इति कथितवताथ भार्गवेण स्फुटजलराशिपथे महाजवेन । प्लुतम् अलिशबले नभोऽन्तराले तरलतरङ्गवद् आकुले ग्रहौघैः
सुरासुरसभापूज्ये तस्मिन् भृगुसुते गते । मनसा चिन्तयाम् आस बडिर् बलवतां वरः
युक्तम् उक्तं भगवता चिद् एवेदं जगत्त्रयम् । चिद् अहं चिद् इमे लोकाश् चिद् आशा चिद् इयं क्रिया
सबाह्याभ्यन्तरं सर्वं चिद् एव परमार्थतः । अस्ति चिद्व्यतिरेकेण नेह किञ्चन कुत्रचित्
अयम् आदित्य इत्य् अर्को न चिता चेत्यते यदि । तद् अर्कतमसोर् भेदः क इवेहोपलभ्यते
इयं भूर् इति भूर् एषा चिता यदि न चेत्यते । भूमेः किं नाम भूमित्वं तद् भवेद् भव्यतां गतम्
इमा दिशो दिश इति चेत्यन्ते न चिता यदि । तत् किं नाम दिशां दिक्त्वं शैलानां वापि काद्रिता
इदं जगद् इति जगच् चिता यदि न चेत्यते । तत् किं जगत्त्वं जगतो नभस्त्वं नभसो ऽथ किम्
कायो ऽयं पर्वताकारश् चिता यदि न चेत्यते । तत् किं नाम शरीरत्वं शरीरस्य शरीरिणाम्
चिद् इन्द्रियाणि चित् कायश् चिन् मनश् चित् तदेषणा । चिद् अन्तश् चिद् बहिश् चित् खं चिद् भावश् चिद् भवस्थितिः
चिद् एवैकम् अहं सर्वं स्पर्शनैषणपूर्वकम् । करोमि मात्रासंस्पर्शं शरीरेण न किञ्चन
किम् अनेन शरीरेण काष्ठलोष्टसमेन मे । अशेषजगदेकात्मा चिद् अहं चेतनात्मकः
अहं चिद् अम्बरे भानाव् अहं चिद् भूतपञ्जरे । सुरासुरेषु चिद् अहं स्थावरेषु चरेषु च
चिद् अस्तीह द्वितीया हि कल्पनैव न विद्यते । द्वित्वस्यासम्भवाल् लोके कश् शत्रुः कश् च वा सुहृत्
बडिनाम्नश् शरीरस्य च्छिन्ने शिरसि भासुरे । चितस् तत् किं भवेच् छिन्नं सर्वलोकावपूरणात्
चिता सञ्चेतितो द्वेषो द्वेषो भवति नान्यथा । तस्माद् द्वेषादयस् सर्वे भावाभावाश् चिदात्मकाः
न चितो व्यतिरेकेण प्रविचार्यापि किञ्चन । अन्यद् आसाद्यते स्फाराद् अस्मात् त्रिभुवनोदरात्
न द्वेषो ऽस्ति न रागो ऽस्ति न मनो नास्य वृत्तयः । चिन्मात्रस्यातिशुद्धस्य विकल्पकलना कुतः
चिद् अहं सर्वगो व्यापी नित्यानन्दमयात्मकः । विकल्पकलनातीतो विकल्पांशविवर्जितः
चितश् चिद् इति यन् नाम निर्नामाया न नाम तत् । शब्दात्मिकैषा चिच्छक्तिः परिस्फुरति सर्वगा
दृश्यदर्शननिर्मुक्तः केवलामलमूर्तिमान् । नित्योदितो निराभासो द्रष्टास्मि परमेश्वरः
न कर्तास्मि न भोक्तास्मि द्रष्टैवास्मि निरामयः । कल्पनाविकलाकारकालकान्तकलामयः
आभासमात्रम् उदितो नित्य आभास्यवर्जितः । भारूपैकस्वरूपो ऽस्मि स्वरूपेण जयाम्य् अहम्
चेत्यरञ्जनरिक्ताय विमुक्ताय महात्मने । प्रत्यक्चेतनरूपाय स्वरूपाय नमो ऽस्तु मे
चितये चेत्यमुक्ताय युक्त्या युक्ताय योग्यया । सर्वावभासरूपाय मह्यम् एव नमो नमः
चेत्यनिर्मुक्तचिद्रूपं विष्वग्विश्वावपूरकम् । संशान्तसर्वसंवेद्यं संविन्मात्रम् अहं ततम्
आकाशवद् अनन्तो ऽहम् अप्य् अणोर् अणुर् आततः । नासादयन्ति माम् एतास् सुखदुःखदशादृशः
संवेदनम् असंवेद्यम् अचेत्यं चेतनं ततम् । न शक्ता मां परिच्छेत्तुम् भावाभावा जगद्गताः
अथ वैते जगद्भावाः परिच्छिन्दन्तु माम् इमम् । यथाभिमतम् एते हि मत्तो न व्यतिरेकिणः
यदि स्वभावभूतेन वस्तुना वस्तु मीयते । ह्रियते दीयते वापि तत् किं कस्य किल क्षतम्