पूर्वं यैर् एव मत्तातश् चामरैर् उपवीजितः । सहस्रनयनस् स्वर्गे कष्टं तैर् एव वीज्यते
इयम् अस्माकम् अन्यापद् आगता दैन्यदायिनी । तस्यैकस्य प्रसादेन दुष्पौरुषवतो हरेः
तद्दोर्वनघनच्छायालब्धविश्रान्तयस् सुराः । न कदाचन तप्यन्ते हिमाद्रेर् इव सानवः
शौरिशौर्योग्रशिखरसंश्रयेणाश्रितश्रियः । अस्मान् समुपतप्यन्ति मुनीञ् शाखामृगा इव
तेनासुरपुरन्ध्रीणां नित्यमण्डनमङ्गले । मुखपद्मे ऽर्पितं बाष्पम् अब्जिनीनां हिमं यथा
शीर्णभिन्नलुठद्भित्तिर् जगज्जर्जरमण्डपः । अयं नीलमणिस्तम्भैस् तद्भुजैर् एव धार्यते
स धर्ता सुरसैन्यस्य मज्जतो विपदर्णवे । क्षीरोदोदरमग्नस्य मन्दरस्येव कच्छपः
एते तातादयस् सर्वे तेनैवासुरसत्तमाः । पातिताः क्षुब्धकल्पान्तवातेनेव कुलाचलाः
स एष एवं संहारकर्मक्षमभुजावलिः । सुरसार्थसुहृच् छ्रीमान् विषमो मधुसूदनः
दैत्यदोर्दण्डपरशोस् तस्य वीर्येण वीर्यवान् । दानवान् बाधते शक्रो बालकान् इव मर्कटः
दुर्जयः पुण्डरीकाक्षः प्रविमुक्तायुधो ऽपि सन् । नासौ शस्त्रास्त्रविच्छेदैर् वज्रसारो विदीर्यते
अभ्यस्ता बहवस् तेन मिथःप्रेरितपर्वताः । भीमास् समरसंरम्भास् समम् अस्मत्पितामहैः
तासु तास्व् अतिघोरासु विततास्व् असुराजिषु । यो न भीत इदानीं स भयम् एष्यति का कथा
उपायम् एकम् एवेमं हरेर् आक्रमणे स्फुटम् । मन्ये तद्व्यतिरेकेण विद्यते न प्रतिक्रिया
सर्वात्मना सर्वधिया सर्वसंरम्भरंहसा । स एव शरणं देवो गतिर् अस्तीह नान्यथा
न तस्माद् अधिकः कश्चिद् अस्ति लोकत्रयान्तरे । प्रलयस्थितिसर्गाणां हरिः कारणतां गतः
तस्मान् निमेषाद् आरभ्य नारायणम् अजं सदा । सम्प्रपन्नो ऽस्मि सर्वत्र नारायणमयो ह्य् अहम्
नमो नारायणायेति मन्त्रस् सर्वार्थसाधकः । नापैति मम हृत्कोशाद् आकाशाद् इव मारुतः
हरिर् आशा हरिर् व्योम हरिर् उर्वी हरिर् जगत् । अयं हरिर् अमेयात्मा जातो हरिमयो ह्य् अहम्
अविष्णुः पूजयन् विष्णुं न पूजाफलभाग् भवेत् । विष्णुर् भूत्वा यजेद् विष्णुम् अयं विष्णुर् अहं स्थितः
अनन्तम् इदम् आकाशम् आपूर्य विनतासुतः । कनकाङ्गो ममाङ्गानाम् अयम् आसनतां गतः
करशाखैकविश्रान्तसर्वहेतिविहङ्गमाः । नखांशुमञ्जरीकीर्णा महामरकतद्रुमाः
इमे ते मृदुमन्दारदामदृब्धांसमण्डलाः । मन्दराघृष्टकेयूराश् चत्वारो मम बाहवः
चलच्छशिकरापूरचारुचामरधारिणी । इयं मे पार्श्वगा लक्ष्मीः क्षीरोदजठरोत्थिता
हेलाविलब्धभुवना त्रैलोक्यतरुमञ्जरी । इयं मे पार्श्वगा कीर्तिर् धवलामलहासिनी
अनारतं जगज्जालनवनिर्माणकारिणी । इयं मे पार्श्वगा माया स्वेन्द्रजालविलासिनी
इयं सा हेलयाक्रान्तत्रैलोक्यतरुषण्डिका । जया स्फुरति मे पार्श्वे लता कल्पतरोर् इव
इमौ मे नित्यशीतोष्णौ देवौ शीतांशुभास्करौ । प्रकटीकृतसंसारौ मुखमध्ये विलोचने
ममेयम् उत्पलश्यामा पीनाम्भोधरसुन्दरी । श्यामीकृतककुप्चक्रा देहदीप्तिर् विसारिणी
अयं मम करे शङ्खः पाञ्चजन्यस् स्फुरद्ध्वनिः । मूर्तं खम् इव शब्दात्म क्षीरोद इव संस्थितः