सर्वदा सर्वम् एवाहं सर्वकृत् सर्वसङ्गतः । चेत्यम् अस्त्य् अहम् एवैतन् न किञ्चिद् अपि चोदितम्
किं सङ्कल्पविकल्पाभ्यां चिद् अचिच् चाहम् एकभाः । सङ्क्षोभयाम्य् अहं तावच् छाम्याम्य् आत्मनि पावने
इति सञ्चिन्तयन्न् एव बडिः परमकोविदः । अकारार्धार्धमात्रार्थं भावयन् ध्यानम् आस्थितः
संशान्तसर्वसङ्कल्पः प्रशान्तकलनागणः । निश्शङ्कम् अतिदूरास्तचेत्यचिन्तकचिन्तनः
ध्यातृध्येयध्यानहीनो निर्मनाश् शान्तवासनः । बभूवावातदीपाभो बडिः प्राप्तमहापदः
उपशान्तमनास् तत्र रत्नवातायने बडिः । अवसद् बहुकालं स समुत्कीर्ण इवोपलात्
प्रशमितैषणया परिपूर्णया मननदोषदशोज्झितयोच्चया । बडिर् अराजत निर्मलसत्तया विघनम् अच्छतयेव शरन्नभः
अथ ते दानवास् तत्र बडेर् अनुचरास् तदा । तद्गृहं स्फाटिकं सौधम् उच्चैर् आरुरुहुः क्षणात्
डिम्बाद्या मन्त्रिणो वीरास् सामन्ताः कुकुहादयः । सुराद्याश् चैव राजानो वृत्राद्या बलहारिणः
हयग्रीवादयस् सभ्याश् शुकुन्दाद्याश् च बन्धवः । लुडङ्गाद्याश् च सुहृदः पल्मूलाद्याश् च लालकाः
कुबेरयमशक्राद्या उपायनकरास् सुराः । यक्षा विद्याधरा नागास् सेवावसरकाङ्क्षिणः
रम्भातिलोत्तमाद्याश् च चामरिण्यो वराङ्गनाः । सरितस् सागराश् शैला दिशश् च विदिशस् तथा
सेवार्थम् आययुस् तस्य तं प्रदेशं तदा बडेः । अन्ये च बहवस् सिद्धास् त्रैलोक्योदरवासिनः
ध्यानमौनसमाधिस्थं चित्रार्पितम् इवाचलम् । नमत्किरीटावलयो ददृशुर् बडिम् आदृताः
तं दृष्ट्वा कृतकर्तव्याः प्रणेमुस् ते महासुराः । विषादविस्मयानन्दभयमन्थरतां ययुः
मन्त्रिणो ऽथ विचार्यात्र किं प्राप्तम् इति दानवाः । भार्गवं चिन्तयाम् आसुर् गुरुं सर्वविदां वरम्
चिन्तनानन्तरं दैत्या भार्गवं भासुरं पुरः । ददृशुः कल्पितप्राप्तं गन्धर्वनगरं यथा
पूज्यमानो ऽसुरगणैर् निविष्टो गुरुविष्टरे । ददर्श ध्यानमौनस्थं भार्गवो दानवेश्वरम्
विश्रम्य स क्षणम् इव प्रेमवान् अवलोक्य च । बडिं विचारयन् दृष्ट्या परिक्षीणभवभ्रमम्
देहरश्मिशतैर् दन्तदीप्तिभिः क्षीरसागरे । क्षिपन्न् इव सभाम् आह हसन् वाक्यम् इदं गुरुः
अहो चित्रम् इदं दैत्यास् स्वविचारणयैव यत् । सम्प्राप्तविमलालोकस् सिद्धो ऽयं भगवान् बडिः
अयं तद् एवम् एवेह तिष्ठन् दानवसत्तमाः । स्वात्मनि स्थितिम् आप्नोतु पदं पश्यत्व् अनामयम्
श्रान्तो विश्रान्तिम् आयातः क्षीणचिन्ताभरभ्रमः । शान्तसंसारनीहारो बोधनीयो न दानवाः
स्व एवालोक एतेन सम्प्राप्तो ऽज्ञानसङ्क्षये । शान्ते ऽभ्रसम्भ्रमे सौरो दिनेनेव करोत्करः
स्वयम् एव हि कालेन प्रबोधम् अयम् एष्यति । बीजकोशात् स्वसंवित्त्या सुप्तमूर्तिर् इवाङ्कुरः
कुरुध्वं स्वानि कार्याणि सर्वे दानवनायकाः । बडिर् वर्षसहस्रेण समाधेर् बोधम् एष्यति
इत्य् उक्ते गुरुणा तत्र भयहर्षविषादजाम् । दैत्याश् चिन्तां जहुश् शुष्कां मञ्जरीम् इव पादपाः
वैरोचनिसभासंस्थां विधाय प्राग्व्यवस्थया । स्वव्यापारपरास् तस्थुस् सर्व एवासुरास् ततः
नरा महीम् अहिपतयो रसातलं ग्रहा नभस् त्रिदशगणास् त्रिविष्टपम् । दिशो ऽद्रयो जलपतयश् च कन्दरान् वनेचरा गगनचराश् च खं ययुः
अथ वर्षसहस्रेण दिव्येनासुरसत्तमः । देवदुन्दुभिनिर्घोषैर् बुबुधे भगवान् बडिः