अद्यापरिमिताकारकारणैकतयात्मनः । सर्वतस् सुखम् अभ्येमि रसायन इवार्णवे
को ऽयं तावद् अहं किं स्याद् आत्मेत्य् आत्मावलोकनम् । पृच्छाम्य् उशनसं नाथं नूनम् अज्ञानशान्तये
सञ्चिन्तयामि परमेश्वरम् आशु शुक्रम् उद्यत्प्रसादम् अथ तेन गिरोपदिष्टः । तिष्ठाम्य् अनन्तविभवे स्वयम् आत्मनात्मन्य् अक्षीणम् अर्थम् उपदेशगिरः फलन्ति
इति सञ्चिन्त्य भगवान् बडिर् आमीलितेक्षणः । दध्यौ कमलपत्त्राक्षं शुक्रम् आकाशमन्दिरम्
सर्वस्थचिन्मयानन्तनित्यध्यानो ऽथ भार्गवः । चेतन्तं ज्ञातवाञ् शिष्यं बडिं गुर्वर्थिनं पुरे
अथ सर्वगतानन्तचिदात्मा भार्गवः प्रभुः । आनिनाय स देहं स्वं रत्नवातायनं बडेः
गुरुदेहप्रभाजालपरिमृष्टतनुर् बडिः । बुबुधे प्रातर् अर्कांशुसम्बोधितम् इवाम्बुजम्
तत्र रत्नार्घदानेन मन्दारकुसुमोत्करैः । पादाभिवन्दनेनैनं पूजयाम् आस भार्गवम्
रत्नार्घपरिकीर्णाङ्गं कृतमन्दारशेखरम् । महार्हासनविश्रान्तम् अथोवाच गुरुं बडिः
भगवंस् त्वत्प्रसादोत्था प्रतिभेयं पुरस् तव । नियोजयति मां वक्तुं कार्यं कर्तुम् इवार्कभाः
भोगान् प्रति विरक्तो ऽस्मि महासम्मोहदायिनः । तत्त्वं विज्ञातुम् इच्छामि महासम्मोहहारि यत्
किम् इहास्ति कियन्मात्रम् इदं किम्मयम् एव वा । को ऽहं कस् त्वं किम् एते वा लोका इति वदाशु मे
बहुनात्र किम् उक्तेन खं गन्तुं यत्नवान् अहम् । सर्वं दानवराजेन्द्र सारं सङ्क्षेपतश् शृणु
चिद् इहास्ति हि चिन्मात्रम् इदं चिन्मयम् एव च । चित् त्वं चिद् अहम् एते च लोकाश् चिद् इति सङ्ग्रहः
चितं निश्चयम् आदाय विलोकय धियेद्धया । स्वयम् एवात्मनात्मानम् अनन्तं पदम् आप्स्यसि
भव्यो ऽसि चेत् तद् एतस्मात् सर्वम् आप्नोषि निश्चयात् । नो चेत् तद् बह्व् अपि प्रोक्तं त्वयि भस्मनि हूयते
चिच्चेत्यकलना बन्धस् तन्मुक्तिर् मुक्तिर् उच्यते । चिद् अचेत्या किलात्मेति सर्वसिद्धान्तसङ्ग्रहः
एतं निश्चयम् आदाय विलोकय धियेद्धया । स्वयम् एवात्मनात्मानम् अनन्तं पदम् आप्स्यसि
खं व्रजाम्य् अहम् अत्रैते मुनयस् सप्त सङ्गताः । केनापि सुरकार्येण वर्तव्यं तत्र खे मया
राजन् यावद् अयं देहस् तावन् मुक्तधियाम् अपि । यथाप्राप्तार्थसन्त्यागो रोचते न स्वभावतः
इति कथितवताथ भार्गवेण स्फुटजलराशिपथे महाजवेन । प्लुतम् अलिशबले नभोऽन्तराले तरलतरङ्गवद् आकुले ग्रहौघैः
सुरासुरसभापूज्ये तस्मिन् भृगुसुते गते । मनसा चिन्तयाम् आस बडिर् बलवतां वरः
युक्तम् उक्तं भगवता चिद् एवेदं जगत्त्रयम् । चिद् अहं चिद् इमे लोकाश् चिद् आशा चिद् इयं क्रिया
सबाह्याभ्यन्तरं सर्वं चिद् एव परमार्थतः । अस्ति चिद्व्यतिरेकेण नेह किञ्चन कुत्रचित्
अयम् आदित्य इत्य् अर्को न चिता चेत्यते यदि । तद् अर्कतमसोर् भेदः क इवेहोपलभ्यते
इयं भूर् इति भूर् एषा चिता यदि न चेत्यते । भूमेः किं नाम भूमित्वं तद् भवेद् भव्यतां गतम्
इमा दिशो दिश इति चेत्यन्ते न चिता यदि । तत् किं नाम दिशां दिक्त्वं शैलानां वापि काद्रिता
इदं जगद् इति जगच् चिता यदि न चेत्यते । तत् किं जगत्त्वं जगतो नभस्त्वं नभसो ऽथ किम्
कायो ऽयं पर्वताकारश् चिता यदि न चेत्यते । तत् किं नाम शरीरत्वं शरीरस्य शरीरिणाम्
चिद् इन्द्रियाणि चित् कायश् चिन् मनश् चित् तदेषणा । चिद् अन्तश् चिद् बहिश् चित् खं चिद् भावश् चिद् भवस्थितिः