दशकोटीश् च वर्षाणाम् अनुशास्य जगत्त्रयम् । अन्ते विरक्ततां प्राप्तम् उपशान्तं बडेर् मनः
ऊहापोहसहस्राणि भावाभावशतानि च । बडिना परिदृष्टानि क्व समाश्वासम् एत्व् असौ
भोगाभिलाषं सन्त्यज्य बडिस् सम्पूर्णमानसः । आत्मारामस् स्थितो नित्यम् अद्य पातालकोटरे
पुनर् एतेन बडिना जगद् इन्द्रतयाखिलम् । अनुशास्यम् इदं राम बहून् वर्षगणान् इह
न तस्येन्द्रपदप्राप्त्या तुष्टिस् समुपजायते । न तस्य स्वपदभ्रंशाद् उद्वेग उपजायते
स समस् सर्वभावेषु सर्वदैवोदिताशयः । सम्प्राप्तम् आहरन् स्वस्थ आकाश इव तिष्ठति
बडिविज्ञानसम्प्राप्तिर् एषा ते कथिता मया । एतां दृष्टिम् अवष्टभ्य त्वम् अप्य् अभ्युदितो भव
बडिवत् स्वविवेकेन नित्यो ऽहम् इति निश्चयात् । पदम् आसादयाद्वन्द्वं पौरुषेणैव राघव
द्वे चाष्टौ चैव वर्षाणां कोटीर् भुक्त्वा जगत्त्रयम् । अन्ते वैरस्यम् आपन्नो बडिर् अप्य् असुरोत्तमः
तस्माद् अवश्यवैरस्यं भोगपूगम् अरिन्दम । सन्त्यज्य सततानन्दम् अवैरस्यपदं व्रज
इमा दृश्यदृशो राम नानाकारविकारदाः । न काश्चन तवात्मीया दूराच् छैलशिला इव
धावमानम् इहामुत्र लुठितं लोकवृत्तिषु । संस्थापय निबध्यैतन् मनो हृदयकोटरे
चिदादित्यो भवान् एव सर्वत्र जगति स्थितः । कः परस् ते क आत्मीयः परिस्खलसि किं मुधा
त्वम् अनन्तो महाबाहुस् त्वम् आद्यः पुरुषोत्तमः । त्वं पदार्थशताकारैः परिस्फूर्जसि चिद्वपुः
त्वयि सर्वम् इदं प्रोतं जगत् स्थावरजङ्गमम् । बोधे नित्योदिते शुद्धे सूत्रे मणिगणो यथा
न जायसे न म्रियसे त्वम् अजः पुरुषो विराट् । चिच् छुद्धो जन्ममरणभ्रान्तयो मा भवन्तु ते
समस्तजन्मरोगाणां प्रविचार्य बलाबलम् । तृष्णाम् उत्सृज्य भोगानां भोक्तैव भव केवलम्
त्वयि स्थिते जगन्नाथे चिदादित्ये सदोदिते । इदम् आभासते सर्वं संसारस्वप्नमण्डलम्
मा विषादं कृथा व्यर्थं सुखदुःखैषणा न ते । शुद्धश् चिद् असि सर्वात्मा सर्ववस्त्ववभासकः
पूर्वम् इष्टम् अनिष्टं त्वम् अनिष्टं चेष्टम् इत्य् अपि । परिकल्प्य तदभ्यासात् ततो ऽपि द्वे परित्यज
इष्टानिष्टदृशोस् त्यागे समतोदेति शाश्वती । तया हृदयवर्तिन्या पुनर् जन्तुर् न जायते
येषु येषु प्रदेशेषु मनो मज्जति बालवत् । तेभ्यस् तेभ्यस् समुद्धृत्य तद् धि तत्त्वे निवेशयेत्
एवम् अभ्यागताभ्यासं मनोमत्तमतङ्गजम् । निबध्य सर्वभावेन परं श्रेयो ऽधिगम्यते
मा शठैर् अयथार्थज्ञैर् मिथ्यादृष्टिहताशयैः । धूर्तसङ्कल्पविक्रीतैर् विमूढैस् समतां गमः
अकिञ्चनात् स्वनिर्णीतौ लम्बमानात् परोक्तिषु । न मौर्ख्याद् अधिको लोके कश्चिद् अस्तीह दुःखदः
त्वम् एतद् अविवेकाभ्रम् उदितं हृदयाम्बरे । विवेकपवनेनाशु दूरं नय महामते
आत्मनैव प्रयत्नेन यावद् आत्मावलोकने । न कृतो ऽनुग्रहस् तावन् न विचारोदयो भवेत्
वेदवेदान्तशास्त्रार्थतर्कदृष्टिभिर् अप्य् अयम् । नात्मा प्रकटताम् एति यावन् न स्वम् अवेक्षणम्
त्वम् आत्मन्य् आत्मना राम प्रसादे समवस्थितः । प्राप्तो ऽसि विततं बोधं मद्वचांस्य् अवबुध्यसे
विकल्पांशविहीनस्य त्वयैषा चिद्विवस्वतः । गृहीता वितता व्याप्तिर् मदुक्ता परमात्मनः