अथ पुत्रसहायो ऽसौ बलकोशसमन्वितः । आजगाम मदं दैत्यस् त्रिगण्डगलितेभवत्
ततापाक्रान्तितापेन त्रिजगन्ति विकासिना । कल्पान्तसूर्यगणवन् नवयैव करश्रिया
अखिद्यन्तास्य तेनाथ सूर्येन्दुप्रमुखास् सुराः । दुर्विलासविलोलस्य बालस्येव स्वबन्धवः
ते ऽर्थयां चक्रिरे शौरिं दैत्येन्द्रेभपतेर् वधे । न क्षमन्ते महान्तो ऽपि पौनःपुण्येन दुष्क्रियाम्
ततः प्रलयपर्यस्तजगद्घर्घरजृम्भितम् । दिग्दन्तिदशनप्रख्यनखवज्राश्रिसूम्भितम्
स्थिरविद्युल्लताजालभासुरोर्ध्वजमण्डलम् । दशदिक्कोटरोद्वान्तज्वलज्ज्वलनकुण्डलम्
समस्तकुलशैलेन्द्रपिण्डपीठोद्भटोदरम् । दोर्द्रुमाधूननोद्धूतस्फुटद्ब्रह्माण्डकर्परम्
वदनोदरनिष्क्रान्तवातोत्सारितपर्वतं । त्रिजगद्दहनोद्युक्तकोपकल्पाग्निगर्वितम्
सटाविकटपीनांसस्पन्दप्रेरितभास्करम् । रोमकूपलसद्वह्निपुञ्जपिञ्जरपर्वतम्
कुलाचलमहाकुड्यकुट्टनोद्भटदृक्पुटम् । सर्वावयवनिष्ठ्यूतपट्टिसप्रासतोमरम्
नारसिंहं वपुः कृत्वा माधवो ऽहन् महासुरम् । लसत्कटकटारावं तुरङ्गमम् इव द्विपः
पुरम् आसुरम् उद्वान्तैर् ददाहेक्षणवह्निभिः । ससर्वभूतं कल्पान्ते जगज्जालम् इवानलः
नृसिंहमारुते तस्मिन् भृशं क्षोभम् उपागते । विस्फूर्जति घनास्फोटैर् एकार्णव इवाकुले
दुद्रुवुर् दानवौघास् ते दिक्ष्व् अलं मषका इव । उपाययुर् अदृश्यत्वं दीपा इव गतत्विषः
अथ विद्रुतदैत्येन्द्रं दग्धान्तःपुरमण्डलम् । बभूव पातालतलं कल्पक्षुण्णजगत्समम्
अकालकल्पान्तविधौ शनैः प्रशमिते विभौ । क्वापि याते समाश्वस्तसुरसंरम्भपूजिते
मृतशिष्टा दनुसुताः प्रह्लादपरिपालिताः । दग्धं स्वं देशम् आजग्मुस् सरश् शुष्कम् इवाण्डजाः
तत्र कालोचितां कृत्वा स्वनाशपरिदेवनाम् । और्ध्वदैहिकसत्कारं चक्रुः प्रभुषु बन्धुषु
हृतबन्दीजनं प्लुष्टबन्धुबान्धवमण्डलम् । शनैर् आश्वासयाम् आसुर् मृतशिष्टं स्वकं जनम्
चित्रार्पितोपमदुराकृतयो निरीहा दीनाशया हिमहताम्बुरुहोपमानाः । शोकोपतप्तमनसो ऽसुरनायकास् ते दग्धद्रुमा इव निरस्तविकासम् आसन्
अथ दुःखपरीतात्मा हरिणा हतदानवे । प्रह्लादश् चिन्तयाम् आस मौनी पातालकोटरे
को ऽन्व् अस्माकम् उपायस् स्याद् य एवेहासुराङ्कुरः । तीक्ष्णाग्रो जायते तं तं भुङ्क्ते शाखामृगो हरिः
न कदाचन पाताले दैत्या दोर्दण्डशालिनः । स्थिरा बभूवुर् उद्भिन्नाः पद्मा इव हिमाचले
उत्पत्योत्पत्य नश्यन्ति भासुराकारघर्घराः । क्षणप्रस्फुरितारम्भास् तरङ्गा इव वारिधेः
सबाह्याभ्यन्तरं कष्टं समग्रालोकहारिणः । रिपवः प्रौढिम् आयाता अपूर्वतिमिरभ्रमाः
तमःप्रपूर्णहृदयास् सङ्कुचत्पत्त्रसम्पदः । सुहृदः खेदम् आयाता निशीव कमलाकराः
तातस्य मलिनव्यूहपादपीठापमार्जकैः । सुरैर् विषय आक्रान्तो मृगैर् इव महावनम्
निरुद्यमा गतश्रीका दीनाः प्रकटिताशयाः । बान्धवा न विराजन्ते पद्माः प्लुष्टदला इव
स्फुरन्त्य् असुरवीराणां गृहेष्व् अविरतानिलैः । धूसरा भस्मनीहारा धूपधूमभरा इव
हृतद्वारकवाटासु दैत्यान्तःपुरभित्तिषु । प्रभा मरकतस्येव जाता नवयवाङ्कुराः