अथ दुःखपरीतात्मा हरिणा हतदानवे । प्रह्लादश् चिन्तयाम् आस मौनी पातालकोटरे
को ऽन्व् अस्माकम् उपायस् स्याद् य एवेहासुराङ्कुरः । तीक्ष्णाग्रो जायते तं तं भुङ्क्ते शाखामृगो हरिः
न कदाचन पाताले दैत्या दोर्दण्डशालिनः । स्थिरा बभूवुर् उद्भिन्नाः पद्मा इव हिमाचले
उत्पत्योत्पत्य नश्यन्ति भासुराकारघर्घराः । क्षणप्रस्फुरितारम्भास् तरङ्गा इव वारिधेः
सबाह्याभ्यन्तरं कष्टं समग्रालोकहारिणः । रिपवः प्रौढिम् आयाता अपूर्वतिमिरभ्रमाः
तमःप्रपूर्णहृदयास् सङ्कुचत्पत्त्रसम्पदः । सुहृदः खेदम् आयाता निशीव कमलाकराः
तातस्य मलिनव्यूहपादपीठापमार्जकैः । सुरैर् विषय आक्रान्तो मृगैर् इव महावनम्
निरुद्यमा गतश्रीका दीनाः प्रकटिताशयाः । बान्धवा न विराजन्ते पद्माः प्लुष्टदला इव
स्फुरन्त्य् असुरवीराणां गृहेष्व् अविरतानिलैः । धूसरा भस्मनीहारा धूपधूमभरा इव
हृतद्वारकवाटासु दैत्यान्तःपुरभित्तिषु । प्रभा मरकतस्येव जाता नवयवाङ्कुराः
त्रिलोकीनाभिनलिनीमत्तेभा दानवा अपि । देववद् दैन्यम् आयाताः किम् असाध्यम् अहो विधेः
मनाक् चलति पर्णे ऽपि दृष्टारिभयभीरवः । वध्वस् त्रस्यन्ति विध्वस्ता मृग्यो ग्रामगता इव
असुरीकर्णपूरार्थं फुल्लरत्नगुलुच्छकाः । नरसिंहकरालूनास् स्थाणुताम् आगता द्रुमाः
दिव्याम्बरलतापत्त्रा रत्नस्तबकदन्तुराः । पुनर् आरोपितास् तत्र नन्दने कल्पपादपाः
पुरेहामरबन्दीनां दैत्यैर् आलोकितं मुखम् । अद्य त्व् असुरबन्दीनां सुरैर् आलोक्यते मुखम्
मन्ये दानमहानद्यस् सुरेभकटभित्तिषु । प्रवृत्तास् ता भविष्यन्ति शैलसानुष्व् इवापगाः
अस्माकम् इभगण्डेषु दावदाहविभूतयः । लसन्ति मरुषण्डेषु संशुष्केष्व् इव धूलयः
विकासिसितमन्दारमकरन्दारुणानिलाः । ता मेरुशिखरस्थल्यो दैत्यदुर्लभतां गताः
सुरगन्धर्वसुन्दर्यो दानवान्तःपुरोषिताः । पुनर् मेरौ स्थितिं याता मञ्जर्य इव पादपे
कष्टं तातपुरन्ध्रीणां शुष्काम्बुरुहनीरसाः । विलासास् सुरनारीभिर् हस्यन्ते हास्यलीलया
पूर्वं यैर् एव मत्तातश् चामरैर् उपवीजितः । सहस्रनयनस् स्वर्गे कष्टं तैर् एव वीज्यते
इयम् अस्माकम् अन्यापद् आगता दैन्यदायिनी । तस्यैकस्य प्रसादेन दुष्पौरुषवतो हरेः
तद्दोर्वनघनच्छायालब्धविश्रान्तयस् सुराः । न कदाचन तप्यन्ते हिमाद्रेर् इव सानवः
शौरिशौर्योग्रशिखरसंश्रयेणाश्रितश्रियः । अस्मान् समुपतप्यन्ति मुनीञ् शाखामृगा इव
तेनासुरपुरन्ध्रीणां नित्यमण्डनमङ्गले । मुखपद्मे ऽर्पितं बाष्पम् अब्जिनीनां हिमं यथा
शीर्णभिन्नलुठद्भित्तिर् जगज्जर्जरमण्डपः । अयं नीलमणिस्तम्भैस् तद्भुजैर् एव धार्यते
स धर्ता सुरसैन्यस्य मज्जतो विपदर्णवे । क्षीरोदोदरमग्नस्य मन्दरस्येव कच्छपः
एते तातादयस् सर्वे तेनैवासुरसत्तमाः । पातिताः क्षुब्धकल्पान्तवातेनेव कुलाचलाः
स एष एवं संहारकर्मक्षमभुजावलिः । सुरसार्थसुहृच् छ्रीमान् विषमो मधुसूदनः
दैत्यदोर्दण्डपरशोस् तस्य वीर्येण वीर्यवान् । दानवान् बाधते शक्रो बालकान् इव मर्कटः