इमा दृश्यदृशो राम नानाकारविकारदाः । न काश्चन तवात्मीया दूराच् छैलशिला इव
धावमानम् इहामुत्र लुठितं लोकवृत्तिषु । संस्थापय निबध्यैतन् मनो हृदयकोटरे
चिदादित्यो भवान् एव सर्वत्र जगति स्थितः । कः परस् ते क आत्मीयः परिस्खलसि किं मुधा
त्वम् अनन्तो महाबाहुस् त्वम् आद्यः पुरुषोत्तमः । त्वं पदार्थशताकारैः परिस्फूर्जसि चिद्वपुः
त्वयि सर्वम् इदं प्रोतं जगत् स्थावरजङ्गमम् । बोधे नित्योदिते शुद्धे सूत्रे मणिगणो यथा
न जायसे न म्रियसे त्वम् अजः पुरुषो विराट् । चिच् छुद्धो जन्ममरणभ्रान्तयो मा भवन्तु ते
समस्तजन्मरोगाणां प्रविचार्य बलाबलम् । तृष्णाम् उत्सृज्य भोगानां भोक्तैव भव केवलम्
त्वयि स्थिते जगन्नाथे चिदादित्ये सदोदिते । इदम् आभासते सर्वं संसारस्वप्नमण्डलम्
मा विषादं कृथा व्यर्थं सुखदुःखैषणा न ते । शुद्धश् चिद् असि सर्वात्मा सर्ववस्त्ववभासकः
पूर्वम् इष्टम् अनिष्टं त्वम् अनिष्टं चेष्टम् इत्य् अपि । परिकल्प्य तदभ्यासात् ततो ऽपि द्वे परित्यज
इष्टानिष्टदृशोस् त्यागे समतोदेति शाश्वती । तया हृदयवर्तिन्या पुनर् जन्तुर् न जायते
येषु येषु प्रदेशेषु मनो मज्जति बालवत् । तेभ्यस् तेभ्यस् समुद्धृत्य तद् धि तत्त्वे निवेशयेत्
एवम् अभ्यागताभ्यासं मनोमत्तमतङ्गजम् । निबध्य सर्वभावेन परं श्रेयो ऽधिगम्यते
मा शठैर् अयथार्थज्ञैर् मिथ्यादृष्टिहताशयैः । धूर्तसङ्कल्पविक्रीतैर् विमूढैस् समतां गमः
अकिञ्चनात् स्वनिर्णीतौ लम्बमानात् परोक्तिषु । न मौर्ख्याद् अधिको लोके कश्चिद् अस्तीह दुःखदः
त्वम् एतद् अविवेकाभ्रम् उदितं हृदयाम्बरे । विवेकपवनेनाशु दूरं नय महामते
आत्मनैव प्रयत्नेन यावद् आत्मावलोकने । न कृतो ऽनुग्रहस् तावन् न विचारोदयो भवेत्
वेदवेदान्तशास्त्रार्थतर्कदृष्टिभिर् अप्य् अयम् । नात्मा प्रकटताम् एति यावन् न स्वम् अवेक्षणम्
त्वम् आत्मन्य् आत्मना राम प्रसादे समवस्थितः । प्राप्तो ऽसि विततं बोधं मद्वचांस्य् अवबुध्यसे
विकल्पांशविहीनस्य त्वयैषा चिद्विवस्वतः । गृहीता वितता व्याप्तिर् मदुक्ता परमात्मनः
विलीनसर्वसङ्कल्पश् शान्तसन्देहविभ्रमः । क्षीणकौतुकनीहारो जातो ऽसि विगतज्वरः
यद् उपगच्छसि पासि निहंसि वा पिबसि वल्गसि चिन्मय वर्धसे । तद् असि तेन तवास्तु महामुने विगतबोधकलङ्कविशङ्किता
अथेमम् अपरं राम विज्ञानाधिगमे क्रमम् । शृणु दैत्येश्वरस् सिद्धः प्रह्लादस् स्वात्मना यथा
आसीत् पातालजठरे विद्रावितसुरो ऽसुरः । हिरण्यकशिपुर् नाम नारायणपराक्रमः
आक्रान्तभुवनाभोगस् स जहार हरेर् जगत् । षट्पदस्य बृहत्पत्त्रं राजहंस इवाम्बुजम्
चकार जगतां राज्यं समाक्रान्तसुरासुरः । दन्ती निरस्तहंसौघो नलिन्याम् अलिनाम् इव
अथासाव् असुराधीशः कुर्वंस् त्रिभुवनेशताम् । कालेन सुषुवे पुत्रान् अङ्कुरान् इव माधवः
ते ऽवर्धन्ताचिरेणैव तेजस्तर्जिततारकाः । दशार्कांशुशतानीव व्योमाक्रान्तिविलासिनः
प्रह्लादो नाम भगवान् प्रधानात्मा बभूव ह । तेषां मध्ये महार्हाणां मणीनाम् इव कौस्तुभः
तेनाराजत पुत्रेण हिरण्यकशिपुर् भृशम् । सर्वसौन्दर्ययुक्तेन वसन्तेनेव वत्सरः