुदर्शनः । ज्वालाजटिलपर्यन्तपरिपाटलदिक्तटः
अयं मे केतुमद्वह्निसुन्दरो ज्वलितो ऽसितः । कुठारो दैत्यवृक्षाणां नन्दयन् नन्दकस् स्थितः
इदं मच्छरधाराणां पुष्करावर्तको घनः । शार्ङ्गं धनुर् अहीन्द्राभम् इन्द्रकार्मुकसुन्दरम्
इमान्य् अहम् अनन्तानि जगन्ति जठरे चिरम् । बिभर्मि जातनष्टानि वर्तमानान्य् अनेकशः
इमौ मही मे चरणाव् इदं मे गगनं शिरः । इदं वपुर् मे त्रिजगद् इमा मे कुक्षयो दिशः
साक्षाद् अयम् अहं विष्णुर् नीलमेघोदरद्युतिः । सुपर्णपर्वतारूढश् शङ्खचक्रगदाधरः
एते मत्तः पलायन्ते समग्रा दुष्टचेतसः । तार्णास् तरलसञ्चाराः पवनाद् इव राशयः
अयम् इन्दीवरश्यामः पीतवासा गदाधरः । लक्ष्मीवान् गरुडारूढस् स्वयम् एवाहम् अच्युतः
को माम् एति विरुद्धात्मा त्रैलोक्यदहनक्षमम् । स्वनाशाय मरुत्क्षुब्धं कल्पाग्निं शलभो यथा
इमे ते तैजसीं दृष्टिं ममाग्रस्थास् सुरासुराः । न शक्नुवन्ति संसोद्ःउं चक्षुर्मन्दाः प्रभाम् इव
इमे माम् ईश्वरं विष्णुं ब्रह्मेन्द्राग्निहरादयः । स्तुवन्त्य् अनन्तया वाचा बहुवक्त्रसमुत्थया
अयं विजृम्भितैश्वर्यो जातो ऽहम् अजिताकृतिः । सर्वद्वन्द्वपदातीतो महिम्ना परमेण हि
त्रिभुवनभवनोदरैकमूर्ति प्रसभविभिन्नसमस्तदुष्टसत्त्वम् । घनगिरितृणकाननान्तरस्थं सकलभयापहरं वपुः प्रणौमि
प्रह्लाद इति सञ्चिन्त्य कृत्वा नारायणीं तनुम् । पुनस् सञ्चिन्तयाम् आस पूजार्थम् असुरद्विषः
वपुषो वैष्णवाद् अस्मान् मरुन्मूर्तिः परापरः । अयं प्राणप्रवाहेण बहिर् विष्णुस् स्थितो ऽपरः
वैनतेयसमारूढस् स्फुटशक्तिचतुष्टयः । शङ्खचक्रगदापाणिश् श्यामलाङ्गश् चतुर्भुजः
चन्द्रार्कनयनश् श्रीमान् कान्तनन्दकनन्दनः । पद्मपाणिर् विशालाक्षश् शार्ङ्गधन्वा महाद्युतिः
तद् एनं पूजयाम्य् आशु परिवारसमन्वितम् । सपर्यया मनोमय्या सर्वसम्भाररम्यया