बडौ प्रबुद्धे तद् बाढं विरेजे नगरं तदा । वैरिञ्च इव सूर्यौघ उदिते कमलाकरः
बडिः प्रबुद्ध एवासौ यावन् नायान्ति दानवाः । तावत् सञ्चिन्तयाम् आस समाधिसदने क्षणम्
अहो नु रम्या पदवी शीतला पारमार्थिकी । अहम् अस्यां क्षणं स्थित्वा परां विश्रान्तिम् आगतः
तद् एनाम् एव पदवीम् अवलम्ब्य वसाम्य् अहम् । भवतीहोपभुक्ताभिः किं मे बाह्यविभूतिभिः
ऐन्दवेष्व् अपि बिम्बेषु न तथानन्दवीचयः । तोषयन्ति यथान्तर् मां संविद्विभवभूमयः
इति भूयो ऽपि विश्रान्त्यै कुर्वाणं गलितं मनः । बडिम् आवारयाम् आसुर् दैत्याश् चन्द्रम् इवाम्बुदाः
तान् आलोक्य पुनर् दध्यौ तत्प्रणामाकुलेक्षणः । तैः कुलाचलसङ्काशैः परिवीतवपुस् त्व् इदम्
चितः क्षीणविकल्पस्य किम् उपादेयम् अस्ति मे । मनो यदभिपातित्वाद् यातु तद्रसताम् अलम्
मोक्षम् इच्छाम्य् अहं कस्माद् बद्धः केनास्मि वै पुरा । अबद्धो मोक्षम् इच्छामि केयं बालविडम्बना
न बन्धो ऽस्ति न मोक्षो ऽस्ति मौर्ख्यं मे क्षयम् आगतम् । किं मे ध्यानविलासेन किं वाध्यानेन मे भवेत्
न ध्यानं नापि चाध्यानं न भोगान् नाप्य् अभोगिताम् । अभिवाञ्छामि तिष्ठामि समम् एव गतज्वरः
न मे वाञ्छा परे तत्त्वे न मे वाञ्छा जगत्स्थितौ । न मे ध्यानदृशा कार्यं न कार्यं विभवेन मे
नाहं मृतो न जीवामि न सन् नासन्न् अहं समः । नेदं मे नैव नान्यन् मे नमो मह्यम् अहं ह्य् अहम्
इदम् अस्तु जगद्राज्यं तिष्ठाम्य् अत्र स्वसंस्थितः । नैव वास्तु जगद्राज्यं तिष्ठाम्य् आत्मनि शीतलम्
किं मे ध्यानदृशा कार्यं किं राज्यविभवश्रिया । यद् आयाति तद् आयातु नाहं किञ्चिन् न मे क्वचित्
न किञ्चिद् अपि कर्तव्यं यदि नाम मयाधुना । तत् कस्मान् न करोमीह किञ्चित् प्रकृतकर्म वै
इति निर्णीय पूर्णात्मा बडिर् बलवतां वरः । दैत्यान् आलोकयाम् आस पद्मानीव दिवाकरः
दृष्टिपातविभागेन सर्वेषां दनुजन्मनाम् । शिरःप्रणामाञ् जग्राह पुष्पामोदान् इवानिलः
अथ वैरोचनिस् तत्र ध्येयत्यागमयात्मना । मनसा सकलान्य् एव राजकार्याणि स व्यधात्
देवान् द्विजान् गुरूंश् चैव पूजयाम् आस पूजया । सम्मानयाम् आस सुहृद्बन्धुसामन्तसज्जनान्
अर्थेनापूरयाम् आस भृत्यान् अर्थिगणांस् तथा । ललना लालयाम् आस विचित्रविभवार्पणैः
इत्य् असाव् अवसत् तस्मिन् राज्ये सकलशासने । यज्ञं प्रति बभूवाथ मतिर् अस्य कदाचन
तर्पिताशेषभुवनं देवर्षिगणपूजितम् । सह शुक्रादिभिर् मुख्यैस् स चकार महामखम्
बडिर् भोगभरस्यार्थी नेति निर्णीय माधवः । बडेर् ईप्सितसिद्ध्यर्थं सिद्धिदस् तन्मखं ययौ
भोगैककृपणायेदं जगज्जङ्गलखण्डकम् । दातुं योग्याय शक्राय वयोज्येष्ठाय कार्यवित्
क्रममात्रच्छलेनात्र वञ्चयित्वा बडिं हरिः । बबन्ध पातालतले भूगेह इव वानरम्
अद्यासौ संस्थितो राम पुनरिन्द्रत्वहेतुना । जीवन्मुक्तवपुस् स्वस्थो नित्यं ध्याननिषण्णधीः
पातालकुहरे तिष्ठञ् जीवन्मुक्तमतिर् बडिः । आपदं सम्पदं दृष्ट्या समयैव स पश्यति
नास्तम् एति न चोदेति तत्प्रज्ञा सुखदुःखयोः । समा स्थिरतराकारा चित्रसूर्यावली यथा
आविर्भावतिरोभावसहस्राणीह जीवताम् । तन्मनश् चिरम् आलोक्य भोगेषु विरतिं गतम्