कुबेरयमशक्राद्या उपायनकरास् सुराः । यक्षा विद्याधरा नागास् सेवावसरकाङ्क्षिणः
रम्भातिलोत्तमाद्याश् च चामरिण्यो वराङ्गनाः । सरितस् सागराश् शैला दिशश् च विदिशस् तथा
सेवार्थम् आययुस् तस्य तं प्रदेशं तदा बडेः । अन्ये च बहवस् सिद्धास् त्रैलोक्योदरवासिनः
ध्यानमौनसमाधिस्थं चित्रार्पितम् इवाचलम् । नमत्किरीटावलयो ददृशुर् बडिम् आदृताः
तं दृष्ट्वा कृतकर्तव्याः प्रणेमुस् ते महासुराः । विषादविस्मयानन्दभयमन्थरतां ययुः
मन्त्रिणो ऽथ विचार्यात्र किं प्राप्तम् इति दानवाः । भार्गवं चिन्तयाम् आसुर् गुरुं सर्वविदां वरम्
चिन्तनानन्तरं दैत्या भार्गवं भासुरं पुरः । ददृशुः कल्पितप्राप्तं गन्धर्वनगरं यथा
पूज्यमानो ऽसुरगणैर् निविष्टो गुरुविष्टरे । ददर्श ध्यानमौनस्थं भार्गवो दानवेश्वरम्
विश्रम्य स क्षणम् इव प्रेमवान् अवलोक्य च । बडिं विचारयन् दृष्ट्या परिक्षीणभवभ्रमम्
देहरश्मिशतैर् दन्तदीप्तिभिः क्षीरसागरे । क्षिपन्न् इव सभाम् आह हसन् वाक्यम् इदं गुरुः
अहो चित्रम् इदं दैत्यास् स्वविचारणयैव यत् । सम्प्राप्तविमलालोकस् सिद्धो ऽयं भगवान् बडिः
अयं तद् एवम् एवेह तिष्ठन् दानवसत्तमाः । स्वात्मनि स्थितिम् आप्नोतु पदं पश्यत्व् अनामयम्
श्रान्तो विश्रान्तिम् आयातः क्षीणचिन्ताभरभ्रमः । शान्तसंसारनीहारो बोधनीयो न दानवाः
स्व एवालोक एतेन सम्प्राप्तो ऽज्ञानसङ्क्षये । शान्ते ऽभ्रसम्भ्रमे सौरो दिनेनेव करोत्करः
स्वयम् एव हि कालेन प्रबोधम् अयम् एष्यति । बीजकोशात् स्वसंवित्त्या सुप्तमूर्तिर् इवाङ्कुरः
कुरुध्वं स्वानि कार्याणि सर्वे दानवनायकाः । बडिर् वर्षसहस्रेण समाधेर् बोधम् एष्यति
इत्य् उक्ते गुरुणा तत्र भयहर्षविषादजाम् । दैत्याश् चिन्तां जहुश् शुष्कां मञ्जरीम् इव पादपाः
वैरोचनिसभासंस्थां विधाय प्राग्व्यवस्थया । स्वव्यापारपरास् तस्थुस् सर्व एवासुरास् ततः
नरा महीम् अहिपतयो रसातलं ग्रहा नभस् त्रिदशगणास् त्रिविष्टपम् । दिशो ऽद्रयो जलपतयश् च कन्दरान् वनेचरा गगनचराश् च खं ययुः
अथ वर्षसहस्रेण दिव्येनासुरसत्तमः । देवदुन्दुभिनिर्घोषैर् बुबुधे भगवान् बडिः
बडौ प्रबुद्धे तद् बाढं विरेजे नगरं तदा । वैरिञ्च इव सूर्यौघ उदिते कमलाकरः
बडिः प्रबुद्ध एवासौ यावन् नायान्ति दानवाः । तावत् सञ्चिन्तयाम् आस समाधिसदने क्षणम्
अहो नु रम्या पदवी शीतला पारमार्थिकी । अहम् अस्यां क्षणं स्थित्वा परां विश्रान्तिम् आगतः
तद् एनाम् एव पदवीम् अवलम्ब्य वसाम्य् अहम् । भवतीहोपभुक्ताभिः किं मे बाह्यविभूतिभिः
ऐन्दवेष्व् अपि बिम्बेषु न तथानन्दवीचयः । तोषयन्ति यथान्तर् मां संविद्विभवभूमयः
इति भूयो ऽपि विश्रान्त्यै कुर्वाणं गलितं मनः । बडिम् आवारयाम् आसुर् दैत्याश् चन्द्रम् इवाम्बुदाः
तान् आलोक्य पुनर् दध्यौ तत्प्रणामाकुलेक्षणः । तैः कुलाचलसङ्काशैः परिवीतवपुस् त्व् इदम्
चितः क्षीणविकल्पस्य किम् उपादेयम् अस्ति मे । मनो यदभिपातित्वाद् यातु तद्रसताम् अलम्
मोक्षम् इच्छाम्य् अहं कस्माद् बद्धः केनास्मि वै पुरा । अबद्धो मोक्षम् इच्छामि केयं बालविडम्बना
न बन्धो ऽस्ति न मोक्षो ऽस्ति मौर्ख्यं मे क्षयम् आगतम् । किं मे ध्यानविलासेन किं वाध्यानेन मे भवेत्