ततो विचारस् तदनु ज्ञानशास्त्रार्थसङ्ग्रहः । ततः क्रमेण परमपदप्राप्तिः प्रजायते
यदासुरपते काले विषयेभ्यो विरंस्यसि । तदा विचारवशतः परमं पदम् एष्यसि
सम्यक् प्राप्स्यसि विश्रान्तिम् आत्मन्य् अत्यन्तपावने । न पुनः कलनापङ्के दुःखायावपतिष्यसि
देशक्रमेण धनम् अल्पविगर्हणेन तेनाङ्ग साधुजनम् अर्जय मानपूर्वम् । तत्सङ्गमोत्थविषयाभ्यवहेलनेन सम्यग्विचारविभवेन तवात्मलाभः
एतन् मे कथितं पूर्वं पित्रा चारुविचारिणा । इदानीं संस्मृतं दिष्ट्या सम्प्रबोधम् अहं गतः
अद्येयं मम सञ्जाता भोगान् प्रत्य् अरतिस् स्फुटम् । दिष्ट्या शमसुखं स्वच्छं विशाम्य् अमृतशीतलम्
पुनर् आपूरयन्न् आशाः पुनर् अभ्याहरन् धनम् । पुनर् आवर्जयन् कान्ताः खिन्नो ऽस्मि विभवस्थितौ
अहो नु खलु रम्येयं शमभूश् शीतलान्तरा । सर्वा एव शमं यान्ति सुखदुःखदृशश् शमे
शाम्यामि परिनिर्वामि सुखम् आसे शमे स्थितः । अयम् अन्तः प्रहृष्यामि चन्द्रबिम्ब इवार्पितः
उत्ताण्डवमनोरंहःपोषितोरुशरीरकम् । अनारतपरिक्षोभं हा दुःखं विभवार्जनम्
अङ्गम् अङ्गेन सम्पीड्य मांसं मांसेन च स्त्रियाः । पुराहम् अभवं प्रीतो यत् तन् मोहविजृम्भितम्
दृष्टान्तदृष्टयो दृष्टा भुक्तं भोक्तव्यम् अक्षतम् । आक्रान्तम् अखिलं भूतजातं किम् इव शोभनम्
पुनस् तान्य् एव तान्य् एव तत्रेहान्यत्र चात्र च । इतश् चेतश् च वस्तूनि नापूर्वं नाम किञ्चन
सर्वम् एव परित्यज्य परिहृत्य धिया स्वयम् । स्वच्छ एवावतिष्ठे ऽहं पूर्णो ऽर्णव इवात्मनि
पाताले भूतले स्वर्गे स्त्रियो रत्नोपलादयः । सारं तद् अपि तुच्छेन कालेनाशु निगीर्यते
एतावन्तम् अहं कालं भृशं बालो ऽभवं पुरा । यः कुर्वन् द्वेषम् अमरैस् तुच्छया जगदिच्छया
मनोनिर्माणमात्रेण जगन्नाम्ना महाधिना । त्यक्तेनात्तेन वार्थस् स्यात् क उदारो महात्मनः
कष्टं चिरतरं कालम् अनर्थो ऽर्थधिया मया । अज्ञानमदमत्तेन बालेन श्वेव सेवितः
तरत्तरलतृष्णेन किम् इवास्मिञ् जगत्त्रये । मया न कृतम् अज्ञेन पश्चात्तापाभिवृद्धये
एतया तद् अलं मे ऽस्तु तुच्छया पूर्वचिन्तया । पौरुषं याति साफल्यं वर्तमानचिकित्सया
अद्यापरिमिताकारकारणैकतयात्मनः । सर्वतस् सुखम् अभ्येमि रसायन इवार्णवे
को ऽयं तावद् अहं किं स्याद् आत्मेत्य् आत्मावलोकनम् । पृच्छाम्य् उशनसं नाथं नूनम् अज्ञानशान्तये
सञ्चिन्तयामि परमेश्वरम् आशु शुक्रम् उद्यत्प्रसादम् अथ तेन गिरोपदिष्टः । तिष्ठाम्य् अनन्तविभवे स्वयम् आत्मनात्मन्य् अक्षीणम् अर्थम् उपदेशगिरः फलन्ति
इति सञ्चिन्त्य भगवान् बडिर् आमीलितेक्षणः । दध्यौ कमलपत्त्राक्षं शुक्रम् आकाशमन्दिरम्
सर्वस्थचिन्मयानन्तनित्यध्यानो ऽथ भार्गवः । चेतन्तं ज्ञातवाञ् शिष्यं बडिं गुर्वर्थिनं पुरे
अथ सर्वगतानन्तचिदात्मा भार्गवः प्रभुः । आनिनाय स देहं स्वं रत्नवातायनं बडेः
गुरुदेहप्रभाजालपरिमृष्टतनुर् बडिः । बुबुधे प्रातर् अर्कांशुसम्बोधितम् इवाम्बुजम्
तत्र रत्नार्घदानेन मन्दारकुसुमोत्करैः । पादाभिवन्दनेनैनं पूजयाम् आस भार्गवम्
रत्नार्घपरिकीर्णाङ्गं कृतमन्दारशेखरम् । महार्हासनविश्रान्तम् अथोवाच गुरुं बडिः
भगवंस् त्वत्प्रसादोत्था प्रतिभेयं पुरस् तव । नियोजयति मां वक्तुं कार्यं कर्तुम् इवार्कभाः